शांतिपर्व
अध्यायः २३
वैशंपायन उवाच।
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत।
नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत्।।
व्यास उवाच।
बीभत्सोर्वचनं सौम्य सत्यमेतद्युधिष्ठिर।
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः।।
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि।
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते।।
गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा।
भृत्याश्चैवोपजीवन्ति तान्भरस्व महीपते।।
वयांसि पशवश्चैव भूतानि च जनाधिप।
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमी।।
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः।
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः।।
वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत्।
पितृपैतामहं राज्यं धुर्यवद्वोद्दुमर्हसि।।
तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः।
ध्यानं विद्या समुत्थानं संतोषश्च श्रियं प्रति।
तथा ह्येकान्तशीलत्वं तुष्टिर्दानं च शक्तितः।।
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका।
क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः।।
यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति।
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।।
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा।
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम्।।
एतानि राज्ञां कर्माणि सुकृतानि विशांपते।
इमं लोकममुं चैव साधयन्तीति नः श्रुतम्।।
एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते।
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः।।
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः।
अपि गाथामिमां चापि बृहस्पतिरगायत।।
भूमिरेतौ निगिरति सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्।।
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा।।
युधिष्ठिर उवाच।
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः।
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम्।।
व्यास उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ।।
तयोरावसथावास्तां रमणीयौ पृथक्पृथक्।
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु।।
ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः।
यदृच्छयाऽथ शङ्खोपि निष्क्रान्तोऽभवदाश्रमात्।।
सोऽभिगम्याश्रमं भ्रातुश्चंक्रमँल्लिखितस्तदा।
फलानि शातयामास सम्यक्परिणतान्युत।।
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः।
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः।।
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्।
कुतः फलान्यवाप्तानि हेतुना केन खादसि।।
सोऽब्रवीद्धातरं ज्येष्ठमुपसृत्याभिवाद्य च।
इत एव गृहीतानि मयेति प्रहसन्निव।।
तमब्रतीत्तथा शङ्खस्तीव्ररोषसमन्वितः।
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्।।
गच्छ राजानमासाद्य स्वकर्म कथयस्व वै।
अदत्तादानमेवं हि कृतं पार्थिवसत्तम।।
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय।
शीघ्रं धारय चोरस्य मम दण्डं नराधिप।।
इत्युक्तस्तस्य वचनात्सुद्युम्न स नराधिपम्।
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः।।
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम्।
अभ्यगच्छत्सहामात्यः पद्भ्यामेव जनेश्वरः।।
तमब्रवीत्समागम्य स राजा धर्मवित्तमम्।
किमागमनमाचक्ष्व भगवन्कृतमेव तत्।।
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्।
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्तुमर्हसि।।
अनिसृष्टानि गुरुणा फलानि मनुजर्षभ।
भक्षितानि महाराज तत्र मां शाधि माचिरम्।।
सुद्युम्न उवाच।
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे।
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ।।
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः।
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः।।
व्यास उवाच।
संछन्द्यमानो ब्रह्मर्षिः पार्थिवेन महात्मना।
नान्यं स वरयामास तस्माद्दण्डादृते वरम्।।
ततः स पृथिवीपालो लिखितस्य महात्मनः।
करौ प्रच्छेदयामास धृतदण्डो जगाम सः।।
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्।
धृतदण्डस्य दुर्बुद्धेर्भवांस्तत्क्षन्तुमर्हति।।
शङ्ख उवाच।
न कुप्ये तव धर्मज्ञ न त्वं दूषयसे मम।
`सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम्।'
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता।।
त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि।
देवानृषीन्पितृंश्चैव मा चाधर्मे मनः कृथाः।।
`ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम्।'
महान्ति पातकान्याहुः संयोगं चैव तैः सह।।
न स्तेयसदृशं ब्रह्मन्महापातकमस्ति हि।
जगत्यस्मिन्महाभाग ब्रह्महत्यासमं हि तत्।।
सर्वपातकिनां ब्रह्मन्दण्डः शारीर उच्यते।
तस्करस्य विशेषेण नान्यो दण्डो विधीयते।।
ब्राह्मणः क्षत्रियो वाऽपि वैश्यः शूद्रोऽथवा द्विज।
सर्वे कामकृते पापे हन्तव्या न विचारणा।।
राजभिर्धृतदण्डा वै कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा।।
उद्धृतं नः कुलं ब्रह्मन्नाज्ञादण्डे धृते त्वयि।।'
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा।
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे।।
प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ।
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ।।
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया।
मा च तेऽव विशङ्का भूद्दैवमत्र विधीयते।।
लिखित उवाच।
किंतु नाहं त्वया पूतः पूर्वमेव महाद्युते।
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम।।
शङ्ख उवाच।
एवमेतन्मया कार्यं नाहं दण्डधरस्तव।
स च पूतो नरपतिस्त्वं चापि पितृभिः सह।।
व्यास उवाच।
स राजा पाण्डवश्रेष्ठ श्रेयान्वै तेन कर्मणा।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा।।
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्।
उत्पथेभ्यो महाराज मा स्म शोके मनः कृथाः।।
भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम।
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रयोविंशोऽध्यायः।।