शांतिपर्व

अध्यायः २३९

Santi Parva (Sanskrit) · Adhyaya 239
अक्षर का आकार

व्यास उवाच।

प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि।
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः।।

दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः।
सर्वमेतत्तदाऽर्चिर्भिः पूर्णं जाज्वल्यते जगत्।।

पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च।
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च।।

ततः प्रलीने सर्वास्मिन्स्थावरे जङ्गमे तथा।
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत्।।

भूमेरपि गुणं गन्धमाप आददते यदा।
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते।।

आपस्तत्र प्रतिष्ठन्ते ऊर्मिमत्यो महास्वनाः।
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च।।

अपामपि गुणांस्तात ज्योतिराददते यदा।
आपस्तदा त्वात्तगुणा ज्योतिः षूपरमन्ति वै।।

यदाऽऽदित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः।
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नमः।।

ज्योतिषोऽपि गुणं रूपं वायुराददते यदा।
प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान्।।

ततस्तु मूलमासाद्य वायुः संभवमात्मनः।
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश।।

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदन्।।

अरूपमरसस्पर्शमगन्धं न च मूर्तिमत्।
सर्वलोकप्रणुदितं स्वं तु तिष्ठति नानदत्।।

आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः।
`ग्रसते च यदा सोऽपि शाम्यति प्रतिसंचरे।'
मनसो व्यक्तमव्यक्तं ब्राह्मः संप्रतिसंचरः।।

तदाऽऽत्मगुणमाविश्य मनो ग्रसति चन्द्रमाः।
मनस्युपरते चात्मा चन्द्रमस्युपतिष्ठते।।

तं तु कालेन महता संकल्पं कुरुते वशे।
चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम्।।

कालो गिरति विज्ञानं कालं बलमिति श्रुतिः।
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे।।

[आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि।]
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्।
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंहरेत्।।

यथावत्कीर्तितं सत्यमेवमेतदसंशयम्।
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः।।

एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनःपुनः।
युगसाहस्रयोरादावहोरात्र्यास्तथैव च।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोनविंशत्यधिकद्विशततमोऽध्यायः।। 239।।