शांतिपर्व
अध्यायः २३२
भीष्म उवाच।
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः।
स्वरूपिणीं शरीराद्धि निष्क्रामन्तीं तदा श्रियम्।।
तां दृष्ट्वा प्रभया दीप्तां भगवान्पाककशासनः।
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः।।
बले केयमपक्रान्ता रोचमाना शिखण्डिनी।
त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा।।
बलिरुवाच।
न हीमामासुरीं वेद्मि न दैवीं च न मानुषीम्।
त्वमेनां पृच्छ वा मा वा यथेष्टं कुरु वासव।।
शक्र उवाच।
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी।
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते।।
का त्वं तिष्ठसि मामेवं दीप्यमाना स्वतेजसा।
हित्वा दैत्यवरं सुभ्रु तन्ममाचक्ष्व पृच्छतः।।
श्रीरुवाच।
न मां विरोचनो वेद नायं वैरोचनो बलिः।
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः।।
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येव च वासव।
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः।।
शक्र उवाच।
किमिदं त्वं मम कृते उताहो बलिनः कृते।
दुःसहे विजहास्येनं चिरसंवासिनी सती।।
श्रीरुवाच।
नो धाता न विधाता मां विदधाति कथंचन।
कालस्तु शक्र पर्यागान्मैवं शक्रावमन्यथाः।।
शक्र उवाच।
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि।
कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते।।
श्रीरुवाच।
सत्ये स्थिताऽस्मि दाने च व्रते तपसि चैव हि।
पराक्रमे च धर्मे च पराचीनस्ततो बलिः।।
ब्रह्मण्योऽयं पुरा भूत्वा सत्यवादी जितेन्द्रियः।
अभ्यसूयन्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्धृतम्।।
यज्ञशीलः सदा भूत्वा मामेव यजते स्वयम्।
ततः प्रहाय मूढात्मा कालेनोपनिपीडितः।।
अपक्रान्ता ततः शक्र त्वयि वत्स्यामि वासव।
अप्रमत्तेन धार्याऽस्मि तपसा विक्रमेण च।।
शक्र उवाच।
कोऽस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान्।
यस्त्वामेको विषहितुं शक्नुयात्कमलालये।।
श्रीरुवाच।
नैव देवो न गन्धर्वो नासुरो नं च न्राक्षसः।
यो मामेको विषहितुं शक्तः कश्चित्पुरंदर।।
शक्र उवाच।
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे।
तत्करिष्यामि ते वाक्यमृतं तद्वक्तुमर्हसि।।
शक्र उवाच।
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत्।
विधिना वेददृष्टेन चतुर्धा विभजस्व माम्।।
शक्र उवाच।
अहं वै त्वां निधास्यामि यथाशक्ति यथाबलम्।
न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके।।
भूमिरेव मनुष्येषु धारिणी भूतभाविनी।
सा ते पादं तितिक्षेत समर्था हीति मे मतिः।।
श्रीरुवाच।
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः।
द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु।।
शक्र उवाच।
आप एव मनुष्येषु द्रवन्त्यः परिधारणे।
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्।।
श्रीरुवाच।
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः।
तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु।।
शक्र उवाच।
यस्मिन्वेदाश्च यज्ञाश्च यस्मिन्देवाः प्रतिष्ठिताः।
तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति।।
श्रीरुवाच।
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः।
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु।।
शक्र उवाच।
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः।
तेते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम्।।
श्रीरुवाच।
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः।
एवं हि निहितां शक्र भूतेषु परिधत्स्व माम्।।
शक्र उवाच।
`भूमिशुद्धिं ततः कृत्वा अद्भिः संतर्पयन्ति ये।
भूतानि च यजन्त्यग्नौ तेषां त्वमनपायिनी।।
ये क्रियाभिः सुरक्ताभिर्हेतुयुक्ताः समाहिताः।
ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः।।'
भूतानामिह यो वै त्वां मया विनिहितां सतीम्।
उपहन्यात्स मे द्वेष्यस्तथा शृण्वन्तु मे वचः।।
`भीष्म उवाच।
तथेति चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता।
वासवं पालयामास सा देवी कमलालया।।'
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत्।।
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम्।
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः।।
तथा मध्यंदिने सूर्यो नास्तमेति यदा तदा।
पुनर्देवासुरं युद्धं भावि जेताऽस्मि वस्तदा।।
सर्वलोकान्यदाऽऽदित्यो मध्यस्थस्तापयिष्यति।
तदा देवासुरे युद्धे जेताऽहं त्वां शतक्रतो।।
शक्र उवाच।
ब्रह्मणाऽस्मि समादिष्टो न हन्तव्यो भवानिति।
तेन तेऽहं बले वज्रं न विमुञ्जामि मूर्धनि।।
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर।।
आदित्यो नैव तपिता कदाचिन्मध्यतः स्थितः।
स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा।।
अजस्रं परियात्येष सत्येनावतपन्प्रजाः।
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा।
येन संयाति लोकेषु शीतोष्णे विसृजन्रविः।।
भीष्म उवाच।
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत।
जगाम दक्षिणामाशामुदीचीं तु पुरंदरः।।
इत्येतद्बलिना गीतमनहंकारसंज्ञितम्।
वाक्यं श्रुत्वा सहस्राक्षः स्वमेवारुरुहे तदा।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
द्वात्रिंशदधिकद्विशततमोऽध्यायः।। 232।।