शांतिपर्व
अध्यायः २४७
शुक उवाच।
यदिदं वेदवचनं कुरु कर्म त्यजेति च।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा।।
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे।
एतच्चान्योन्यवैरूप्ये वर्तेते प्रतिकूलतः।।
भीष्म उवाच।
इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम्।
कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ।।
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा।
शृणुष्वैकमना वत्स गह्वरं ह्येतदन्तरम्।।
अस्ति धर्म इति ह्युक्त्वा नास्तीत्यत्रैव यो वदेत्।
तस्य पक्षस्य सदृशमिदं मम भवेदथ।।
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः।
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च व्यवस्थितः।।
कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः।।
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः।
विद्यया जायते नित्यमव्ययो ह्यक्षरात्मकः।।
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितया नराः।
तेन ते देहजालानि रमयन्त उपासते।।
ये स्म बुद्धिं परां प्राप्ता धमैर्नपुण्यदर्शिनः।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव।।
कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति।।
यत्र गत्वा न म्रियते यत्र गत्वा न जायते।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते।।
यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रवम्।
अव्याहतमनायासममृतं चावियोगि च।।
द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा।
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः।।
विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः।
विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्।
`विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम्।।'
तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते।
नवं तु शशिनं दृष्ट्वा वक्रतन्तुमिवाम्बरे।।
एकादशविकारात्मा कलासंभारसंभृतः।
मृर्तिमानिति तं विद्धि तात कर्म गुणात्मकम्।।
`तस्मिन्यः संस्थितो ह्यग्निर्नित्यंस्थाल्यामिवाहितः।
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं।।
देवो यः संश्रितस्तस्मिन्नब्विन्दुरिव पुष्करे।
क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम्।।
तमोरजश्च सत्त्वं च विद्धि जीवगुणात्मकम्।
जीवमात्मगुणं विद्यादात्मानं प-----नः।।
अचेतनं जीवगुणं वदन्ति
स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति
प्राकल्पयद्यो भुवनानि सप्त।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः।।