शांतिपर्व

अध्यायः २४

Santi Parva (Sanskrit) · Adhyaya 24
अक्षर का आकार

वैशंपायन उवाच।

पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽर्थवत्।
अजातशत्रुं कौन्तेयमिदं वचनमब्रवीत्।।

अरण्ये वसतां तात भ्रातॄणां ते मनिस्विनाम्।
मनोरथा महाराज ये तत्रासन्युधिष्ठिर।।

तानि मे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः।
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः।।

अरण्ये दुःखवसतिरनुभूता तपस्विभिः।
दुःखस्यान्ते नरव्याघ्र सुखान्यनुभवन्तु वै।।

धर्ममर्थं च कामं च भ्रातृभिः सह भारत।
अनुभूय ततः पश्चात्प्रस्थाताऽसि विशांपते।।

अर्थिनां च पितृणां च देवतानां च भारत।
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि।।

सर्वमेधाश्चमेधाभ्यां यजस्व कुरुनन्दन।
ततः पश्चान्महाराज गमिष्यसि परां गतिम्।।

भ्रातृंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः।
संप्राप्तः कीर्तिमतुलां पाण्डवेय गमिष्यसि।।

विझस्ते पुरुषव्याघ्र वचनं कुरुसत्तम।
शृणुष्वैवं यथा कुर्वन्न धर्माच्च्यवसे नृप।।

आददानस्य विजयं विग्रहं च युधिष्ठिर।
समानधर्मकुशलाः स्थापयन्ति नरेश्वर।।

`प्रत्यक्षमनुमानं च उपमानं तथाऽऽगमः।
अर्थापत्तिस्तथैतिह्यं संशयो निर्णयस्तथा।।

आकार इङ्गितं चैव गतिश्चेष्टा च भारत।
प्रतिज्ञा चैव हेतुश्च दृष्टान्तोपनयस्तथा।।

उक्तिर्निगमनं तेषां प्रमेयं च प्रयोजनम्।
एतानि साधनान्याहुर्बहुवर्गप्रसिद्धये।।

प्रत्यक्षमनुमानं च सर्वेषां योनिरुच्यते।
प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः।
अप्रमाणवता नीतो दण्डो हन्यान्महीपतिम्।।

देशकालप्रतीक्षी यो दस्यून्मर्षयते नृपः।
शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः।।

आदाय बलिषङ्भागं यो राष्ट्रं नाभिरक्षति।
प्रतिगृह्णाति तत्पापं चतुर्थांशेन भूमिपः।।

निबोध च यथाऽऽतिष्ठन्धर्मान्न च्यवते नृपः।
निग्रहाद्धर्मशास्त्राणामनुरुद्ध्यन्नपेतभीः।
कामक्रोधावनादृत्य पितेव समदर्शनः।।

दैवेनाभ्याहतो राजा कर्मकाले महाद्युते।
न साधयति यत्कर्म न तत्राहुरतिक्रमम्।।

तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः।
पापैः सह न संदध्याद्राज्यं पुण्यं च कारयेत्।।

शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर।
गोमिनो धनिनश्चैव परिपाल्या विशेषतः।।

व्यवाहरेषु धर्मेषु योक्तव्याश्च बहुश्रुताः।
`प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः।।

वेदार्थतत्त्वविद्राजंस्तर्कशास्त्रबहुश्रुताः।
मन्त्रे च व्यवहारे च नियोक्तव्या विजानता।।

तर्कशास्त्रकृता बुद्धिर्धर्मशास्त्रकृता च या।
दण्डनीतिकृता चैव त्रैलोक्यमपि साधयेत्।।

नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्तिव।
वेदज्ञा ये च शास्त्रज्ञास्ते च राजन्सुबुद्धयः।।

आन्वीक्षकीत्रयीवार्तादण्डनीतिषु पारगाः।
ते तु सर्वत्र योक्तव्यास्ते च बुद्धेः परं गताः।। '

गुणयुक्तेऽपि नैकस्मिन्विश्वसेत विचक्षणः।।

अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः।
एनसा युज्यते राजा दुर्दान्त इति चोच्यते।।

ये रक्ष्यमाणा हीयन्ते दैवेनृभ्याहता नृप।
तस्करैश्चापि हीयन्ते सर्वं तद्राजकिल्विषम्।।

सुमन्त्रिते सुनीते च सर्वतश्चोपपादिते।
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर।।

विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवतः।
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम्।।

अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम्।
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पाण्डव।।

शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः।
असहायस्य संग्रामे निर्जितस्य युधिष्ठिर।।

यत्कर्म वै निग्रहे शात्रवाणां
योगश्चाग्र्यः पालने मानवानाम्।
कृत्वा कर्म प्राप्य कीर्ति स युद्धा
द्वाजिग्रीवो मोदते स्वर्गलोके।।

संत्यक्तात्मा समरेष्वाततायी
शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः।
अश्वग्रीवः कर्मशीलो महात्मा
संसिद्धार्थो मोदते स्वर्गलोके।।

धनुर्यूपो रशना ज्या शरः स्रु
क्स्रुवः खड्गो रुधिरं यत्र चाज्यम्।
रथो वेदी कामजो युद्धमग्नि
श्चातुर्होत्रं चतुरो वाजिमुख्याः।।

हुत्वा तस्मिन्यज्ञवह्नावथारी
न्पापान्मुक्तो राजसिंहस्तरस्वी।
प्राणान्हुत्वा चावभृथे रणे स
वाजिग्रीवो मोदते देवलोके।।

राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन
संत्यक्तात्मा यज्ञशीलो महात्मा।
सर्वांल्लोकान्व्याप्य कीर्त्या मनस्वी
वाजिग्रीवो मोदते देवलोके।।

दैवीं सिद्धिं मानुषीं दण्डनीतिं
योगन्यासैः पालयित्वा महीं च।
तस्माद्राजा धर्मशीलो महात्मा
वाजिग्रीवो मोदते देवलोके।।

विद्वांस्त्यागी श्रद्दधानः कृतज्ञ
स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा।
मेधाविनां विदुषां संमतानां
तनुत्यजां लोकमाक्रम्य राजा।।

सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य
सम्यग्राज्यं पालयित्वा महात्मा।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे
वाजिग्रीवो मोदते देवलोके।।

जित्वा संग्रामान्पालयित्वा प्रजाश्च
सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान्।
युक्त्या दण्डं धारयित्वा प्रजानां
युद्धे क्षीणे मोदते देवलोके।।

वृत्तं यस्य श्लाघनीयं मनुष्याः
सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम्।
स्वर्गं जित्वा वीरलोकानवाप्य
सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुविंशोऽध्यायः।। 24।।