शांतिपर्व

अध्यायः २५१

Santi Parva (Sanskrit) · Adhyaya 251
अक्षर का आकार

श्रीशुक उवाच।

वर्तमानस्तयेवात्र वानप्रस्थाश्रमे यथा।
योक्तव्योऽऽत्मा कथं शक्त्या परं वै काङ्क्षता पदम्।।

व्यास उवाच।

प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्।
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु।।

कषायं पाचयित्वाऽऽशु श्रेणिस्थानेषु च त्रिषु।
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्।।

यद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा।
एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान्।।

एकश्चरतिः यः पश्यन्न जहाति न हीयते।
अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत्।।

अश्वस्तनविधाता स्यान्मुनिर्भावसमन्वितः।
लघ्वाशी नियताहारः सकृदन्ननिषेविता।।

णलं वृक्षमलानि कुचेलमसदृ-------।
उपक्षा सर्वभूतानामेतावद्भिक्षुलक्षणाम्।।

यस्मिन्वाचा प्राविशन्ति कूपे प्राप्ताः शिलाइव।
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत्।।

नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्।
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन।।

बद्ब्राह्मणस्य कुशलं तदेव सततं वदेत्।
तूष्णीमासीत निन्दायां कुर्वन्भैषज्यमात्मनः।।

येन पूर्णमिवाकाशं भवत्येकेन सर्वदा।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः।।

येनकेन चिदाच्छन्नो येनकेनचिदाशितः।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः।।

अहेरिव गणाद्भीतः सन्मानान्मरणादिव।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः।।

न कुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः।।

नाभिनन्देत मरणं नाभिनन्देत जीवितम्।
कालमेव प्रतीक्षेत निदेशं भृतको यथा।।

अनभ्याहतचित्तः स्यादनभ्याहतवाग्भवेत्।
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम्।।

अभयं सर्वभूतेभ्यो भूतानामभयं यतः।
तस्य मोहाद्विमुक्तस्य भयं नास्ति कुतश्चन।।

यथा नागपदेऽन्यानि पदानि पदगामिनाम्।
सर्वाण्येवापिलीयन्ते पदजातानि कौञ्जरे।।

एवं सर्वमहिंसायां धर्मार्थमभिधीयते।
अमृतः स नित्यं भवति यो हिंसां न प्रपद्यते।।

अहिसंकः समः सत्यो धृतिमान्नियतेन्द्रियः।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्।।

एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः।
न मृत्युरतिगो भावः स मृत्युं नाधिगच्छति।।

विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम्।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः।।

जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः।।

निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्।
निर्मुक्ते बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः।।

सर्वाणि भूतानि सुखे रमन्ते
सर्वाणि दुःखस्य भृशं त्रसन्ते।
तेषां भयोत्पादनजातखेदः
कुर्यान्न कर्माणि हि श्रद्दधानः।।

दानं हि भूताभयदक्षिणायाः
सर्वाणि दानान्यधितिष्ठतीह।
तीक्ष्णां तनुं यः प्रथमं जहाति
सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः।।

स दत्तमास्येन हविर्जुहोति
लोकस्य नाभिर्जगतः प्रतिष्ठा।
तस्याङ्गमङ्गानि कृताकृतं च
वैश्वानरः सर्वमिदं प्रपेदे।।

प्रादेशमात्रे हृदि निःसृतं य
त्तस्मिन्प्राणानात्मयाजी जुहोति।
तस्याग्निहोत्रं हुतमात्मसंस्थं
सर्वेषु लोकेषु सदैवतेषु।।

देवं त्रिधातुं त्रिवृतं सुपर्ण
ये विद्युरग्र्यां परमात्मतां च।
ते सर्वलोकेषु महीयमाना
देवाः समर्था अमृतं वहन्ति।।

वेदांश्च वेद्यं तु विधिं च कृत्स्न
मथो निरुक्तं परमार्थतां च।
सर्वं शरीरात्मनि यः प्रवेद
तस्य स्म देवाः स्पृहयन्ति नित्यम्।।

भूमावसक्तं दिवि चाप्रमेयं
हिरण्मयं योऽण्डजमण्डमध्ये।
पतत्रिणं पक्षिणमन्तरिक्षे
यो वेद भोग्यात्मनि दीप्तरश्मिः।।

आवर्तमानमजरं विवर्तनं
षण्णाभिकं द्वादशारं सुपर्व।
यस्येदमास्योपरि याति विश्वं
यत्कालचक्रं निहितं गुहायाम्।।

यः संप्रजानञ्जगतः शरीरं
सर्वान्स लोकानधिगच्छतीह।
तस्मिन्हितं तर्पयतीह देवां
स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य।।

तेजोमयो नित्यमयः पुराणो
लोकाननन्तानभयानुपैति।
भूतानि यस्मान्न त्रसन्ते कदाचि
त्स भूतानां न त्रसते कदाचित्।।

अगर्हणीयो न च गर्हतेऽन्या
न्स वै विप्रः परमात्मानमीक्षेत्।
विनीतमोहो व्यपनीतकल्मषो
न चेह नामुत्र च सोऽन्नमर्च्छति।।

अरोषमोहः समलोष्टकाञ्चनः
प्रहीणशोको गतसन्धिविग्रहः।
अपेतनिन्दास्तुतिरप्रियाप्रिय
श्चरन्नुदासीनवदेष भिक्षुकः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकपञ्चाशदधिकद्विशततमोऽध्यायः।। 251।।