शांतिपर्व
अध्यायः २३१
भीष्म उवाच।
पुनेरव तु सं शक्रः अहसन्निदमब्रवीत्।
निश्वसन्तं यथा गायं प्रत्याहाराय भारत।।
यथज्ञानसहस्रेण ज्ञातिभिः परिवारितः।
लोकान्यतापयन्तर्वान्यास्यस्मानवितर्कयन्।।
दृष्ट्वा सुकृष्णां चेमागयस्थामात्मनो बले।
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि।।
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्।
विनिपातमिमं चाद्य शोचस्याहो न शोचसि।।
बलिरुवाच।
`गर्वं हित्वा तथा मानं देवराज शृणुष्व मे।
मया च त्वाऽनुसद्भावं पूर्वमाचरितं महत्।।
अवश्यकालपर्यायमात्मनः परिवर्तनम्।
अविदँल्लोकमाहात्म्यं-------।।'
अनित्यमुपलक्ष्येह कालपर्यायमात्मनः।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्।।
अन्तवन्त इमे देहा भूतानां च सुराधिप।
तेन शक्र न शोचामि नापराधादिदं मम।।
जीवितं च शरीरं च जात्या वै सह जायते।
उभे सह विवर्धेते उभे सह विनश्यतः।।
न हीदृशमहंभावमवशः प्राप्य केवलम्।
यदेवमभिजानामि का व्यथा मे विजानतः।।
भूतानां निधनं निष्ठा स्रोतसामिव सागरः।
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृत्।।
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः।
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति।।
बुद्धिलाभात्तु पुरुषः सर्वं तुदति किल्विषम्।
विपाप्मा लभते सत्वं सत्वस्थः संप्रसीदति।।
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः।
कृपणाः परितप्यन्ते तैरर्थैरभिचोदिताः।।
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा।
सुखं दुःखं फलं चैव न द्वेष्मि न च कामये।।
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन।
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः।।
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते।
अकर्ता ह्येव भवति कर्ता ह्येव करोति तत्।।
को हि लोकस्य कुरुते विनाशप्रभवावुभौ।
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः।।
पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः।
एतद्योनीनि भूतानि तत्र का परिदेवना।।
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः।
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः।।
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा।
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः।।
दग्धमेवानुदहते हतमेवानुहन्यते।
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः।।
नास्य द्वीपः कुतः पारो नावारः संप्रदृश्यते।
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्।।
यदि मे पश्यतः कालो भूतानि न विनाशयेत्।
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते।।
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे।
बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे।।
इच्छन्नहं विकुर्यां हि रूपाणि बहृधाऽऽत्मनः।
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे।।
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति।
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम्।।
पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरंदर।
`विद्रवन्ति त्वया सार्धं सर्व एव दिबौकसः।।'
अवैमि त्वस्य लोकस्य कर्मं शक्र सनातनम्।
त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मगं गमः।।
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन।
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा।
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम्।।
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः।
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव।।
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः।
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः।।
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते।
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे।।
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्।
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा।।
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते।
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा।।
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते।
अलक्षणा विरूपा च सुभगा दृश्यते परा।।
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्।
यत्तमेवं गतो वज्रिन्यच्चाप्येवं गता वयम्।।
न कर्म तव नान्येषां कुतो मम शतक्रतो।
ऋद्धिर्वाऽप्यथवा नर्द्धिः पर्यायकृतमेव तत्।।
पश्यामि त्वां विराजन्तं देवराजमवस्थितम्।
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि।।
एवं नैव न चेत्कालो मामाक्रम्य स्थितो भवेत्।
पातयेयमहं त्वाऽद्य सवज्रमपि मुष्टिना।।
न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः।
कालः स्थापयते सर्वं कालः पचति वै तथा।।
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम्।
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति।।
द्वादशानां तु भवतामादित्यानां महात्मनाम्।
तेजांस्येकेन सर्वेषां देवराज धृतानि मे।।
अहमेवोद्वहाम्यापो विसृजामि च वासव।
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च।।
संरक्षामि विलुम्पामि ददाम्यहमथाददे।
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः।।
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप।
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे।।
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते।
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया।।
मासमासार्धवेश्मानमहोरात्राभिसंवृतम्।
ऋतुद्वारं वायुमुखमायुर्वेदविदो जनाः।।
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया।
`अनित्यपञ्चवर्षाणि षष्ठो दृश्यति देहिनाम्।।'
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा।
`ततस्तानि न पश्यामि काले तमपि वृत्रहन्।।'
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा।
अनादिनिधनं चाहुरक्षरं क्षरमेव च।।
सत्त्वेषु लिङ्गमाविश्य निर्लिङ्गमपि तत्स्वयम्।
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः।।
`यमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा।
तं कालमिति जानीहि यस्य सर्वमिदं वशे।।'
भूतानां तु विषर्यासं कुरुते भगवानिति।
न ह्येतावद्भवेद्ग्राम्यं न यस्मात्प्रभवेत्पुनः।।
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति।
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते।।
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा।
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम्।।
ऋतून्मासार्धमासांश्च दिवसांश्च क्षणांस्तथा।
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे।।
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा।
तं कालमिति जानीहि यस्य सर्वमिदं वशे।।
बहूनीन्द्रसहस्राणि समतीतानि वासव।
बलवीर्योपपन्नानि यथैव त्वं शचीपते।।
त्वामप्यतिबलं शक्र देवराजं बलोत्कटम्।
प्राप्ते काले महावीर्यः कालः संशमयिष्यति।।
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव।
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम्।।
यामेतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम्।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति।।
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम्।
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप।।
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि।
त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति।
`कालेन चोदिता शक्र मा ते गर्वः शतक्रतो।।
क्षमस्व कालयोगं तमागतं विद्धि देवप।
निर्लज्जश्चैव कस्मात्त्वं देवराज विकत्थसे।।
सर्वासुराणामधिपः सर्वदेवभयंकरः।
जितवान्ब्रह्मणो लोकं को विद्यादागतं गतिम्।।'
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकत्रिंशदधिकद्विशततमोऽध्यायः।। 231।।