शांतिपर्व

अध्यायः २३०

Santi Parva (Sanskrit) · Adhyaya 230
अक्षर का आकार

युधिष्ठिर उवाच।

यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम्।
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वासवस्य च संवादं बलेर्वैरोचनस्य च।।

पितामहमुपागम्य प्रणिपत्य कृताञ्जलिः।
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः।।

यस्य स्म ददतो वित्तं न कदाचन हीयते।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्।।

स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः।
सोऽग्निस्तपति भूतानि जलं च स भवत्युत।।

तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्।
स एव ह्यस्तमयते स स्म विद्योतते दिशः।।

स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्।।

ब्रह्मोवाच।

नैतत्ते साधु मघवन्यदेनमनुपृच्छसि।
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम्।।

उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः।
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते।।

शक्र उवाच।

यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान्।
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम्।।

ब्रह्मोवाच।

मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति।
न्यायस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया।।

भीष्म उवाच।

एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा।
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः।।

ततो ददर्श स बलिं खरवेषेण संवृतम्।
यथाख्यातं भगवता शून्यागारकृतालयम्।।

शक्र उवाच।

खरयोनिमनुप्राप्तस्तुपभक्षोऽसि दानव।
इदं ते योनिरसमा शोचस्याहो न शोचसि।।

अदृष्टं वत पश्यामि द्विषतां वशमागतम्।
श्रिया विहीनं मित्रैश्च भ्रष्टैश्वर्यपराक्रमम्।।

यत्तद्यानसहस्रैस्त्वं ज्ञातिभिः परिवारितः।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्।।

त्वन्मुखाश्चैव दैतेय व्यतिष्ठंस्तव शासने।
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह।।

इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि।
यदाऽतिष्ठः समुद्रस्य पूर्वकूले विलेलिखन्।।

ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम्।
यत्ते सहस्रसमिता ननुतुर्देवसोषितः।।

बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया।
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः।।

कथमद्य तदा चैव मनस्ते दानवेश्वर।
छत्रं तवासीत्सुमहत्सौवर्णं रत्नभूषितम्।।

ननृतुस्तत्र गन्धर्वाः षट्‌सहस्राणि सप्तचा।
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः।।

यत्राददः सहस्राणि अयुतानां गवां दश।
अनन्तरं सहस्रेण तदाऽऽसीद्दैत्या का मतिः।।

यदा च पृथिवीं सर्वां यजमानोऽनुपर्यगाः।
शम्याक्षेपेण विधिना तदाऽऽसीत्किंतु ते हृदि।।

न ते पश्यामि भृङ्गारं न च्छत्रं व्यजनं न च।
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप।।

`भीष्म उवाच।

ततः प्रहस्य स बलिर्वासवेन समीरितम्।
निशम्य मानगम्भीरं सुरराजमथाब्रवीत्।।

अहो हि तव बालिश्यमिह देवगणाधिप।
अयुक्तं देवराजस्य तव कष्टमिदं वचः।।'

न त्वं पश्यसि भृङ्गारं न च्छन्नं व्यजनं न च।
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव।।

गुहायां निहितानि त्वं मम रत्नानि पृच्छसि।
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि।।

`न जानीषे भवान्सिद्धिं शुभाङ्गस्वरूपरूपिणीम्।
कालेन भविता सर्वो नात्र गच्छति वासव।।'

न त्वेतदनुरूपं ते यशसो वा कुलस्य च।
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि।।

न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्द्धिषु।
कृतप्रज्ञाः ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः।।

त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे।
यदाऽहमिव भावी स्यास्तदा नैवं वदिष्यसि।।

`ऐश्वर्यमदमत्तो मां स त्वं किंचिन्न बुद्ध्यसे।
राज्याद्विनिपतानेन सोहं न त्वपराजितः।।'

।। इति श्रीमन्महाभारते शन्तिपर्वणि
मोश्रधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः।। 230।।