शांतिपर्व
अध्यायः २४२
व्यास उवाच।
अथ चेद्रोचयेदेतदुह्यते मनसा तथा।
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत्।।
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः।
नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन।।
छिन्नदोषो मुनिर्योगयुक्तो युञ्जीत द्वादश।
दशकर्मसुखानर्थानुपायापायनिष्क्रियः।।
चक्षुराचारसंग्राहैर्मनसा दर्शनेन च।
यच्छेद्वाङ्भनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम्।।
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः।
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः।।
यदि वा सर्ववेदज्ञो यदि वाऽप्यनृचो द्विजः।
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः।।
यदि वा पुरुषव्याघ्रो यदि वैक्लव्यधारणः।
तरत्येवं महादुर्गं जरामरणसागरम्।।
एवं ह्येतेन योगेन युञ्जानो ह्येवमन्ततः।
अपि जिज्ञासमानोऽपि शब्दब्रह्माऽतिवर्तते।।
धर्मोपस्थो ह्रीवरूथ उपायापायकूवरः।
अपानाक्षः प्राणयुगः प्रज्ञायुर्जीववन्धनः।।
चेतनाबन्धुरश्चारुश्चाचारग्रहनेमिमान्।
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः।।
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः।
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरः सरः।।
त्यागरश्म्यनुगः क्षेम्यः शौचगो ध्यानगोतरः।
जीवयुक्तो रथो दिव्यो ब्रह्मलोके धिराजते।।
अथ संत्वरमाणस्य रथमेवं युयुक्षतः।
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्।।
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते।
पृष्ठतः पार्श्वतश्चान्यास्तावत्यस्ताः प्रधारणाः।।
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः।
ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः।
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते।।
विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः।
तथाऽस्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः।।
निर्मुच्यमानः सूक्ष्मत्वाद्रूपाणीमानि पश्यतः।
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः।।
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत।
अथ धूमस्य विरमेद्द्वितीयं रूपदर्शनम्।।
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति।
अपां व्यतिक्रमे चास्य वह्निरूपं प्रकाशते।।
तस्मिन्नुपरते चास्य वायव्यं सूक्ष्ममव्ययम्।
रूपं प्रकाशते तस्य पीतवस्त्रवदव्ययम्।।
तस्मिन्नुपरते रुपमाकाशस्य प्रकाशते।
तस्मिन्नुपरते चास्य बुद्धिरूपं प्रकाशते।
ऊर्णारूपसवर्णस्य तस्य रूपं प्रकाशते।।
अथ श्वेतां गतिं गत्वा सोहङ्कारे प्रकाशते।
सुशुक्लं चेतसः सौक्ष्म्यमप्युक्तं ब्राह्मणस्य वै।।
एतेष्वपि हि जातेषु फलजातानि मे शृणु।
जातस्य पार्थिवैश्वर्यैः सृष्टिरिष्टा विधीयते।।
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजते प्रजाः।
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा।।
पृथिवीं कम्पयत्येको गुणो वायोरिति श्रुतिः।
आकाशभूतश्चाकाशे सवर्णत्वात्प्रकाशते।
वर्णतो गृह्यते चाप्सु नापः पिबति चाशया।।
न चास्य तेजसां रूपं दृश्यते शाम्यते तथा।
अहंकारेऽस्य विजिते पञ्चैते स्युर्वशानुगाः।।
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ।
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते।।
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते।
यतो निःसरते लोको भवति व्यक्तसंज्ञकः।।
तत्राव्यक्तमयीं विद्यां शृणु त्वं विस्तरेण मे।
तथा व्यक्तमयं चैव संख्यापूर्वं निबोध मे।।
पञ्चविंसतितत्त्वानि तुल्यान्युभयतः समम्।
योगे साङ्ख्येऽपि च तथा विशेषं तत्र मे शृणु।।
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत्।
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम्।।
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम्।
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ।।
चतुर्लक्षणजं त्वाद्यं चतुर्वर्गं प्रचक्षते।
व्यक्तमव्यक्तजं चैव तथा बुद्धिरथेतरत्।।
सत्वं क्षेत्रज्ञ इत्येतद्द्वयमव्यक्तदर्शनम्।।
द्वावात्मानौ च वेदेषु विषयेष्वनुरज्यतः।
विषयात्प्रतिसंहारः साङ्ख्यानां विद्धि लक्षणम्।।
निर्ममश्चानहंकारो निर्द्वन्द्वश्छिन्नसंशयः।
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः।।
आक्रुष्टस्ताडितश्चैव मैत्रीयं ध्याति नाशुभम्।
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः।।
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते।
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः।।
अलोलुपोऽव्यथो दान्तो नाकृतिर्न निराकृतिः।
नास्येन्द्रियमनेकाग्रं नाविक्षिप्तमनोरथः।।
सर्वभूतसदृङ्भैत्रः समलोष्टाश्मकाञ्चनः।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः।।
अस्पृहः सर्वकामेभ्यो ब्रह्मचर्यदृढव्रतः।
अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते।।
यथा योगाद्विमुच्यन्ते कारणैर्यैर्निबोध तत्।
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते।।
इत्येषा भावजा बुद्धिः कथिता ते न संशयः।
एवं भवति निर्द्वन्द्वो ब्रह्माणं चाधिगच्छति।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः।। 242।।