शांतिपर्व
अध्यायः २५८
व्यास उवाच।
द्वन्द्वासि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः।
वक्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्।।
आकाशं मारुतो ज्योतिरा--पृथ्वी च पञ्चमी।
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु।।
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्।
तस्य शब्दं गुणं विद्यान्मुनिः शास्त्रविधानवित्।।
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ।
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्।।
तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्।
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान्।।
प्रक्लेदो द्रवता स्नेह इत्यपामुपदिश्यते।
[असृङ्भज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम्।।]
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः।।
संघातः पार्थिवो धातुरस्थिदन्तनखानि च।
श्मश्चु रोम च केशाश्च सिरा स्नायु च चर्म च।।
इन्द्रियं घ्राणसंज्ञातं नासिकेत्यभिसंज्ञिता।
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः।।
उत्तरेषु गुणाः सर्वे सन्ति पूर्वेषु नोत्तराः।
पञ्चानां भूतसङ्घानां संततिं मुनयो विदुः।।
मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता।
एकादशस्त्वन्तरात्मा स सर्वः पर उच्यते।।
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्।
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः।।
एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम्।
पश्यत्यकलुयं बुद्ध्या स मोहं नानुवर्तते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टपञ्चाशदधिकद्विशततमोऽध्यायः।। 258।।