शांतिपर्व

अध्यायः २४९

Santi Parva (Sanskrit) · Adhyaya 249
अक्षर का आकार

व्यास उवाच।

--तीयमायुषो भागं गृहमेधी गृहे वसेत्।
धर्मलब्धैर्युतो दारैरग्नीनाहृत्य सुव्रतः।।

गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः।
कुमूलधान्यः प्रथमः कुम्भधान्यस्त्वनन्तरम्।।

अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत्।
तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः।।

षट्‌कर्मावर्तयत्येकस्त्रिभिरन्यः प्रवर्तते।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः।।

गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते।
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशून्।।

प्राणी वा यदि वाऽप्राणी संस्कारं यजुषाऽर्हति।
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः।।

न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम्।
नास्यानश्नन्गृहे विप्रो वसेत्कश्चिदपूजितः।।

तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा।
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः।।

स्वकर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः।
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते।।

नखरैः संप्रयातस्य स्वकर्मव्यापकस्य च।
अपविद्धाग्निहोत्रस्य गुरोर्वाऽलीकचारिणः।।

संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना।।

विस्साशी भवेन्नित्यं नित्यं चामृतभोजनः।
असुत --शेषं स्याद्भोजनं हविषा समम्।।

भृत्यशेष तु योऽश्नाति तमाहुर्विघसा शिनम्।
विघसं भृत्यशेषं तु यज्ञशेषमथास्मृतय।।

स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः।
ऋत्विक्पुरोहिताचार्यर्मालुलातिथिनंश्रितैः।।

वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिरान्धवैः।
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भावया।।

दुहित्रा दासवर्गेण विवादं न समाचरत्।
एतान्विमुच्य संवादान्सर्वपापैर्विमुच्यते।।

एतैर्जितस्तु जयति सर्वाल्लोँकान्न संशयः।
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः।।

अतिथिस्त्विन्द्रलोकस्य देवलोकस्य चर्त्विजः।
जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः।।

संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ।
बृद्धबावातुरकृशास्त्वाकाशे प्रभविष्णवः।।

भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः।
छाया स्वा दासवर्गश्च दुहिता कृपणं परम्।।

तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः।
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः।।

न चार्थबद्धः कर्माणि धर्मं वा किंचिदाचरेत्।
गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम्।।

परंपरं तथैवाहुश्चातुराश्रम्यमेव तत्।
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता।।

कुम्भधान्यैरुच्छशिलैः कापोतीं चास्थितास्तथा।
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते।।

दश पूर्वान्दश परान्पुनाति च पितामहान्।
गृहस्थवृत्तीश्चाप्येता वर्तयेद्यो गतव्यथः।।

स चक्रधरलोकानां सदृशीमाप्नुयाद्गतिम्।
वितेन्द्रियाणामथवा गतिरेषा विधीयते।।

सर्वलोको गृहस्थानामुदारमनसां हितः।
-- विमानसंयुक्तो वेददृष्टः -----।।

--लोको गृहस्थानां प्रतिष्ठा निवतात्मनान्।
ब्रह्मणा विहिता श्रेणिरेषा पस्पाद्विधीयते।
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते।।

अतः परं परममुदारमाश्रम्
तृतीयमाहुस्त्यजतां कलेवरम्।
वनौकसां गृहपतिनामनुत्तमं
शृणुष्व संश्लिष्टशरीरकारिणाम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोनपञ्चाशदधिकद्विशततमोऽध्यायः।। 249।।