शांतिपर्व

अध्यायः २३४

Santi Parva (Sanskrit) · Adhyaya 234
अक्षर का आकार

युधिष्ठिर उवाच।

मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि।
बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः।।

त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ।
एतद्भवन्तं पृच्छामि तन्मे त्वं वक्तुमर्हसि।।

भीष्म उवाच।

पुत्रदारैः सुखैश्चैव वियक्तस्य धनेन च।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप।
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते।।

[विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम्।]
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्।।

यश्च प्राज्ञो नरस्तात सात्विकीं वृत्तिमास्थितः।
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु।।

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
बलिवासवसंवादं पुनरेव युधिष्ठिर।।

वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये।
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ।।

इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते।
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि।।

रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः।
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः।।

चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्।
आरुह्यैरावणं शक्रस्त्रैलोक्यमनुसंययौ।।

स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे।
बलिं वैरोचनिं वज्री ददर्शोपससर्प च।।

तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्।
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे।।

दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्।
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः।।

दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया।
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम्।।

शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात्।
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि।।

श्रैष्ट्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान्।
हृतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि।।

ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे।
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि।।

बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः।
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि।।

नष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम्।
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्।।

एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्।
श्रुत्वा दुःखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत्।।

निगृहीते मयि भृशं शक्र किं कत्थितेन ते।
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर।।

अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः।
कस्त्वदन्य इमां वाचं सुक्रूरां वक्तुमर्हति।।

यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः।।

अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः।
एकः प्राप्नोति विजयमेकश्चैव पराजयम्।।

मा च ते भूत्स्वभावोऽयं मयि दानवपुङ्गवे।
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्।।

नैतदस्मत्कृतं शक्र नैतच्छक्र कृतं त्वया।
यत्त्वमेवं गतो वज्रिन्यद्वाऽऽप्येवं गता वयम्।।

अहमासं यथाऽद्य त्वं भविता त्वं यथा वयम्।
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत।।

सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति।
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा।।

कालः काले नयति मां त्वां च कालो नयत्ययम्।
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम्।।

न मातृपितृशुश्रूषा न च दैवतपूजनम्।
नान्यो गुणसमाचारः पुरुषस्य सुखावहः।।

न विद्या न तपो दानं न मित्राणि न बान्धवाः।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्।।

नागामिनमनर्थं हि प्रतिघातशतैरपि।
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः।।

पर्यायैर्हन्यमानानां परित्राता न विद्यते।
इदं तु दुःखं यच्छक्र कर्ताऽहमिति मन्यसे।।

यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन।
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताऽप्यनीश्वरः।।

कालेन त्वाऽहमजयं कालेनाहं जितस्त्वया।
गन्ता गतिमतां कालः कालः कलयति प्रजाः।।

इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुद्ध्यसे।
केचित्त्वां बहुमन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा।।

कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः।
कालेनाभ्याहतः शोचेन्मुह्येद्वाऽप्यथविभ्रमेत्।।

कथं कालपरीतस्य मम वा मद्विधस्य वा।
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति।।

अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः।
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम्।।

त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया।
काले परिणते कालः कलयिष्यति मामिव।।

बहूनीन्द्रसहस्राणि दैवतानां युगे युगे।
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः।।

इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे।
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्।।

न चेदमचलं स्थानमनन्तं वाऽपि कस्यचित्।
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे।।

अविश्वस्ते विश्वसिषि मन्यसे वाऽध्रुवे ध्रुवम्।
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर।।

ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि।
नेयं तव न चास्माकं न चान्येषां स्थिरा मता।।

अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता।
कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला।।

गौर्निवासमिवोत्सृज्य पुनरन्यं गमिष्यति।
सुरेशा ये ह्यतिक्रान्तास्तान्न संख्यातुमुत्सहे।।

त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर।
सवृक्षौषधिगुल्मेयं ससरित्पर्वताकरा।।

तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही।
पृथुरैलो मयो भीमो नरकः शम्बरस्तथा।।

अश्वग्रीवः पुलोमा च स्वर्भानुरमितप्रभः]
प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः।।

ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान्वृषः।
सत्येषुर्ऋषभो बाहुः कपिलाश्वो निरूपकः।।

बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैर्ऋतिः।
संकोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः।।

विश्वजित्प्रतिरूपश्च वृषाण्डो विष्करो मधुः।
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः।।

दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह।
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये।।

दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम्।
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः।।

कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः।
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः।।

सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः।
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः।।

सर्वे संहननोपेताः सर्वे परिघबाहवः।
सर्वे मायाशतधराः सर्वे ते कामरूपिणः।
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः।।

सर्वे सत्यव्रतपराः सर्वे कामविहारिणः।
सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः।।

सर्वे संमतमैश्वर्यमीश्वराः प्रतिपेदिरे।
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्।।

सर्वे यथार्हदातारः सर्वे विगतमत्सराः।
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदरे।।

सर्वे दाक्षायणीपुत्राः प्राजपत्या महाबलाः।
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः।।

त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः।
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः।।

मुञ्चेच्छां कामभोगेषु मुञ्जेमं श्रीभवं मदम्।
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि।।

शोककाले शुचो मा त्वं हर्षकाले च मा हृषः।
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय।।

मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः।
क्षमस्व न चिरादिन्द्र त्वामप्युपगमिष्यति।।

त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह।
संयते मयि ननं त्वमात्मानं बहु मन्यसे।।

कालः प्रथममायान्मां पञ्चात्त्वामनुधावति।
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि।।

को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे।
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव।।

यत्तद्वर्षसहस्रान्तं तूर्णं भवितुमर्हति।
यथा मे सर्वगात्राणि न सुस्थानि महौजसः।।

अहमैन्द्राच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि।
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययः।।

किं हि कृत्वा स्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः।
कालः कर्ता विकर्ता च सर्वमन्यदकारणम्।।

नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ।
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्।।

त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव।
किं कत्थसे मां किंच त्वं कालेन निरपत्रयः।।

त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम।
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्।।

आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह।
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते।।

त्वमेव शक्र जानासि देवासुरसमागमे।
समेता विबुधा भग्नास्तरसा समरे मया।।

पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः।
सशृङ्गशिखरा भग्नाः समरे मूर्ध्निं ते मया।।

किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः।
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना।।

न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः।
तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया।।

तं मां परिणते काले परीतं कालवह्निना।
नियतं कालपाशेन बद्धं शक्र विकत्थसे।।

अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः।
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा।।

लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ।
वधो बन्धप्रमोक्षश्च सर्वं कालेन लभ्यते।।

नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः।
सोयं पचति कालो मां वृक्षे फलमिवागतम्।।

यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते।
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते।।

न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति।
तेन शक्र न शोचामि नास्ति शोके सहायता।।

यदा हि शोचतः शोको व्यसनं नाषकर्षति।
सामर्थ्यं शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि।।

भीष्म उवाच।

एवमुक्तः सहस्राक्षो भगवान्पाकशासनः।
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः।।

सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान्।
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः।।

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी।
व्रुवन्न व्यथसेऽद्य त्वं धैर्यात्सत्यपराक्रम।।

को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्।
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत्।।

अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्।
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे।।

न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्।
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्।।

अनीशस्याप्रमत्तस्य भूतानि पचतः सदा।
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते।।

अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु।
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित्।।

पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः।
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः।।

अहोरात्रांश्च मासांश्च क्षणान्काष्ठा लवान्कलाः।
संपीडयति यः कालो वृद्धिं वार्धुपिको यथा।।

इदमद्य करिष्यामि श्वः कर्ताऽस्मीति वादिनम्।
कालो हरति संप्राप्तो नदीवेग इव द्रुमम्।।

इदानीं तावदेवासौ मया दृष्टः कथं मृतः।
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्।।

नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च।
जीवितं जीवलोकस्य कालेनागम्य नीयते।।

उच्छ्राया विनिपातान्ता भावोऽभावः स एव च।
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः।।

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी।
अहमासं पुरा चेति मनसाऽपि न बुद्ध्यते।।

कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा।
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते।।

ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च।
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति।।

भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः।
कालं पश्यति सुव्यक्तं पाणावामलकं यथा।।

कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः।
वैरोचते कृतार्थोऽसि स्पृहणीयो विजानताम्।।

सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया।
विहरन्सर्वतोमुक्तो न क्वचिच्च विषीदसि।।

रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम्।
निष्प्रीतिं नष्टसंतापमात्मानं त्वमुपाससे।।

सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम्।
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः।।

नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धनैः।
आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि।।

मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात्।
प्रजानामुपचारेण स्वस्ति तेऽस्तु महासुर।।

यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते।
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु।।

ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम्।
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः।।

वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा यदा।
संकरं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः।।

चातुर्वर्ण्यं यदा कृत्स्नममर्यादं भविष्यति।
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते।।

अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय।
सुखी भव निराबाधः स्वस्थचेता निरामयः।।

भीष्म उवाच।

तमेवमुक्त्वा भगवाञ्छतक्रतुः
प्रतिप्रयातो गजराजवाहनः।
विजित्य सर्वानसुरान्सुराधिपो
ननन्द हर्षेण बभूव चैकराट्।।

महर्षयस्तुष्टुवुरञ्जसा च तं
वृषाकर्पि सर्वचराचरेश्वरम्।
हिमापहो हव्यमुवाह चाध्वरे
तथाऽमृतं चार्पितमीश्वरोऽपि हि।।

द्विजोत्तमैः सर्वगतैरभिष्टुतो
विदीप्ततेजाः शतमन्युरीश्वरः।
प्रशान्तचेता मुदितः स्वमालयं
त्रिविष्टपं प्राप्य मुमोद वासवः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः।। 234।।