शांतिपर्व
अध्यायः २३६
युधिष्ठिर उवाच।
किंशीलः किंसमाचारः किंविद्यः किंपराक्रमः।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्।।
भीष्म उवाच।
मोक्षधर्मेषु नियतो लध्वाहारो जितेन्द्रियः।
प्राप्नोति ब्रह्मणः स्थानं तत्परं प्रकृतेर्ध्रुवम्।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
जैगीषव्यस्य संवादमसितस्य च भारत।।
`महादेवान्तरे वृत्तं देव्याश्चैवान्तरे तथा।
यथावच्छृणु राजेन्द्र ज्ञानदं पापनाशनम्।।'
जैगीषव्यं नहाप्रज्ञं धर्नाणामागतागमम्।
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत्।।
न प्रीमसे बन्द्यमानो निन्द्यमानो न कुप्यसे।
का ते प्रज्ञा कुतश्चैषा किं ते तस्याः परायणम्।।
भीष्म उवाच।
इति तेनानुयुक्तः स तमृपाच महातपाः।
महद्वाक्यप्रसंदिग्धं पुष्कलार्थपदं शुचि।।
जैगीषव्य उवाच।
या यतियौ परा निष्ठा या शान्तिः पुण्यकर्मणाम्।
तां तेऽहं सं प्रवक्ष्यामि यां मां पृच्छसि वै द्विज।।
निन्वत्सु वा सप्ता नित्यं प्रशंसत्सु च देवल।
निहवन्ति च ये तेषां समयं सुकृतं च यत्।।
उक्ताश्च न विवक्ष्यन्ति वक्तारमहिते हितम्।
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः।।
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते।
न चातीतानि शोचन्ति न चैतान्प्रतिजानते।।
संप्राप्तानां च पूज्यानां कामादर्थेषु देवल।
यथोपपत्तिं कुर्वन्ति शक्तिमन्तो धृतव्रताः।।
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः।
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित्।।
अनीर्षवो न चोन्योन्यं विहिंसन्ति कदाचन।
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः।।
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य च।
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन।।
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः।
न कुध्यन्ति स हृष्यन्ति नापराध्यन्ति कस्यचित्।।
विमुच्य हृदयग्रन्थिं चङ्कम्यन्ते यथासुखम्।
न चैषां बान्धवाः सन्ति ये चान्येषां च बान्धवाः।।
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित्।
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा।।
ये धर्मं चानुरुध्यन्ते धर्मज्ञा द्विजसत्तमाः।
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च।।
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम्।
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना।।
यद्यदिच्छन्ति तत्तस्मादधिगच्छन्ति मानवाः।
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः।।
अमृतस्येव संतृप्येदवमानस्य तत्त्ववित्।
विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः।।
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः।
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बुध्यते।।
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः।
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः।।
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्।।
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः।
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम्।।
`एतच्छ्रुत्वा मुनेस्तस्य वचनं देवलस्तथा।
तदधीनो भवच्छिष्यः सर्वद्वन्द्वविनिष्ठितः।।
अथान्यत्तु पुरावृतं जैगीषव्यस्य धीमतः।
शृणु राजन्नवहितः सर्वज्ञानसमन्वितः।।
यमाहुः सर्वलोकेशं सर्वलोकनमस्कृतम्।
अष्टमूर्ति जगन्मूर्तिमिष्टसंधिविभूषितम्।।
यं प्राप्ता न विषीदन्ति न शोचन्त्युद्विजन्ति च।।
यस्य स्वाभाविकी शक्तिरिदं विश्वं चराचरम्।
याति सज्जति सर्वात्मा स देवः परमेश्वरः।।
मेरोरुत्तरपूर्वे तु सर्वरत्नविभूषिते।
अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते।।
वृक्षैश्च शोभिते नित्यं दिव्यवायुसमीरिते।
नानाभूतगणैर्युक्तः सर्वदेवनमस्कृतः।।
तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः।
लोकपालाः समुद्राश्च नद्यः शैलाः सरांसि च।।
ऋषयो वालखिल्याश्च यज्ञाः स्तोभाह्वयास्तथा।
उपासांचक्रिरे देवं प्रजानां पतयस्तथा।।
तत्र रुद्रो महादेवो देव्या चैव सहोमया।
आस्ते वृषध्वजः श्रीमान्सोमसूर्याग्निलोचनः।।
तत्रैवं देवमालोक्य देवी धात्री विभावरी।
उमा देवी परेशानमपृच्छद्विनयान्विता।।
अर्थः कोऽथार्थशक्तिः का भगवन्ब्रूहि मेऽर्थितः।
तयैवं परिपृष्टोऽसौ प्राह देवो महेश्वरः।।
अर्थोऽहमर्थशक्तिस्त्वं भोक्ताऽहं भोज्यमेव च।
रूपं विद्धि महाभागे प्रकृतिस्त्वं परो ह्यहम्।।
अहं विष्णुरहं ब्रह्मा ह्यहं यज्ञस्तथैव च।
आवयोर्न च भेदोऽस्ति परमार्थस्ततोऽबले।
तथापि विद्मस्ते भेदं किं मां त्वं परिपृच्छसि।।
एवमुक्ता ततः प्राह ह्यधिकं ह्येतयोर्वद।
श्रेष्ठं वेद महादेव नम इत्येव भामिनी।।
तदन्तरे स्थितो विद्वान्वसुरूपो महामुनिः।
जैगीषव्यः स्मयन्प्राह ह्यर्थ इत्येव नादयन्।।
श्रेष्ठोन्योऽस्मान्महीपिण्डा तल्लीना शक्तिरापरा।
मुद्रिकादिविशेषेण विस्तृता संभृतेति च।।
तच्छ्रुत्वा वचनं देवी कोसावित्यब्रवीद्रुषा।
वाक्यमस्याद्य संभङ्क्त्वा प्रोक्तवानिति शंकरम्।।
तच्छ्रुत्वा निर्गतो धीमानाश्रमं स्वं महामुनिः।
स्थानात्स्वर्गगणे विद्वान्योगैश्वर्यसमन्वितः।।
ततः प्रहस्य भगवान्सर्वपापहरो हरः।
प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः।।
भक्तो मम सखा चैव शिष्यश्चात्र महामुनिः।
जैगीषव्य इति ख्यातः प्रोक्त्वासा निर्गतः शुभे।।
तच्छ्रुत्वा साऽथ संक्रुद्धा न न्याय्यं तेन वै कृतम्।
विकृताऽहं त्वया देव मुनिना च तथाकृता।।
अत*ज्ञादयदेवेश मध्ये प्राप्तं न तच्छ्रुतम्।
तच्छ्रुत्वा भगवानाह महादेवः पिनाकधृत्।।
निरपेक्षो मुनिर्योगी मामुपाश्रित्य संस्थितः।
निर्द्वन्द्वः सततं धीमान्समरूपस्वभावधृत्।।
तस्मात्क्षमस्व तं देवि रक्षितव्यस्त्वया च सः।।
इत्युक्ता प्राह सा देवी मुनेस्तस्य महात्मनः।
निराशत्वमहं द्रष्टुमिच्छाम्यन्तकनाशन।।
तथेति चोक्त्वा तां देवो वृषमारुह्य सत्वरम्।
देवगन्धर्वसङ्घैश्च स्तूयमानो जगत्पतिः।।
अजरामरशुद्धात्मा यत्रास्ते स महामुनिः।
इतस्ततः समाहृत्य वीरसंघैर्महायशाः।।
देहप्रावरणार्थं वै संसरन्स तदा मुनिः।
प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च।
पुनः स पूर्ववत्कथां सूच्या सूत्रेण सूचयत्।।
तमाह भगवाञ्शंभुः किं प्रदास्यामि ते मुने।
वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि।।
नावलोकयमानस्तु देवदेवं महामुनिः।
अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज।
कृतार्थः परिपूर्णोऽहं यत्ते कार्यं तु गम्यताम्।।
प्रहसंस्तु पुनः शर्वो वृणीष्वेति तमब्रवीत्।
अवश्यं हि वरो प्रत्तः श्राव्यं वरमनुत्तमम्।।
जैगीषव्यस्तमाहेदं श्रोतव्यं च त्वया मम।
सूचीमनु महादेव सूत्रं समनुगच्छतः।।
ततः प्रहस्य भगवान्गौरीमालोक्य शङ्करः।
स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः।।
एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि।
निर्द्वन्द्वा योगिनो नित्याः सर्वशस्ते स्वयंभुवः।।'
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षट्त्रिंशदधिकद्विशंततमोऽध्यायः।। 236।।