शांतिपर्व
अध्यायः २४०
व्यास उवाच।
भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया।
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि सांप्रतम्।।
जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम्।
क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे।।
अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः।
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित्।।
आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्।
आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद्यथाविधि।।
प्रजासर्गण दारैश्च ब्रह्मचर्येण वा पुनः।
वने गुरुसकाशे वा यतिधर्मेण वा पुनः।।
गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते।
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति।।
प्रजावान्श्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः।
अथान्यानाश्रमान्पश्चात्पूतो गच्छेत कर्मभिः।।
यत्पृथिव्यां पुण्यतमं विद्यात्स्थानं तदावसेत्।
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे।।
तपसा वः सुमहता विद्यानां पारणेन वा।
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः।।
यावदस्य भवत्यस्मिन्कीर्तिर्लोके यशस्करी।
तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते।।
अध्यापयेदधीयीत याजयेत यजेत वा।
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन।।
याज्यतः शिष्यतो वाऽपि कन्याया वा धनं महत्।
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन।।
गृहमावसतो ह्यस्य नान्यत्तीर्थमुदाहृतम्।
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम्।।
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम्।
द्रव्याणामतिशक्त्याऽपि देयमेषां कृतादपि।।
अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन।
उच्चैः श्रवसमप्यक्षं काश्यपाय महात्मने।
दत्त्वा जगाम प्रह्लादो लोकान्देवैरभिष्टुतान्।।
अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः।
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः।।
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने।
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते।।
आत्रेयश्चेन्द्रद्रुमये ह्यर्हते विविधं धनम्।
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः।।
शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम्।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः।।
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते।।
दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत्।
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यगमद्दिवम्।।
सांकृतिश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्।
उपदिश्य महातेजा गतो लोकाननुत्तमान्।।
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्।
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यगमद्दिवम्।।
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः।
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम्।।
सर्वरत्नं वृषादर्विर्युवनाश्वः प्रियाः स्त्रियः।
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः।।
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम्।
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वी सपत्तनाम्।।
अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत।
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः।।
करंधमस्य पुत्रस्तु मरुतो नृपतिस्तथा।
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह।।
ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः।
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान्।।
राजा मित्रसहश्चापि वसिष्ठाय महात्मने।
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः।।
सहस्रजिच्च राजर्षिः प्राणानिंष्टान्महायशाः।
ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान्।।
सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम्।
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः।।
नाम्ना च द्युतिमान्नाम साल्वराजः प्रतापवान्।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान्।।
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः।
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत।।
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्।
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान्।।
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित्।
सवत्सानां महातेजा गतो लोकाननुत्तमान्।।
एते चान्ये च बहवो दानेन तपसैव च।
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः।।
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी।
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चत्वारिंशदधिकद्विशततमोऽध्यायः।। 240।।