शांतिपर्व

अध्यायः २२८

Santi Parva (Sanskrit) · Adhyaya 228
अक्षर का आकार

` युधिष्ठिर उवाच।

यदिदं तप इत्याहुः किं तपः संप्रकीर्तितम्।
उपवासमथान्यत्तु वेदाचारमथो नु किम्।
शास्त्रं तपो महाप्राज्ञ तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

पक्षमासोपवासादीन्मन्यन्ते वै तपोधनाः।
वेदव्रतादीनि तप अपरे वेदपारगाः।
वेदपारायणं चान्ये चाहुस्तत्वमथापरे।।

यथाविहितमाचारस्तपः सर्वं व्रतं गताः।
आत्मविद्याविधानं यत्तत्तपः परिकीर्तितम्।।

त्यागस्तपस्तथा शान्तिस्तप इन्द्रियनिग्रहः।
ब्रह्मचर्यं तपः प्रोक्तमाहुरेवं द्विजातयः।।

सदोपवासो यो विद्वान्ब्रह्मचारी सदा भवेत्।।

यो मुनिश्च सदा धीमान्विघसाशी विमत्सरः।
ततस्त्वनन्तमप्याहुर्यो नित्यमतिथिप्रियः।।

नान्तराशीस्ततो नित्यमुपवासी महाव्रतः।
ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः।।

भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथाऽमृतम्।
एवं नानार्थसंयोगं तपः शश्वदुदाहृतम्।।

केषां लोका ह्यपर्यन्ताः सर्वे सत्यव्रते स्थिताः।
येऽपि कर्ममयं प्राहुस्ते द्विजा ब्राह्मणाः स्मृताः।
रमन्ते दिव्यभोगैश्च पूजिता ह्यप्सरोगणैः।।

ज्ञानात्मकं तपश्शब्दं ये वदन्ति विनिश्चिताः।
ते ह्यन्तराऽऽत्मसद्भावं प्रपन्ना नृपसत्तम।।

एतत्ते नृपशार्दूल प्रोक्तं यत्पृष्ट्वानसि।
यथा वस्तुनि संज्ञानि विविधानि भवन्त्युत।।

युधिष्ठिर उवाच।

पितामह महाप्राज्ञ राजाधीना नृपाः पुनः।
अन्यानि च सहस्राणि नामानि विविधानि च।।

प्रतियोगीनि वै तेषां छन्नान्यस्तमितानि च।
दृढं सर्वं प्राकृतकभिदं सर्वत्र पश्य वै।।

तस्माद्यथागतं राजन्यथारुचि नृणां भवेत्।
अस्मिन्नर्थे पुरावृत्तं शृणु राजन्युधिष्ठिर।।

ब्राह्मणानां समूहे तु यदुवाच सुवर्चला।
देवलस्य सुता विद्वन्सर्वलक्षणशोभिता।।

कन्या सुवर्चला नाम योगभावितचेतना।
हेतुना केन जाता सा निर्द्वन्द्वा नष्टसंशया।।

साऽब्रवीत्पितरं विप्रं वरान्वेषणतत्परा।।

अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम्।
एवं स्म च पितः शश्वन्मयेदं---मुने।।

पितोवाच।

न शक्यं प्रार्थितुं वत्से त्वयाऽद्य प्रतिभाति मे।
अन्धताऽनन्धता चेति विचारो मम जायते।
उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने।।

कन्योवाच।

नाहमुन्मत्तभूताऽऽद्य बुद्धिपूर्वं ब्रवीमि ते।
विद्धि वैतादृशं लोके स मां भजति वेदवित्।।

यान्यांस्त्वं मन्यसे दातुं मां द्विजोत्तम तानिह।
आनयान्यान्महाभाग ह्यहं द्रक्ष्यामि तेषु तम्।।

तथेति चोक्त्वा तां विप्रः प्रेषयामास शिष्यकान्।
ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश्च द्विजोत्तमाः।
अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम्।।

तानागतानथाभ्यर्च्यं कन्यामाह पिता महान्।
यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम्।।

तथेचि चोक्त्वा कल्याणी तप्तहेमनिभानना।
करसंमितमध्याङ्गी वाक्यमाह तपोधनाः।।

यद्यस्ति संमतो विप्रो ह्यन्धोऽनन्धः स मे वरः।
नोचुर्विप्रा महाभागां प्रतिवाक्यं ययुश्च ते।।

कन्या च तिष्ठतामत्र पितुर्वेश्मनि भारत।।

श्वेतकेतुः कहालस्य श्यालः परमधर्मवित्।
श्रुत्वा ब्रह्मा तदागम्य कन्यामाह महीपते।।

सोहं भद्रे समावृत्तस्त्वयोक्तो यः पुरा द्विजः।
विशालनयनं विद्धि मामन्धोऽहं वृणीष्व माम्।।

सुवर्चलोवाच।

कथं विशालनेत्रोऽसि कथं वा त्वमलोचनः।
ब्रूहि पश्चादहं विद्वन्परीक्षे त्वां द्विजोत्तम।।

द्विज उवाच।

शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम्।
न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे।
अलोचनोऽहं तस्माद्धि न गतिर्विद्यते यतः।।

येन पश्यति सुश्रोणि भाषते स्पृशते पुनः।
भुज्यते घ्रायते नित्यं शृणोति मनुते तथा।।

तच्चक्षुर्विद्यते मह्यं येन पश्यति वै स्फुटम्।
सुलोचनोऽहं भद्रे वै पृच्छ वा किं वदामि ते।
सर्वमस्मिन्न मे विद्या विद्वान्हि परमार्थतः।।

सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम्।
प्रणम्य पूजयामास तां भार्यां स च लब्धवान्।।

वैराग्यसंयुता कन्या तादृशं परिमुत्तमम्।
प्राप्ता राजन्महाप्राज्ञ तस्मादर्थः पृथक्पृथक्।।

एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि।।'

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टाविंशत्यधिकद्विशततमोऽध्यायः।। 228।।