शांतिपर्व

अध्यायः २६५

Santi Parva (Sanskrit) · Adhyaya 265
अक्षर का आकार

युधिष्ठिर उवाच।

इमे वै मानसाः सर्वे धर्मं प्रति विशङ्किताः।
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह।।

धर्मस्त्वयमिहार्थः किममुत्रार्थोपि वा भवेत्।
उभयार्थो हि वा धर्मस्तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्।
चतुर्थमर्थमप्याहुः कवयो धर्मलक्षणम्।।

अविध्युक्तानि कर्माणि व्यवस्यन्त्युप्तमूषरे।
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः।।

उभयत्र सुखोदर्क इह चैव परत्र च।
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति।।

न च पापकृतः पापान्मुच्यन्ते केचिदापदि।
अपापवादी भवति यथा भवति धर्मवित्।
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य चावसेत्।।

यथाधर्मसमाविष्टो धनं गृह्णाति तस्करः।
रमते निर्हरस्तेनः परवित्तमराजके।।

यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति।
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः।।

अभीतः शुचिरभ्येति राजद्वारमशङ्कितः।
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति।।

सत्यस्य वचनं साधु न सत्याद्विद्यते परम्।
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्।।

अपि पापकृतो रौद्राः सत्यं कृत्वा मिथःकृतम्।
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः।।

ते चेन्मिथ्या धृतिं कुर्युर्विनश्येयुरसंशयम्।
न हर्तव्यं परधनमिति धर्मविदो विदुः।।

मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम्।
यदा नियतिदौर्बल्यमथैषामेव रोचते।।

न ह्यत्यन्तं बलयुता भवन्ति सुखिनोपि वा।
तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन।।

असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः।
अकिंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत्।।

सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान्।
बहुधाऽऽचरितं पापमन्यत्रैवानुपश्यति।।

मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा।
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति।।

दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः।
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम्।।

यदा नियतिकार्पण्यमथैपामव रोचते।
धनवन्तोपि नात्यन्तं भवन्ति सुखिनोपि वा।।

यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः।
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः।।

योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति।
यदन्यस्य ततः कुर्यान्न मृष्येदिति मे मतिः।।

जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत्।
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत्।।

अतिरिक्तः संविभजेद्भोगैरन्यानकिंचनान्।
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम्।।

यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत्।
अथ चेल्लोभसमये स्थितिर्धर्मोऽपि शोभना।।

सर्वं प्रियाभ्युपगतं पुण्यमाहुर्मनीषिणः।
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर।।

लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा।
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्।।

धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम।
तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चषष्ट्यधिकद्विशततमोऽध्यायः।। 265।।