शांतिपर्व
अध्यायः २४८
शुक उवाच।
क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च।
बुद्ध्यैश्वर्यातिसर्गोऽयं प्रधानश्चात्मनः श्रुतम्।।
भूय एव तु लोकेऽस्मिन्सद्वृतिं कालहेतुकीम्।
यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्तितुम्।।
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च।
कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि।।
लोकवृत्तान्ततत्वज्ञः पूतोऽहं गुरुशासनात्।
कृत्वा बुद्धिं विमुक्तात्मा द्रक्ष्याम्यात्मानमव्ययं।।
व्यास उवाच।
एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम्।
एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः।।
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः।
आत्मनश्च हृदि श्रेयो ह्यन्विच्छन्मनसाऽऽत्मनि।।
वने मूलफलाशी च तप्यन्सुविपुलं तपः।
पुण्यायतनचारी च भूतानामविहिंसक।।
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये।
काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे।।
निस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे।
अरण्ये विचरैकाकी येनकेनचिदाशितः।।
शुक उवाच।
यदिदं वेदवचनं लोकवादे विरुध्यते।
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रतः कुतः।।
इत्येतच्छ्रोतुमिच्छामि प्रमाणं तूभयं कथम्।
कर्मणामविरोधेन कथमेतत्प्रवर्तते।।
भीष्म उवाच।
इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम्।
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः।।
व्यास उवाच।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः।
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम्।।
एको वाऽप्याश्रमानेतान्योऽनुतिष्ठेद्यथाविधि।
अकामद्वेषसंयुक्तः स परत्र महीयते।।
चतुष्पदी हि निःश्रेयणी ब्रह्मण्येषा प्रतिष्ठिता।
एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते।।
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः।
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः।।
जघन्यशायी पूर्वं स्यादुत्थाय गुरुवेश्मनि।
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः।।
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः।
किंकरः सर्वकारी स्यात्सर्वकर्मसु कोविदः।।
कर्मातिशेषेण गुरावध्येतव्यं बुभूषता।
दक्षिणेनोपसादी स्यादाकूतो नुल्माश्रयेत्।।
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा।
चक्षुष गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः।।
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत्।
नातिष्ठति तथासीत नासुप्ते प्रस्वपेत च।।
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्।
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्।।
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति।
इदं करिष्ये भगवन्निदं चापि कृतं मया।।
ब्रह्मंस्तदपि कर्ताऽस्मि यद्भावन्वक्ष्यते पुनः।
इति सर्वमनुज्ञाप्य निवेद्य गुरवे पुनः।
कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः।
यांस्तु गन्धान्रसान्वाऽपि ब्रह्मचारी न सेवते।।
सेवेत तान्समावृत्त इति धर्मेषु निश्चयः।
ये केचिन्नियमेनोक्ता नियमा ब्रह्मचारिणः।।
तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः।
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम्।।
अग्राम्येणा मेष्वेवं शिष्यो वर्तते कर्मणा।
वदव्रतोपवासेन चतुर्थे च-------।
गुरवे दक्षिणां दत्त्वा समावतेद्यथातिधि----।।
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यनतः।
द्वितीयमायुषो भागं गृहमेधी भवेद्व्रती।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः।। 248।।