शांतिपर्व

अध्यायः २५

Santi Parva (Sanskrit) · Adhyaya 25
अक्षर का आकार

वैशंपायन उवाच।

द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये।
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः।।

युधिष्ठिर उवाच।

न पार्थिवमिदं राज्यं न भोगाश्च पृथग्विधाः।
प्रीणयन्ति मनो मेऽद्य शोको मां दारयत्ययम्।।

श्रुत्वा वीरविहीनानामपुत्राणां च योषिताम्।
परिदेवयमानानां न शान्तिं मनसा लभे।।

इत्युक्तः प्रत्युवाचेदं व्यासो योगविदांवरः।
युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः।।

व्यास उवाच।

न कर्मणा लभ्यते चेज्यया वा
नाप्यस्ति दाता पुरुषस्य कश्चित्।
पर्याययोगाद्विहितं विधात्रा
कालेन सर्वं लभते मनुष्यः।।

न बुद्धिशक्त्याऽऽध्ययनेन शक्यं
प्राप्तुं विशेषं मनुजैरकाले।
मूर्खोऽपि चाप्नोति कदाचिदर्था
न्कालो हि सर्वं पुरुषस्य दाता।।

न भूरकालेषु फलं ददाति
शिल्पानि मन्त्राश्च तथौषधानि।
तान्येव कालेन समाहितानि
सिद्ध्यन्ति वर्धन्ति च भूतिकाले।।

कालेन शीघ्राः प्रवहन्ति वाताः
कालेन वृष्टिर्जलदानुपैति।
कालेन पझोत्पलवञ्जलं च
कालेन पुष्यन्ति वनेषु वृक्षाः।।

कालेन कृष्णाश्च सिताश्च रात्र्यः
कालेन चन्द्रः परिपूर्णबिम्बः।
नाकालतः पुष्पफलं द्रुमाणां
नाकालवेगाः सरितो वहन्ति।।

नाकालमत्ताः खगपन्नगाश्च
मृगद्विपाः शैलमृगाश्च लोके।
नाकालतः स्त्रीषु भवन्ति गर्भा
नायन्त्यकाले शिशिरोष्णवर्षाः।।

नाकालतो म्रियते जायते वा
नाकालतो व्याहरते च बालः।
नाकालतो यौवनमभ्युपैति
नाकालतो रोहति बीजमुप्तम्।।

नाकालतो भानुरुपैति योगं
नाकालतोऽस्तं गिरिमभ्युपैति।
नाकालतो वर्धते हीयते च
चन्द्रः समुद्रोऽपि महोर्मिमाली।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर।।

सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुःसहः।
कालेन परिपक्वा हि म्रियन्ते सर्वपार्थिवाः।।

घ्नन्ति चान्यान्नरान्राजंस्तानप्यन्ये तथा नराः।
संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते।।

हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः।
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ।।

नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
अहो दुःखमिति ध्यायन्दुःखस्यापचितिं चरेत्।।

स किं शोचसि मूढः सञ्शोच्यान्किमनुशोचसि।
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि।।

आत्माऽपि चायं न मम सर्वाऽपि पथिवी मम।
यथा मम तथाऽन्येषामिति पश्यन्न मुह्यति।।

शोकस्थानसहस्राणि हर्षस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्।।

एवमेतानि कालेन प्रियद्वेष्याणि भागशः।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च।।

दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्।।

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
न नित्यं लभते दुःखं न नित्यं लभते सुखम्।।

सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम्।
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम्।।

सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम्।
यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्च्छितः।
आयासो वाऽपि यन्मूलस्तदेकाङ्गमपि त्यजेत्।।

सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः।।

ईषदप्यङ्ग दाराणां पुत्राणामाचरन्प्रियम्।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च।।

ये च मूढतमा लोके ये च बुद्धेः परं गताः।
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः।।

इत्यन्नवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्।
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित्।।

परदुःखेन दुःखी यो न स जातु सुखी भवेत्।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम्।।

सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च।
पर्यायतः सर्वमवाप्तुवन्ति
तस्मान्न मुह्येन्न च संप्रहृष्येत्।।

दीक्षां राज्ञां संयुगे धर्ममाहु
र्योगं राज्ये दण्डनीतिं च सम्यक्।
वित्तत्यागं दक्षिणां चैव यज्ञे
सम्यग्दानं पावनानीति विद्यात्।।

रक्षन्राज्यं बुद्धिपूर्वं नयेन
संत्यक्तात्मा यज्ञशीलो महात्मा।
सर्वाल्लोकान्धर्मदृष्ट्यावलोक
न्नूध्वं देहान्मोदते देवलोके।।

जित्वा संग्रामान्पालयित्वा च राष्ट्रं
सोमं पीत्वा वर्धयित्वा प्रजाश्च।
युक्त्या दण्डं धारयित्वा प्रजानां
पश्चात्क्षीणायुर्मोदते देवलोके।।

पूतात्मा वै मोदते देवलोके।।

यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः।
पौरजानपदामात्याः स राजा राजसत्तमः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चविंशोऽध्यायः (*)।। 25।।