शांतिपर्व
अध्यायः २६१
भीष्म उवाच।
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय।
द्वैपायनमुखाद्धष्टं श्लाघया परयाऽनघ।।
दीप्तानलनिभः प्राह भगवान्धूमवत्सलः।
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम्।।
भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवात्मता।
गन्धो भारश्च शक्तिश्च संघातः स्थापना धृतिः।।
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता।
जिह्वाविस्यन्दनं चापि भौमानां श्रपणं तथा।।
अग्नेर्दुर्धर्षता ज्योतिस्तापः पाकः प्रकाशनम्।
शौचं रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभागिता।।
वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता।
बलं शैध्यं च मोक्षं च कर्म चेष्टात्मता भवः।।
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रताऽपि च।
अनाश्रयमनालम्बमव्यक्तमविकारिता।।
अप्रतीघातिता चैव श्रोतत्वं विवराणि च।
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतविभाविताः।।
फलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा।
सदसच्चाशुता चैव मनसो नव वै गुणाः।।
इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता।
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः।।
युधिष्ठिर उवाच।
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः।
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह।।
भीष्म उवाच।
आहुः षष्टिं भूतगुणान्वै
भूतविषक्तान्प्रकृतिविसृष्टान्।
नित्यविषक्तांश्चाक्षरसृष्टा
न्पुत्र न नित्यं तदिह वदन्ति।।
तत्पुत्रचिन्ताकलिलं तदुक्त
मनागतं वै तव संप्रतीह।
भूतार्थवत्त्वं तदवाप्य सर्वं
भूतप्रभावाद्भव शान्तबुद्धिः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वँणि
एकषष्ट्यधिकद्विशततमोऽध्यायः।। 261।।