शांतिपर्व

अध्यायः २३८

Santi Parva (Sanskrit) · Adhyaya 238
अक्षर का आकार

युधिष्ठिर उवाच।

आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव।
ध्यानं कर्म च कालं च तथैवायुर्युगेयुगे।।

लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम्।
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते।।

`भेदकं भेदतत्वं च तथाऽन्येषां मतं तथा।
अवस्थात्रितयं चैव यादृशं च पितामह।।'

यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर।
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे।।

पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम्।।
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा।।

जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता।
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति।।

भीष्म उवाच।

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्।
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते।।

अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा।
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्।।

कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः।
पप्रच्छ संशयमिमं छिन्नधर्मार्थसंशयम्।।

श्रीशुक उवाच।

भूतग्रामस्य र्क्तारं कालज्ञाने च निश्चितम्।
`ज्ञानं ब्रह्म च योगं च गवात्मकमिदं जगत्।।

त्रितये त्वेनमायाति तथा ह्येषोऽपि वा पुनः।
केनैव च विभागः स्यात्तुरीयो लक्षणैर्विना।।

ज्ञानज्ञेयान्तरे कोसौ कोयं भावस्तु भेदवत्।
यज्ज्ञानं लक्षणं चैव तेषां कर्तारमेव च।'
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति।।

भीष्म उवाच।

तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते।
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित्।।

`पृच्छतस्तव सत्पुत्र यथावत्कीर्तयाम्यहम्।
शृणुष्वावहितो भूत्वा यथाऽऽवृतमिदं जगत्।।

कार्यादि कारणान्तं यत्कार्यान्तं कारणादिकम्।
ज्ञानं तदुभयं वित्त्वा सत्यं च परमं शुभम्।।

ब्रह्मेति चाभिविख्यातं तद्वै पश्यन्ति सूरयः।
ब्रह्मतेजोमयं भूतं भूतकारणमद्भुतम्।।

आसीदादौ ततस्त्वाहुः प्राधान्यमिति तद्विदः।
त्रिगुणां तां महामायां वैष्णवीं प्रकृतिं विदुः।।

तदीदृशमनाद्यन्तमव्यक्तमजरं ध्रुवम्।
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे वैकृतं च तत्।।

तद्वै प्रधानमुद्दिष्टं त्रिसूक्ष्मं त्रिगुणात्मकम्।
सम्यग्योगगुणं स्वस्थं तदिच्छाक्षोभितं महत्।।

शक्तित्रयात्मिका तस्य प्रकृतिः कारणात्मिका।
अस्वतन्त्रा च सततं विदधिष्ठानसंयुता।।

स्वभावाख्यं समापन्ना मोहविग्रहधारिणी।
विविधस्यास्य जीवस्य भोगार्थं समुपागता।।

यथा संनिधिमात्रेण गन्धक्षोभाय जायते।
मनस्तद्वदशेषस्य परात्पर इति स्मृतः।।

सृष्ट्वा प्रविश्य तत्तस्मिन्क्षोभयामास विष्ठितः।
सात्विको राजसश्चैव तामसश्च त्रिधा महान्।।

प्रधानतत्वादुद्भूतो महत्वाच्च महान्स्मृतः।
प्रधानतत्वमुद्भूतं महत्तत्वं समावृणोत्।।

कालात्मनाऽभिभूतं तत्कालोंऽशः परमात्मनः।
पुरुषश्चाप्रमेयात्मा स एव इति गीयते।।

त्रिगुणोसौ महाज्ञातः प्रधान इति वै श्रुतिः।।

सात्विको राजसश्चैव तामसश्च त्रिधात्मकः।
त्रिविधोऽयमहङ्कारो महत्तत्वादजायत।।

तामसोऽसावहङ्कारो भूतादिरिति संज्ञितः।
भूतानामादिभूतत्वाद्रक्ताहिस्तामसः स्मृतः।।

भूतादिः स विकुर्वाणः शिष्टं तन्मात्रकं ततः।
ससर्ज शब्दं तन्मात्रमाकाशं शब्दलक्षणम्।।

शब्दलक्षणमाकाशं शब्दतन्मात्रमावृणोत्।
तेन संपीड्यमानस्तु स्पर्शमात्रं ससर्ज ह।।

शब्दमात्रं तदाकाशं स्पर्शमात्रं समावृणोत्।
ससर्ज वायुस्तेनासौ पीड्यमान इति श्रुतिः।।

स्पर्शमात्रं तदा वायू रूपमात्रं समावृणोत्।
तेन संपीड्यमानस्तु ससर्जाग्निमिति श्रुतिः।।

रूपमात्रं ततो वह्निं समुत्सृज्य समावृणोत्।
तेन संपीड्यमानस्तु रसमात्रं ससर्ज ह।।

रुपमात्रगतं तेजो रसमात्रं समावृणोत्।
तेन संपीड्यमानस्तु ससर्जाम्भ इति श्रुतिः।।

रसमात्रात्मकं भूयो रसं तन्मात्रमावृणोत्।
तेन संपीड्यमानस्तु गन्धं तन्मात्रकं ततः।।

ससर्ज गन्धं तन्मात्रमावृणोत्करकं ततः।
तेन संपीड्यमानस्तु काठिन्यं च ससर्ज ह।।

पृथिवी जायते तस्माद्गन्धतन्मात्रजात्तथा।।

अम्मयं सर्वमेवेदमापस्तस्तम्भिरे पुनः।
भूतानीमानि जातानि पृथिव्यादीनि वै श्रुतिः।।

भूतानां मूर्तिरेवैषामन्नं चैषां मता बुधैः।
तस्मिंस्तस्मिंस्तु तन्मात्रा तन्मात्रा इति ते स्मृताः।।

तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः।।

एषामुद्धर्तकः कालो नानाभेदवदास्थितः।
परमात्मा च भूतात्मा गुणभेदेन संस्थितः।
एक एव त्रिधा भिन्नः करोति विविधाः क्रियाः।।

ब्रह्मा सृजति भूतानि पाति नारायणोऽव्ययः।
रुद्रो हन्ति जगन्मूर्तिः काल एष क्रियाबुधः।।

कालोपि तन्मयोचिन्त्यस्त्रिगुणात्मा सनातनः।
अव्यक्तोसावचिन्त्योसौ वर्तते भिन्नलक्षणः।।

कालात्मना त्विदं भिन्नमभिन्नं श्रूयते हि यत्।
अनाद्यन्तमजं दिव्यमव्यक्तमजरं ध्रुवम्।'
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे संप्रवर्तते।।

काष्ठा निमेषा दश पञ्च चैव
त्रिंशत्तु काष्ठा गणयेत्कलां ताम्।
त्रिंशत्कलश्चापि भवेन्मुहूर्तो
भागः कलाया दशमश्च यः स्यात्।।

त्रिंशन्मुहूर्तं तु भवेदहश्च
रात्रिश्च सङ्ख्या मुनिभिः प्रणीता।
मासः स्मृतो रात्र्यहनी च त्रिंशु
त्संवत्सरो द्वादशमास उक्तः।।

संवत्सरं द्वे अयने वदन्ति
सङ्ख्याविदो दक्षिणमुत्तरं च।।

पहोरात्रौ विभजते सूर्यो मानुषलौकिकौ।
रात्रिः स्वप्नाय संयाति चेष्टायै कर्मणामहः।।

पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः।
शुक्लोऽहः कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी।।

दैवे रात्र्यहनी ह्यब्दः प्रविभागस्तयोः पुनः।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्।।

ये ते रात्र्यहनी पूर्वं कीर्तिते दैवलौकिके।
तयोः सङ्ख्याय वर्षाग्रं ब्राह्ने वक्ष्याम्यहः क्षपे।।

तेषां संवत्सराग्नाणि प्रवक्ष्याम्यनुपूर्वशः।
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा।।

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः।।

इतरेषु ससंध्येषु संध्यांशेषु ततस्त्रिषु।
एकापायेन संयान्ति सहस्राणि शतानि च।।

एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान्।
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्।।

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युग।
नाधर्मेणागमः कश्चिद्युगे तस्मिन्प्रवर्तते।।

इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते।
`सत्यं शौत्रं तथायुश्च धर्मश्चापैति पादशः।'
चौर्यकानृतमायाभिरधर्मश्चोपचीयते।।

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः।
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः।।

वेदवादाश्चानुयुगं ह्रसन्तीतीह न श्रुतम्।
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्।।

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे।
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव।।

तपः परं कृतयुगे त्रेतायां सत्यमुत्तमम्।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे।।

एतां द्वादशसाहस्त्रीं युगाख्यां कवयो विदुः।
सहस्रपरिवर्तं तद्ब्राह्मं दिवसमुच्यते।।

रात्रिस्तु तावती ब्राह्मी तदादौ विश्वमीश्वरः।
प्रलयेत्मानमाविश्य सुप्त्वासोऽन्ते विबुध्यते।।

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणे विदुः।
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः।।

प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये।
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः।।

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया।
आकाशं जायते तस्मात्तस्य शब्दे गुणो मतः।।

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः।
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः।।

वायोरपि विकुर्वाणाज्ज्योतिर्भवति भास्वरम्।
रोचनं जनयेच्छुद्धं तद्रूपगुणमुच्यते।।

ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः।
अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते।।

`ब्रह्मतेजोमयं शुक्लं यस्य सर्वमिदं जगत्।
एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम्।।

अहर्मुखे विवुद्धं तत्सृजते विद्यया जगत्।
अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः।।

अभिभूयेह चातिष्ठद्व्यसृदत्सप्त मानसान्।
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्।।

मनः सृष्टिं न कुरुते चोद्यमानं सिसृक्षया।
आकाशोजायते तस्मात्तस्य शब्दो गुणो मतः।।

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः।
बलवाञ्जायते वायुस्तस्य स्पर्शगुणं विदुः।।

वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम्।
रोचिष्णुर्जायते तत्र तद्रूपगुणमुच्यते।।

ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः।
अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते।।'

गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्।
तेषां यावद्गुणं यद्यत्तत्तावद्गुणकं स्मृतम्।।

उपलभ्याप्सु चेद्गन्धं केचिद्ब्रयुरनैपुणात्।
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रितम्।।

एते सप्तविधात्मानो नानावीर्याः पृथक्पृथक्।
नाशक्नुवन्प्रजाः स्रष्टुभसमागम्य कृत्स्नशः।।

ते समेत्य महात्मानो ह्यन्योन्यमभिसंश्रिताः।
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते।।

श्रयणाच्छरीरी भवति मूर्तिमान्षोडशात्मकः।
तमाविशन्ति भूतानि महान्ति सह कर्मणा।।

सर्वभूतान्युपादाय तपसश्चरणाय हि।
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम्।।

स वै सृजति भूतानि स एव पुरुषः परः।
अजो जनयते ब्रह्मा देवर्षिपितृमानवान्।।

लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन्।
नरकिन्नररक्षांसि वयः पशुमृगोरगान्।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्।।

तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे।
तान्येव प्रतिपाद्यन्ते सृज्यमानाः पुनः पुनः।।

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृत्तानृते।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते।।

महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु।
विनियोगं च भूतानां धातैव विदधात्युत।।

केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः।
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः।।

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः।
त्रय एतेऽपृथग्भूता अविवेकः कथंचन।।

एवमेतच्च दैवं च द्भूतं सृजते जगत्।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः।।

ततो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः।
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति।।

तपसा तदवाप्नोति यद्भूतं सृजते जगत्।
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः।।

ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्।
अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा।।

ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः।
नाम रूपं च भूतानां कर्मणां च प्रवर्तनम्।।

वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः।
नामधेयानि चर्षीणां याश्च वेदेषु सृष्टयः।
शर्वर्यन्तेषु जातानामन्येभ्यो विदधात्यजः।।

नामभेदतपः कर्मयज्ञाख्या लोकसिद्धये।
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः।।

यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः।
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते।।

कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तो हि देहिनः।
आत्मसिद्धिस्तु विज्ञानाज्जहाति प्रायशो बलम्।।

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति।।

आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः।
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः।।

त्रेतायुगे विधिस्त्वेष यज्ञानां न कृते युगे।
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा।।

अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च।
काम्या इष्टीः पृथक्दृष्ट्वा तपोभिस्तप एव च।।

त्रेतायां तु समस्ता ये प्रादुरासन्महाबलाः।
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः।।

त्रेतायां संहता वेदा यज्ञा वर्णास्तथैव च।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे।।

दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः।
उत्सीदन्ते सयज्ञाश्च केवला धर्मपीडिताः।।

कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते।
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः।।

स धर्मः प्रैति संयोगं यथाधर्मं युगेयुगे।
विक्रियन्ते स्वधर्मस्था वेदवादा यथागमम्।।

यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि।
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगेयुगे।।

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये।
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु।।

विहितं कालनानात्वमनादिनिधनं तथा।
कीर्तितं यत्पुरस्तात्ते तत्सूते चाति च प्रजाः।।

ददाति भवनस्थानं भूतानां संयमो यमः।
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः।।

सर्वकालक्रिया वेदाः कर्ता कार्यं क्रियाफलम्।
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः।। 238।।