शांतिपर्व

अध्यायः २३३

Santi Parva (Sanskrit) · Adhyaya 233
अक्षर का आकार

`युधिष्ठिर उवाच।

व्यसनेषु निमग्नस्य किं श्रेयस्तद्ब्रवीहि मे।
भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे।।'

भीष्म उवाच।

अत्रैवोदाहन्तीममितिहासं पुरातनम्।
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर।।

श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्।
भवाभवज्ञं भूतानामित्युवाच पुरंदरः।।

बद्धः पाशैश्च्युतः स्थानाद्द्विपतां वशमागतः।
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि।।

नमुचिरुवाच।

अनवाप्यं च शोकेन शरीरं चोपशुष्यति।
अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्।।

संतापाद्धश्यते रूपं संतापाद्धश्यते श्रियः।
संतापाद्धश्यते चायुर्धर्मश्चैव सुरेश्वर।।

विनीय खलु तद्दुःखमागतं वै मनस्सुखम्।
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता।।

यथायथा हि पुरुषः कल्याणे कुरुते मनः।
तथैवास्य प्रसिध्यन्ति सर्वार्था नात्र संशयः।।

एकः शास्ता न द्वितीयोऽस्ति शास्ता
गर्भे शयानं पुरुषं शास्ति शास्ता।
तेनानुयुक्तः प्रवणादिवोदकं
यथा नियुक्तोऽस्मि तथा भवामि।।

भावाभावावजिनानन्गरीयो
जानामि श्रेयो न तु तत्करोमि।
आशासु हर्म्यासु हृदासु कुर्वन्
यथा नियुक्तोऽस्मि तथा वहामि।।

यथायथाऽस्म प्राप्तव्यं प्राप्नोत्येव तथातथा।
भवितव्यं यथा यच्च भवत्येव तथातथा।।

यत्रयत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः।
तत्रतत्रैव वसति न यत्र स्वयमिच्छति।।

भावो योऽयमनुप्राप्तो भवितव्यमिदं मम।
इति यस्य सदा भावो न स शोचेत्कदाचन।।

पर्यायैर्हन्यमानानामभिषङ्गो न विद्यते।
दुःखमेतत्तु यद्द्वेष्टा कर्ताऽहमिति मन्यते।।

ऋषींश्च देवांश्च महासुरांश्च
त्रैविद्यवृद्धांश्च वने मुनींश्च।
का नापदो नोपनमन्ति लोके
परावरज्ञास्तु न संभ्रमन्ति।।

न पण्डितः क्रुद्ध्यति नाभिषज्यते
न चापि संसीदति न प्रहृष्यति।
न चार्थकृच्छ्रव्यसनेषु शोचते
स्थितः प्रकृत्या हिमवानिवाचलः।।

यमर्थसिद्धिः परमा न हर्षये
त्तथैव काले व्यसनं न मोहयेत्।
सुखं च दुःखं च तथैव मध्यमं
निषेवते यः स धुरधरो नरः।।

यांयामवस्थां पुरुषोऽधिगच्छे
त्तस्यां रमेतापरितप्यमानः।
एवं प्रवृद्धं प्रणुदन्मनोजं
संतापनीलं सकलं शरीरात्।।

न तत्सदः सत्परिषत्सभा च
सा प्राप्य यां न कुरुते सदा भयम्।
धर्मतत्त्वमवगाह्य बुद्धिमा
न्योऽभ्युपैति स धुरंधरः पुमान्।।

प्राज्ञस्य कर्माणि दुरन्वयानि
न वै प्राज्ञो मुह्यति मोहकाले।
स्थानाच्च्युतश्चेन्न मुमोह गौतम
स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः।।

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च।
[न शीलेन न वृत्तेन तथा नैवार्थसंपदा।]
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना।।

यदेवमभिजातस्य धातारो विदधुः पुरा।
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति।।

लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च।।

एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः।
कुशली सर्वदुःखेषु स वै सर्वधनी नरः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः।। 233।।