शांतिपर्व
अध्यायः २६०
व्यास उवाच।
हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः।
क्रोधमानमहास्कन्धो विवित्सापरिवेषणः।।
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्।
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान्।।
संमोहचिन्ताविटपः शोकशाखो भयाङ्कुरः।
मोहनीभिः पिपासाभिर्लताभिरनुवेष्टितः।।
उपासते महावृक्षं सुलुब्धास्तत्फलेप्सवः।
आयतैः संयुताः पाशैः फलदं परिवेष्ट्य तम्।।
यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति।
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः।।
संरोहत्यकृतप्रज्ञः ससत्वो हन्ति पादपम्।
स तमेवाहतो हन्ति विषं ग्रस्तमिवातुरम्।।
तस्यानुगतमूलस्य मूलमुद्भियते बलात्।
योगप्रसादात्कृतिना साम्येन परमासिना।।
एवं यो वेद कामस्य केवलं परिसर्पणम्।
एतच्च कामशास्त्रस्य सुदुःखान्यतिवर्तते।।
शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते।
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम्।।
इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः।
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा।
तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः।।
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः।
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते।।
पौराश्चापि मनस्तृप्तास्तेषामपि चला स्थितिः।
यदर्थं बुद्धिरध्यास्ते सोऽनर्थः परिषीदति।।
`पौरमन्त्रवियुक्तायाः सोऽर्थः संसीदति क्रमात्'।
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति।।
पृथग्भूतं मनो बुद्ध्या मनो भवति केवलम्।
तत्रैनं विकृतं शून्यं रजः पर्यवतिष्ठते।।
तन्मनः कुरुते सख्यं रजसा सह संगतम्।
तं चादाय जनं पौरं रजसे संप्रयच्छति।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षष्ट्यधिकद्विशततमोऽध्यायः।। 260।।