शांतिपर्व
अध्यायः २४४
व्यास उवाच।
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते।
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति।।
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये।
किंतु कर्मस्वभावोऽयं ज्ञानं कर्मेति वा पुनः।।
तत्र वेदविवित्सायां ज्ञानं चेत्पुरुषं प्रति।
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छॄणु।।
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः।
दैवमेके प्रशंसन्ति स्वभावमपरे जनाः।।
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः।
त्रयमेतत्पृथग्भूतमविवेकं तु केचन।।
एतदेवं च नैवं न च चोभे नानुभे तथा।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः।।
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः।
तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे।।
अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च।
कामद्वषौ पृथग्दृष्ट्वा तपः कृत उपासते।।
तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति।।
तपसा तदवाप्नोति यद्भूतं सृजते जगत्।
तद्भूतश्च ततः सर्वभूतानां भवति प्रभुः।।
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः।
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते।।
आरम्भयज्ञाः क्षव्राश्च हविर्यज्ञा विशः स्मृताः।
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः।।
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत्।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते।।
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे।।
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा।
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल।।
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः।
गवां भूमेश्च ये चापामोषधीनां च ये रसाः।।
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः।
विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च।।
यथा सर्वाणि भूतानि वृष्टथा तृप्यन्ति प्रावृषि।
सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगेयुगे।।
विहितं कालनानात्वमनादिनिधनं च यत्।
कीर्तितं यत्पुरस्तात्ते यतः संयान्ति च प्रजाः।।
यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः।
स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः।।
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रियाफलम्।
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः।। 244।।