शांतिपर्व

अध्यायः २४१

Santi Parva (Sanskrit) · Adhyaya 241
अक्षर का आकार

व्यास उवाच।

त्रयीं विद्यामवेक्षेत वेदेपूत्तमतां गतः।
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा।।

[तिष्ठत्येतेषु भगवान्षट्‌सु कर्मसु संस्थितः।]
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये।।

सत्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ।
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत्।।

असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः।
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः।।

स्वधर्मेण क्रिया लोके कुर्वाणः सोऽप्यसङ्करः।
तिष्ठते तेषु गृहवान्षट्‌सु कर्मसु स द्विजः।।

पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च।
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति।।

दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति।।

धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्।।

अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च।
वर्जयेदुशतीं वाचं हिंसां चाधर्मसंहिताम्।।

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते।
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिद्ध्यति।।

पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्।
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान्।।

कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम्।।

महता विधिदृष्टेन बलिनाऽप्रतिघातिना।
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत्।।

कालोदकेन महता वर्षावर्तेन संततम्।
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च।।

निमेषोन्मेषफेनेन अहोरात्रजवेन च।
कामग्राहेण घोरेण वेदयज्ञप्लवेन च।।

धर्मद्वीपेन भूतानां चार्थकामरवेण च।
ऋतवाङ्मोक्षतीरेण विहिंसातरुवाहिना।।

युगह्रदौघमध्येन ब्रह्मप्रायभवेन च।
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम्।।

एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः।
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः।।

उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः।
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति।।

संशयात्तु स कामात्मा चलचित्तोऽल्पचेतनः।
अप्राज्ञो न तरत्येनं यो ह्यास्ते न स गच्छति।।

अप्लवो हि महादोषं मुह्यमानो न गच्छति।
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः।।

तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः।
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत्।।

त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत्।
तस्मादुन्मज्जनं तिष्ठेत्प्रज्ञया निस्तरेद्यथा।।

संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः।
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च।।

वर्तेत तेषु गृहवानक्रुध्यन्ननसूयकः।
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च।।

सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्।
असंरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम्।।

श्रुतविज्ञानतत्त्वज्ञः शिष्टाचारविचक्षणः।
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः।।

क्रियावाञ्श्रद्दधानो कहि दान्तः प्रायोऽनसूयकः।
धमार्धर्मविशेषज्ञः सर्वं तरति दुस्तरम्।।

धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति।।

एषा पुरातनी वृत्तिर्ब्राह्मणस्य विधीयते।
ज्ञानवृद्ध्यैव कर्माणि कुर्वन्सर्वत्र सिध्यति।।

अधर्मं धर्मकामो हि करोति ह्यविचक्षणः।
धर्मं वा धर्मसंकाशं शोचन्निव करोति सः।।

धर्मं करोमीति करोत्यधर्म
मधर्मकामश्च करोति धर्मम्।
उभे बालः कर्मणी न प्रजानम्
संजायते म्रियते चापि देही।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः।। 241।।