शांतिपर्व

अध्यायः २५०

Santi Parva (Sanskrit) · Adhyaya 250
अक्षर का आकार

भीष्म उवाच।

प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः।
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर।।
`व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने।'

व्यास उवाच।

क्रय----त्ववधृयैनां तृतीयां वृत्तिमुत्तमाम्।
संयोगव्रत----वानप्रस्थाश्रमौकसाम्।।

श्रूयतां पुत्र भद्रं ते सर्वलोकाश्रमात्मनाम्।
प्रेक्षापूर्वं यदा पत्त्येद्वलीपलितमात्मना।।

अपत्यस्यैव चापण्यं वनमेव तदाऽऽश्रयेत्।।

तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत्।
तानेवाग्नीन्पस्त्विरेद्यजमानो दि--कसः।।

निय------नियताराहः षष्ठभक्तो ---त्तवान।
तदाग्रहात्रं तो --- यज्ञाङ्गां व सर्वशः।।

अवैकृष्टं व्रीहियव नीवारे विघसानि च।
हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु।।

वानप्रस्खाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः।
सद्यः प्रक्षालकाः केचित्केचिन्मासिकसंचयाः।।

वार्षिकं संचयं केचित्केतिद्द्वादशवार्षिकम्।
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव वा।।

अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः।
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः।।

भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि।
स्थानासनैर्वर्तयन्ति स वनेष्वभिषिञ्चते।।

दन्तोलूखलिकाः केचिदश्मकुट्टास्तथा परे।
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत्।।

कृष्णपक्षे पिबन्त्यन्ये भुञ्जते वा यथागतम्।
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः।।

वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः।
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम्।।

चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः।
वानप्रस्थाद्गृहस्थाच्च ततोऽन्यः संप्रवर्तते।
अस्मिन्नेव युगे तात वितैस्तत्वार्थदर्शिभिः।।

अगस्त्यः सप्तऋषयो मधुच्छन्दोऽधमर्षणः।
सांकृतिः सुदिवातण्डिर्यथावासो कृतश्रमः।।

अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिदुऽ।
बलवान्कर्णनिर्वाकः शून्यपालः कृतश्रम-----।
एते धर्मे सुविद्वांसस्ततः स्वर्गमुसागमन।।

तात प्रत्यक्षधर्माणस्तथा काथवारा गणाः।
ऋषीणामुग्रतपसां धर्मनैपुणेदर्शिनाम्।।

अन्ये चापरिमेयाश्च ब्राह्मणा वनमश्रितताः।
वैखातसा वालखिल्याः सैकताच्च तथा परे।।

कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः।
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः।।

अनक्षत्रास्त्वनाधृष्या दृश्यते ज्योतिषां गणाः।
जरया च परिद्यूना व्याधिना च प्रपीडिताः।।

चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत्।
साद्यस्कां संनिरुप्येष्टिं सर्ववेदसदक्षिणाम्।।

आत्मयाजी सोऽत्मरतिरात्मक्रीडात्मसंश्रयः।
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान्।।

साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा।
यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते।।

त्रींश्चैवाग्नींस्त्यजेत्सम्यगात्मन्येवात्ममोक्षणात्।
प्राणेभ्यो यजुषां पञ्च षट्‌ प्राश्नीयादकुत्सयन्।।

केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः।
आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः।।

अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्द्विजः।
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते।।

सुशीलवृत्तो व्यपनीतकल्मषो
नचेह नामुत्र च कर्तुमीहते।
अरोपमोहो गतसन्धिविग्रहो
भवेदुदासीनवदात्मविन्नरः।।

यमेषु चैवानुगतेषु न व्यथे
त्स्वशास्त्रमूत्राहुतिमन्त्रविक्रमः।
भवेद्यथेष्टा गतिरात्मयाजिनो
न संशयो धर्मपरे जितेन्द्रिये।।

ततः परं श्रेष्ठमतीव सद्गुणै
रधिष्ठितं त्रीनधिवृत्तिमुत्तमम्।
चतुर्थमुक्तं परमाश्रमं शृणु
प्रकीर्त्यमानं परमं परायणम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोश्रधर्मपर्वणि
पञ्चाशदधिकद्विशततमोऽध्यायः।। 250।।