शांतिपर्व
अध्यायः २२९
युधिष्ठिर उवाच।
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाऽशुभम्।
पुरुषं योजयत्येव फलयोगेन भारत।।
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः।
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर।।
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्।
अस्तब्धमनहंकारं सत्वस्थं संयतेन्द्रियम्।।
तुल्यनिन्दास्तुतिं दान्तं शून्यागारसमाकृतिम्।
चराचराणां भूतानां विदितप्रभवाप्ययम्।।
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च।
काञ्चने वाऽथ लोष्ठे वा उभयोः समदर्शनम्।।
आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चयम्।।
परावरज्ञं भूतानां सर्वज्ञं सर्वदर्शनम्।।
`अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि।
हृदयेन समाविष्टं सर्वभावप्रियंकरम्।।
भक्तं भागवतं नित्यं नारायणपरायणम्।
ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम्।।'
शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम्।
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत्।।
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे।।
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह।
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे।।
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः।
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि।।
प्रज्ञालाभेन दैतेय उताहो धृतिमत्तथा।
प्रह्लाद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः।।
भीष्म उवाच।
इति संचोदितस्तेन धीरो निश्चितनिश्चयः।
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन्।।
प्रह्लाद उवाच।
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते।
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः।।
`गहनं सर्वभूतानां ध्येयं नित्यं सनातनम्।
अनिग्रहमनौपम्यं सर्वाकारं परात्परम्।।
सर्वावरणसंभूतं तस्मादेतत्प्रवर्तते।
तन्मया अपि संपश्य नानालक्षणलक्षिताः।।
स वै पाति जगत्स्रष्टा विष्णुरित्यभिशब्दितः।
पुनर्दर्शति संप्राप्ते------सुरेश्चरः।।'
स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च।
सर्वे भावास्तथा भावाः पुरुषार्थो न विद्यते।।
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः।
स्वयं च कुर्वतस्तस्य जातु मानो भवेदिह।।
यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा।
तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः।।
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्।
आरम्भास्तस्य सिद्ध्येयुर्न तु जातु पराभवेत्।।
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च।
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः।।
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृतिमेव च।
अप्रयत्नेन पश्यामः केषां चित्तत्स्वभावतः।।
प्रतिरूपतराः केचिद्दृस्यन्ते बुद्धिमत्तराः।
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमं।।
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा।
शुभाशुभास्तदा तत्र तस्य किं मानकारणम्।।
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः।
आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा।।
कर्मजं त्विह मन्यन्ते पलयोगं शुभाशुभम्।
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु।।
यथा वेदयते कश्चिदोदनं पायसं ह्यदन्।
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्।।
विकारानेव यो वेद न वेद प्रकृतिं पराम्।
तस्य स्तंभोऽभवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः।।
स्वभावभाविनो भावान्सर्वानेवेह निश्चये।
बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति।।
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम्।
तस्माच्छक्र न शोचारि सर्वं ह्येवेदमन्तवत्।।
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः।
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ।।
कृतप्रज्ञस्य दान्तस्य वितृष्णाय निराशिषः।
नायासो विद्यते शक्र पश्यतो योगवित्तया।।
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे।
द्वेष्टारं च न पश्यामि यो ममाद्य विरुध्यति।।
नोर्ध्वं नावाङ्वतिर्यक्च न क्वचिच्छक्र कामये।
न हि ज्ञेये न विज्ञाने नाज्ञाने विद्यतेऽन्तरम्।।
शक्र उवाच।
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते।
प्रब्रूहि तमुपायं मे सम्यक्प्रह्लाद पृच्छते।।
प्रह्लाद उवाच।
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया।
गुरुशुश्रूषया शक्र पुरुषो लभते महत्।।
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः।
स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यति।।
`नैवान्तरं विजानाति श्रुत्वा गुरुमुखात्ततः।
वाक्यं वाक्यार्थविज्ञानमालोक्य मनसा यतिः।।
विवेकप्रत्ययापन्नमात्मानमनुपश्यति।
विरज्यति ततो भीत्या परमेश्वरमृच्छति।।
त्रातारं सर्वदुःखानां तत्सुखान्वेषणं ततः।
करोति सद्भिः संसर्गमलं सन्तः सुखाय वै।।
सतां सकाशादाज्ञाय मार्गं लक्षणवत्तया।
सर्वसङ्गविनिर्मुक्तः परमात्मानमृच्छति।।
विषयेच्छाकृतो धर्मं सरजस्को भयावहः।
धर्महानिमवाप्नोति क्रमात्तेन नरः पुनः।।
भक्तिहीनो भवत्येव परमात्मनि चाच्युत।
वाचके वाऽपि च स्थानं न हन्त्येव विमोचितः।।
सार्क्ष्ये चास्य रतिर्नित्यं संसारे च रतिर्भवेत्।
तस्य नित्यमविज्ञानादात्माचैव न सिद्ध्यति।।
उन्मत्तवृत्तिर्भवति क्रमादेवं प्रवर्तते।
आशौचं वर्धते नित्यं न शाम्यति कथंचन।।
विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते।
हेत्वाभासेषु संलीनः स्तौति वैषयिकान्गुणान्।।
न शास्त्राणि शृणोत्येव मानदर्पसमन्वितः।
स्वतःसिद्धं न भोगस्तं स्वतः सिद्धं न वेत्ति च।
चिद्रूपधारणं चैव परसृष्टिमथाव्ययम्।।
नानायोनिगतस्तेन भ्राम्यमाणः स्वकर्मभिः।
तीर्णपारं न जानाति महामोहसमन्वितः।
आचार्यसंश्रयाद्विद्याद्विनयं समुपागतः।।
अनुकूलेषु धर्मेषु चिनोत्येनं ततस्ततः।
आचार्य इति च ख्यातस्तेनासौ बलवृत्रहन्।।
नियतेनैव सद्भावस्तेन जन्मान्तरादिषु।
कर्मसञ्चयतूलौघः क्षिप्यते ज्ञानवायुना।।
एवं युक्तसमाचारः संसारविनिवर्तकः।
अनुकूलवृत्तिं सततं छिनत्त्येव भृगुर्यथा।।
येन चायं समापन्नं वैतृष्ण्यं नाधिगच्छति।
अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत्।।
प्रथमं तत्कृतेनैव कर्मणा परिमृच्छति।
द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति।।
एतैरक्षैः समापन्नः प्रत्यक्षोऽसौ समास्थितः।
सुपुप्त्याख्यस्तुरीयोसौ न च ह्यावरणान्वितः।।
लोकवृत्त्या तमीशानं यजञ्जुह्वन्यमी भवेत्।
आत्मन्यायासयोगेन निष्क्रियं स परात्परम्।।
आयामे तां विजानाति मायैषा परमात्मनः।
प्रातिभासिकसामान्याद्बुद्धेर्या संविदात्मिका।।
स्फुलिङ्गसत्त्वसदृशादग्निभावो यथा भवेत्।
शिशूनामेवमज्ञानामात्मभावोऽन्यथा स्मृतः।।
साध्येऽप्यवस्तुभूताख्ये मित्रामित्रादयः कुतः।
तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर।।
एवं बुध्यस्व भगवन्समबुद्धिं समन्वियात्।
उपायमेतदाख्यातं मा वक्रं गच्छ देवप।।
ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम्।
यावदारब्धमस्येह तावन्नैवोपशाम्यति।।
तदन्ते तं प्रयात्येव न विद्वानिति मे मतिः।
यदस्य वाचकं वक्ष्ये संस्मरे तद्भवेत्तदा।।
तेनतेन च भावेन अपायं तत्र पश्यति।
स्थानभेदेषु वागेषा तालुसंस्था यथा तथा।।
तद्वदुद्धिगता ह्यर्था बुद्धिमात्मगतः सदा।।
समस्तसंकल्पविशेषमुक्तं
परं पराणां परमं महात्मा।
त्रय्यन्तविद्भिः परिगीयतेऽसौ
विष्णुर्विभुर्वास्ति गुणो न नित्यम्।।
न चक्षुषा पश्यति कश्चिदेनम्।।
भक्त्या च धृत्या च समाहितात्मा
ज्ञानस्वरूपं परिपश्यतीह।।
वदन्ति तन्मे भगवान्ददौ स
स एव शेषं मघवान्महात्मा।
एवं ममोपायमवैहि शक्र
तस्माल्लोको नास्ति मह्यं सदैव।।'
भीष्म उवाच।
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत्।
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत्।।
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः।
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम्।।
।। इति श्रीमन्महाभारते शन्तिपर्वणि मोक्षधर्मपर्वणि
एकोनत्रिंशदधिकद्विशततमोऽध्यायः।। 229।।