शांतिपर्व
अध्यायः २५९
व्यास उवाच।
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम्।
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः।।
यथा मरीच्यः सहिताश्चरन्ति
गच्छन्ति तिष्ठन्ति च दृश्यमानाः।
देहैर्विमुक्तानि वरन्ति लोकां
स्तथैव सत्वान्यतिमानुषाणि।।
प्रतिरूपं यथैवाप्सु तावत्सूर्यस्य लक्ष्यते।
सत्ववांस्तु तथा सत्वं प्रतिरूपं स पश्यति।।
तानि सूक्ष्माणि सत्वानि विमुक्तानि शरीरतः।
तेन तत्वेन तत्वज्ञाः पश्यन्ति नियतेन्द्रियाः।।
स्वपतां जाग्रतां चैष सर्वेषामात्मचिन्तितम्।
प्रधानाद्वैधयुक्तानां दह्यते कर्मजं रजः।।
यथाऽहनि तथा रात्रौ यथा रात्रौ तथाऽहनि।
वशे तिष्ठति सत्वात्मा सततं योगयोगिनाम्।।
तेषां नित्यं सदा नित्यो भूतात्मा सततं गुणैः।
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः।।
मनोवुद्धिपराभूतः स्वदेहपरदेहवित्।
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः।।
तत्रापि लभते दुःखं तत्रापि लभते सुखम्।
कामं क्रोधं च तत्रापि कृत्वा व्यसनमृच्छति।।
प्रीणितश्चापि भवति महतोऽर्थानवाप्य हि।
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति।।
सदोष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान्।
दश मासान्वसन्कुक्षौ नैषोऽन्नमिव जीर्यते।।
तमेतमतितेजोंशं भूतात्मानं हृदि स्थितम्।
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु।।
योगशास्त्रपरा भूत्वा स्वमात्मानं परीप्सवः।
`तमोरजोभ्यां निर्मुक्तास्तं प्रपश्यन्ति मूर्तिषु।'
अनुच्छ्वासान्यमूर्तानि यानि वज्रोपमान्यपि।।
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु।
समाधौ योगमेवैतच्छाण्डिल्यः सममब्रवीत्।।
विदित्वा सप्तसूक्ष्माणि षडङ्गं च महेश्वरम्।
प्रधानविनियोगज्ञः परं ब्रह्मानुपश्यति।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोनषष्ट्यधिकद्विशततमोऽध्यायः।। 259।।