शांतिपर्व
अध्यायः २३५
युधिष्ठिर उवाच।
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः।
पराभविष्यतश्चैव तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
मन एव मनुष्यस्य पूर्वरूपाणि शंसति।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर।।
महतस्तपसो व्यष्ट्या पश्यँल्लोकौ परावरौ।
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः।।
ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः।
विचचार यथाकालं त्रिषु लोकेषु नारदः।।
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि।
ध्रुवद्वारभवां गङ्गां जगामावततार च।।
`मेरुपादोद्भवां गङ्गां नारायणपदच्युताम्।
स वीक्षमाणो हृष्टात्मा तं देशमभिजग्मिवान्।।
यं--देवजवाकीर्णं सूक्ष्मकाञ्जनवालुकम्।
गङ्गाद्वीपं समासाद्य नानावृक्षैरलङ्कृतम्।।
सालतालाश्वकर्णानां चन्दनानां च राजिभिः।
मण्डितं विविधैः पुष्पैर्हंसकारण्डवायुतम्।।
नदीपुलिनमासाद्य स्नात्वा संतर्प्य देवताः।
जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता।।'
सहस्रनयनश्चापि वज्री शम्बरपाकहा।
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह।।
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतः।
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम्।।
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः।
चक्रतुस्तौ तथाऽऽसीनौ महर्षिकथितास्तथा।
पूर्ववृत्तव्यतीतानि कथयन्तौ समाहितौ।।
अद्य भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्।
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः।।
`विविक्ते पुण्यदेशे तु रममाणौ मुदा युतौ।
ददृशातेऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति।।
ज्योतिर्ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम्।
अभितस्तूदयन्तं तमर्कमर्कमिवापरम्।।
आकाशो ददृशे ज्योतिरुद्यतार्चिः समप्रभम्।
`अर्कस्य तेजसा तुल्यं तद्भास्करसमप्रभम्।'
तयोः समीपं तं प्राप्तं प्रत्यदृश्यत भारत।।
तत्सुपर्णार्करचितमास्थितं वैष्णवं पदम्।
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत्।।
`दृष्ट्वा तौ तु विक्रान्तौ प्राञ्जली समुपास्थितौ।
क्रमात्संप्रेक्ष्यमाणौ तौ विमानं दिव्यमद्भुतम्।।
तस्मिंस्तदा सतीं कान्तां लोककान्तां परां शुभाम्।
धात्रीं लोकस्य रमणीं लोकमातरमच्युताम्।।'
दिव्याभिरुपशोभाभिरप्सरोभिः पुरस्कृताम्।
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्।।
नक्षत्रकल्पाभरणां तारापङ्क्तिसमस्रजम्।
श्रियं ददृशतुः पद्मां साक्षात्पद्मदलस्थिताम्।।
साऽवरुह्य विमानाग्रादङ्गनानामनुत्तमा।
अभ्यागच्छन्त्रिलोकेशं शक्रं चर्षि च नारदम्।।
नारदानुगतः साक्षान्मघवांस्तामुपागमत्।
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना।।
चक्रे चानुपमां पूजां तस्याश्चापि स सर्वंवित्।
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह।।
का त्वं केन च कार्येण संप्राप्ता चारुहासिनि।
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे।।
श्रीरुवाच।
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः।
ममात्मभावमिच्छन्तो यतन्ते परमात्मना।।
साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते।
भूत्यर्तं सर्वभूतानां पद्मा श्रीः पद्ममालिनी।।
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन।
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः।।
अहं धृतिरहं सिद्धिरहं संभूतिरेव च।
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः।।
राज्ञां विजयमानानां सेनाग्नेषु ध्वजेषु च।
निवसे धर्मशीलानां विषयेषु पुरेषु च।।
जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि।
निवसामि मनुष्येन्द्रे सदैव बलसूदन।।
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि।
प्रश्रिते दानशीले च सदैव निवसाम्यहम्।।
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धनात्।
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम्।।
शक्र उवाच।
कथं वृत्तेषु दैत्येषु त्वमवात्सीर्वरानाने।
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्।।
श्रीरुवाच।
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च।
स्वर्गमार्गाभिरामेषु सत्वेषु निरता ह्यहम्।।
दानाध्ययनयज्ञेज्यापितृदैवतपूजनम्।
गुरूणामतिथीनां च तेषां नित्यमवर्तत।।
सुसंमृष्टगुहाश्चासञ्जितस्त्रीका हुताग्नयः।
गुरुशुश्रूषका दान्ता ब्रह्मण्याः सत्यवादिनः।।
श्रद्दधाना जितक्रोधा दानशीलाऽनसूयवः।
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः।।
अमर्षेण न चान्योन्यं स्पृहयन्ते कदाचन।
न च जातूपतप्यन्ति धीराः परसमृद्धिभिः।।
दातारः संग्रहीतार आर्याः करुणवेदिनः।
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः।।
संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः।
यथार्हमानार्थकरा ह्रीनिषेवा यतव्रताः।।
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः।
उपवासतपः शीलाः प्रतीता ब्रह्मवादिनः।।
नैनानभ्युदियात्सूर्यो नैवास्वप्स्यन्प्रगेशयाः।
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन्।।
काल्यं घृतं तु चान्वीक्ष्य प्रयता ब्रह्मवादिनः।
पङ्गल्यान्यपि चापश्यन्ब्रह्माणांश्चाप्यपूजयन्।।
सदा हि ददतां धर्म्यं सदाचाप्रतिगृह्णताम्।
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा।।
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्।
दयां च संविभागं च नित्यमेवान्वमोदताम्।
कालो यातः सुखेनैव धर्ममार्गे निवर्तताम्।।
त्रस्तं विषण्णमुद्विग्नं भयार्तं व्याधिपीडितम्।
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते।।
धर्ममेवानुवर्तन्ते न हिंसन्ति परस्परम्।
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः।।
पितॄन्देवातिथींश्चैव गुरूंश्चैवाभ्यपूजयन्।
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोधृताः।।
नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम्।
सर्वभूतेष्ववर्तन्त यथाऽऽत्मनि दयां प्रति।।
नैवाकाशे न पशुषु नायोनौ च न पर्वसु।
इन्द्रियस्य विसर्गं ते रोचयन्ति कदाचन।।
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा।
उत्साहोऽथानहकारः परमं सौहृदं क्षमा।।
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा।
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो।।
निद्रा तन्द्रीरसंप्रीतिरसूयाऽथानवेक्षिता।
अरतिश्च विषादश्च स्पृहा चाप्यविशन्न तान्।।
साऽहमेवंगुणेष्वेव दानवेष्ववसं पुरा।
प्रजासर्गमुपादाय यावद्गुणविपर्ययम्।।
ततः कालविपर्यासे तेषां गुणविपर्ययात्।
अपश्यं निर्गतं धर्मं कामक्रोधवशात्मनाम्।।
सभासदां च वृद्धानां सतां कथयतां कथाः।
प्राहसन्नभ्यसूयंश्च सर्वबुद्धान्गुरून्परान्।।
युवानश्च समासीना वृद्धानपि गतान्सतः।
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन्।।
वर्तयत्येव पितरि पुत्रः प्रभवते तथा।
अमित्रभृत्यतां प्राप्य ख्यापयन्त्यनपत्रपाः।।
तथा धर्मादपेतेन कर्मणा गर्हितेन ये।
महतः प्राप्नुवन्त्यर्थांस्तेषां तत्राभवत्स्पृहा।।
उच्चैश्चाभ्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत्।
पुत्राः पितृनत्यचरन्नार्यश्चात्यचरन्पतीन्।।
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्।
गुरुत्वान्नाभ्यनन्दन्त कुमारान्नान्वपालयन्।।
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते।
अनिष्ट्वाऽसंविभज्याथ पितृदेवातिथीन्गुरून्।।
न शौचमन्वरुद्ध्यन्त तेषां सूदजनास्तथा।
मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम्।।
`बालानां प्रेक्षमाणानां भक्तान्यश्नन्ति मोहिताः।
एको दासो भवेत्तेषां तेषां दासीद्वयं तथा।।
त्रिगवा दानवाः केचिच्चतुरोजास्तथा परे।
षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे।।
रात्रौ दधि च सक्तूंश्च नित्यमेवाविवर्जिताः।
अन्तर्दशाहे चाश्नन्ति गवां क्षिरं विचेतनाः।।
क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते।
अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च।।
शूद्रान्नपुष्टा विप्रास्तु निर्लज्जाश्च भवन्त्युत।
संकीर्णानि च धान्यानि नात्यवेक्षत्कुटुंबिनी।।
मार्जारकुक्कुटश्वानैः क्रीडां कुर्वन्ति मानवाः।
गृहे कण्टकिनो वृक्षास्तथा निष्पाववल्लरी।।
यज्ञियाश्च तथा वृक्षास्तेषामासन्दुरात्मनाम्।
कूपस्नानरता नित्यं पर्वमैथुनगामिनः।।
तिलानश्नन्ति रात्रौ च तैलाभ्यक्ताश्च शेरते।
विभीतककरञ्जानां छायामूलनिवासिनः।।
करवीरं च ते पुष्पं धारयन्ति च मोहिताः।
पद्मबिजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः।।
न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः।
निन्दन्ति स्तवनं विष्णोस्तस्य नित्यद्विषो जनाः।।
होमधूमो न तत्रासीद्वेदघोषस्तथैव च।
यज्ञाश्च न प्रवर्तन्ते यथापूर्वं गृहेगृहे।।
शिष्याचार्यक्रमो नासीत्पुत्रैरात्मपितुः पिता।
विष्णुं ब्रह्मण्यदेवेशं हित्वा पाषण्डमाश्रिताः।।
हव्यकव्यविहीनाश्च ज्ञानाध्ययनवर्जिताः।
देवस्वादानरुचयो ब्रह्मस्वरुचयस्तथा।
स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः।।'
विप्रकीर्णानि धान्यानि काकमूषिकभोजनम्।
अपावृतं पयोतिष्ठदुच्छिष्टाश्चास्पृशन्धृतम्।।
कुद्दालं दात्रपिटकं प्रकीर्णं कांस्यभोजनम्।
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी।।
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते।
`क्षुद्राः संस्कारहीनाश्च नार्यो ह्युदरपोषणाः।।
शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः।
उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनान्विताः।
गृहजालाभिसंस्थाना ह्यासंस्तत्र स्त्रियः पुनः।।
श्वश्रूश्वशुरयोर्मध्ये भर्तारं कृतकं यथा।
प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः।।'
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च।
बालानां प्रेक्षमाणानां स्वयं भक्ष्यमभक्षयन्।
तथा भृत्यजनं सर्वमसंतर्प्य च दानवाः।।
पायसं कृसरं मांसमपूपानथ शष्कुलीः।
अपाचयन्नात्मनोऽर्थे वृथा मांसान्यभक्षयन्।।
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेशयाः।
आवृत्तकलहाश्चात्र दिवारात्रं गृहेगृहे।।
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह।
आश्रमस्थान्विकर्मस्थाः प्राद्विषन्त परस्परम्।।
संकराश्चाभ्यवर्तन्त न च शौचमवर्तत।
ये च वेदविदो विप्रा विस्पष्टमनुचश्च ये।
निरन्तरविशेषास्ते बहुमानावमानयोः।।
भावमाभरणं वेषं गतं स्थितमवेक्षितम्।
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्।।
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः।
क्रीडारतिविहारेषु परां मुदमवाप्नुवन्।।
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान्।
नाभ्यवर्न्तत नास्तिक्याद्वर्तन्तः संभवेष्वपि।।
मित्रेणाभ्यर्थितं द्रव्यमर्थी संश्रयते क्वचित्।
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु।।
परस्वादानरुचयो विपणव्यवहारिणः।
अदृश्यन्तार्यवर्णषु शृद्राश्चापि तपोधनाः।।
अधीयतेऽव्रताः केचिद्वृथा व्रतमथापरे।
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिप्यसखो गुरुः।।
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव।
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान्।।
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः।
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत।।
प्रातः सायं च सुप्रश्नं कल्पनं प्रेषणक्रियाः।
शिष्यानप्रहितास्तेषामकुर्वन्गुरवश्च ह।।
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत।
अन्वशासच्च भर्तारं समाह्वायाभिजल्पति।।
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता।
व्यभजच्चापि संरम्भाद्दुःखवासं तथाऽवसत्।।
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम्।
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि।।
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः।
`श्वशुरानुगताः सर्वे ह्युत्सृज्य पितरौ सुताः।।
स्वकर्मणा च जातोऽहमित्येवंवादिनस्तथा।'
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः।।
तेष्वेवमादीनाचारानाचरत्सु विपर्यये।
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः।।
तन्मां स्वयमनुप्राप्ताभिनन्द शचीपते।
त्वयाऽर्चितां मां देवेश पुरो धास्यन्ति देवताः।।
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः।
सप्तदेव्यो जयाष्टभ्यो वासमेष्यन्ति तेऽष्टधा।।
आशा श्रद्धा धृतिः क्षान्तिर्विजितिः सन्नतिः क्षमा।
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन।।
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागताः।
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु।।
इत्युक्तवचनां देवीं प्रीत्यर्थं च ननन्दतुः।
नारदश्चात्र देवर्षिर्वृत्रहन्ता च वासवः।।
ततोऽनलसखो वायुः प्रववौ देववर्त्मसु।
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः।।
शुचौ चाभ्यर्थिते देशे त्रिदशाः प्रायशः स्थिताः।
लक्ष्मीसहितमासीनं मघवन्तं दिदृक्षवः।।
ततो दिवं प्राप्य सहस्रलोचनः।
स्त्रियोपपन्नः सुहृदा महर्षिणा।
रथेन हर्यश्वयुजा सुरर्षभः
सदः सुराणामभिसत्कृतो ययौ।।
अथेङ्गितं वज्रधरस्य नारदः
श्रियश्च देव्या मनसा विचारयन्।
श्रियै शशंसामरदृष्टपौरुषः
शिवेन तत्रागमनं महर्षिभिः।।
ततोऽमृतं द्यौः प्रववर्ष भास्वती
पितामहस्यायतने स्वयंभुवः।
अनाहता दुन्दुभयोऽथ नेदिरे
तथा प्रसन्नाश्च दिशश्चकाशिरे।।
यथर्तु सस्येषु ववर्ष वासवो
न धर्ममार्गाद्विचचाल कश्चन।
अनेकरत्नाकरभूषणा च भूः
सुघोषघोषाश्च दिवौकसां जये।।
क्रियाभिरामा मनुजा मनस्विनो
बभुः शुभे पुण्यकृतां पथि स्थिताः।
नरामराः किन्नरयक्षराक्षसाः
समृद्धिमन्तः सुमनस्विनोऽभवन्।।
न जात्वकाले कुसुमं कुतः फलं
पपात वृक्षात्पवनेरितादपि।
रसप्रदाः कामदुघाश्च धेनवो
न दारुणा वाग्विचचार कस्यचित्।।
इमां सपर्यां सह सर्वकामदैः
श्रियाश्च शक्रप्रमुखैश्च दैवतैः।
पठन्ति ये विप्रसदः समागताः
समृद्धकामाः श्रियमाप्नुवन्ति ते।।
त्वया कुरूणां वर यत्प्रचोदितं
भवाभवस्येह परं निदर्शनम्।
तदद्य सर्वं परिकीर्तितं मया
परीक्ष्य तत्त्वं परिगन्तुमर्हसि।।
`संस्मृत्य बुद्धीन्द्रियगोचरातिगं
स्वगोचरे सर्वकृतालयं तम्।
हरिं महापाग्रहरं जनास्ते
संस्मृत्य संपूज्य विधूतपापाः।।
यमैश्च नित्यं नियमैश्च संयता
स्तत्वं च विष्णोः परिपश्यमानाः।
देवानुसारेण विमुक्तियोगं
ते गाहमानाः परमाप्नुवन्ति।।
एवं राजेन्द्र सततं जपहोमपरायणः।
वासुदेवपरो नित्यं ज्ञानध्यानपरायणः।।
दानधर्मरतिर्नित्यं प्रजास्त्वं परिपालय।
वासुदेवपरो नित्यं ज्ञानध्यानपरायणान्।
विशेषेणार्चयेथास्त्वं सततं पर्युपास्व च।।'
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
प़ञ्चत्रिंशदधिकद्विशततमोऽध्यायः।। 235।।