शांतिपर्व

अध्यायः २४३

Santi Parva (Sanskrit) · Adhyaya 243
अक्षर का आकार

व्यास उवाच।

अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमात्मनः।
उन्मज्जंश्च निमज्जंश्च विद्यामेवाभिसंश्रयेत्।।

शुक उवाच।

किं तज्ज्ञानमथो विद्या यथा निस्तरते द्वयम्।
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि।।

व्यास उवाच।

यस्तु पश्यन्स्वभावेन विनाभावमचेतनः।
पुष्णाति स पुनः सर्वान्प्रज्ञया मुक्तहेतुकः।।

येषां चैकान्तभावेन स्वभावः कारणं मतम्।
दूर्वातृणवृसीका ये ते लभन्ते न किंचन।।

येचैनं पक्षमाश्रित्य निवर्तन्त्यल्पमेधसः।
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते।।

स्वभावो हि विनाशाय मोहकर्ममनोभवः।
निरुक्तमेतयोरेतत्स्वभावपरिभावयोः।।

कृष्यादीनीह कर्माणि सस्यसंहरणानि च।
प्रज्ञावद्भिः प्रक्लृप्तानि यानासनगृहाणि च।।

आक्रीडानां गृहाणां च गदानामगदस्य च।
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः।।

प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति।
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः।।

परावरं तु भूतानां ज्ञानेनैवोपलभ्यते।
विद्यया तात सृष्टानां विद्यैवेह परा गतिः।।

भूतानां जन्म सर्वेषां विविधानां चतुर्विधम्।
जरायुजाण्डजोद्भिज्जस्वेदजं चोपलक्षयेत्।।

स्थावरेभ्यो विशिष्टानि जङ्गमान्युपधारयेत्।
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्यया।।

आहुर्द्विबहुपादानि जङ्गमानि द्वयानि तु।
बहुषाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि।।

द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च।
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते।।

पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि तु।
मध्यमानि विशिष्टानि जातिधर्मोपधारणात्।।

मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च।
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात्।।

धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च।
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः।।

वेदज्ञानि द्वयान्याहुः प्रवक्तृणीतराणि च।
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात्।।

विज्ञायन्ते हि यैर्वेदाः सधर्माः सक्रियाफलाः।
सधर्मा निखिला वेदाः प्रवक्तृभ्यो विनिःसृताः।।

प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च।
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात्।।

धर्मद्वयं हि यो वेद स सर्वज्ञः स सर्ववित्।
सत्याशीः सत्यसंकल्पः सत्यः शुचिरथेश्वरः।।

धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः।
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम्।।

अन्तस्थं च बहिष्ठं च येऽधियज्ञाधिदैवतम्।
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः।।

तेषु विश्वमिदं भूतं साग्रं च जगदाहितम्।
तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन।।

आद्यन्तनिधनं चैव कर्म चातीत्य सर्वशः।
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः।। 243।।