शांतिपर्व
अध्यायः २४५
भीष्म उवाच।
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम्।
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे।।
शुक उवाच।
प्रजावाञ्श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः।
अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति।।
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया।
साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व मे।।
मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते।
येनोपायेन पुरुषैस्तत्त्वं व्याख्यातुमर्हसि।।
व्यास उवाच।
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्।
नान्यत्र लोभसंत्यागात्सिद्धिं विन्दति कश्चन।।
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः।
भूयिष्ठं प्राणभृत्काये निविष्टानि शरीरिषु।।
भूमेर्देहो जलास्त्रोतो ज्योतिषश्चक्षुषी स्मृते।
प्राणापानाश्रयो वायुः स्वेष्वाकाशं शरीरिणाम्।।
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती।।
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये।।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
इन्द्रियाणि पृथक्स्वार्थान्मनसा दर्शयन्त्युत।।
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः।
मनश्चापि सदा भुक्ते भूतात्मा हृदयाश्रितः।।
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः।
नियमे च विसर्गे च भूतात्मा मानसस्तथा।।
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम्।।
आश्रयो नास्ति सत्वस्य गुणः सत्त्वस्य चेतना।
सत्वं हि तेजः सृजति न गुणान्वै कथंचन।।
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः।
मनीषीमनसा विप्रः पश्यत्यात्मानमात्मनि।।
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः।
मनसा दीपभूतेन महानात्मा प्रकाशते।।
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्।
अशरीरं शरीरेषु निरीक्षते निरिन्द्रियम्।।
अव्यक्तं सर्वदेहेषु मर्त्येष्वमृतमाहितम्।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे।।
विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः।।
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च।
वसत्येको महानात्मा येन सर्वमिदं ततम्।।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा।।
यावानात्मनि मे ह्यात्मा तावानात्मा परात्मनि।
य एवं सततं वेद सोऽमृतत्वाय कल्पते।।
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च।
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः।।
शकुन्तानामिवाकाशे मत्स्यानामिव चोदके।
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः।।
कालः पचति भूतानि सर्वाण्येवात्मनाऽऽत्मनि।
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन।।
न स ऊर्ध्वं न तिर्यक्च नाधश्चरति यः पुनः।
न मध्ये प्रतिगृह्णीते नैव किंचित्कुतश्चन।।
सर्वेऽन्तस्था इमे लोका बाह्यमेषां न किंचन।
यः सहस्र समा गच्छेद्यथा बाणो गुणच्युतः।।
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः।
तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः।।
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृरत्य तिष्ठति।।
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम्।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते।।
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः।
क्षरः सर्वेषु भूतेषु दिवि ह्यमृतमक्षरम्।।
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी।
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च।।
हानिभङ्गविकल्पानां नवानां संचयेन च।
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः।।
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम्।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः।। 245।।