शांतिपर्व

अध्यायः २४६

Santi Parva (Sanskrit) · Adhyaya 246
अक्षर का आकार

व्यास उवाच।

पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः।
साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया।।

योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः।।

आत्मनोऽव्यथिनस्तात् ज्ञानमेतदनुत्तमम्।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना।।

आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा।
योगदोषान्समुच्छिन्द्यात्पञ्च यान्कवयो विदुः।।

कामं क्रोधं त्त लोभं च भयं स्वप्नं च पञ्चमम्।
क्रोधं शमेन जयति कामं संकल्पवर्जनात्।।

सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा।।

चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा।
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात्।।

एवमेतान्योगदोषाञ्चयेन्नित्यमतन्द्रितः।
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च।।

वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम्।
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं ततम्।।

एतस्य सूत्रभूतस्य द्वयं स्थावरजङ्गमम्।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा।।

शोचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति।।

सिद्ध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्धते।
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयेत्।।

धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्।।

मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः।
पूर्वरात्रेऽपरात्रे च धारयेन्मन आत्मनि।।

जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्।
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम्।।

मनस्तु पूर्वमादद्यात्कुमीनमिव मत्स्यहा।
ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित्।।

तत एतानि संयम्य मनसि स्थापयेद्यतिः।
तथैवापो ह्यसंकल्पान्मनो ह्यात्मनि धारयेत्।।

पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद्यतिः।
यदैतान्यवतिष्ठन्ति मनःषष्ठानि चात्मनि।।

प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते।
विधूम इव सप्तार्चिरादित्य इव दीप्तिमान्।।

वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि।
सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते।।

तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः।
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः।।

एवं परिमितं कालमाचरन्संशितव्रतः।
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम्।।

विमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः।।

प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः।
तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत्।।

कुर्यात्परिचयं योगे त्रैकाल्ये नियतो मुनिः।
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत्।।

संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव।
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः।।

येनोपायेन शक्येत संनियन्तुं चलं मनः।
तत्तद्युक्तो निषेवेत न चैव विचलेत्ततः।।

शून्या गिरि---श्वैव देवतायतनानि च।
शून्यागारा---काग्रो निवासार्थमुपक्रमेत्।।

नाभिष्व---वाचा कर्मणा मनसाऽपि वा।
उपे-----रो लब्धालब्धे समो भवेत्।।

यश्चैन-----न्देत यश्चैनमभिवादयेत्।
समस्त-----भयोर्नाभिध्यायेच्छुभाशुभम्।।

न प्रहृ---भेषु नालाभेषु च चिन्तयेत्।
समः स-------षु सधर्मा मातरिश्वनः।।

एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते।।

वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः।
एतस्मिन्निरतो मार्गे विरमेन्न च मोहितः।।

अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम्।।

अजं पुराणमजरं सनातनं
यदिन्द्रियैरुपलभेत निश्चलैः।
अणोरणीयो महतो महत्तरं
तदात्मना पश्यति युक्तमात्मवान्।।

इदं महर्षेर्वचनं महात्मनो
यथावदुक्तं मनसाऽनुदृश्य च।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां
प्रयान्ति यां भूतगतिं मनीषिणः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षट्‌चत्वारिंशदधिकद्विशततमोऽध्यायः।। 246।।