शांतिपर्व

अध्यायः २१६

Santi Parva (Sanskrit) · Adhyaya 216
अक्षर का आकार

गुरुरुवाच।

अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा।
तत्त्वज्ञानाच्चरन्राजन्प्राप्नुयात्परमां गतिम्।।

सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते।
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः।।

सर्वभूतात्मभूतास्ते सर्वज्ञाः सर्वदर्शिनः।
ब्राह्मणा वेदशास्त्रज्ञास्तत्त्वार्थगतनिश्चयाः।।

नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि।
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः।।

तांस्तानुपासते धर्मान्धर्मकामा यथागमम्।
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान्।।

वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः।
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणाञ्छुभान्।।

यदिदं ब्रह्मणो रूपं ब्रह्मंचर्यमिति स्मृतम्।
परं तत्सर्वधर्मेभ्यस्तेन यान्ति परां गतिम्।।

लिङ्गसंयोगहीनं यच्छब्दस्पर्शविवर्जितम्।
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम्।।

वाक्संभाषाप्रवृत्तं यत्तन्मनः परिवर्जितम्।
बुद्ध्या चाध्यवसीयीत ब्रह्मचर्यमकल्मषम्।।

सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान्।
द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः।।

सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु।
संप्रदीप्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः।।

योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः।
कथंचिद्दर्शनादासां दुर्बलानां विशेद्रजः।।

रागोत्पन्नश्चेरत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः।
मग्नस्त्वप्स्वेव मनसा त्रिर्जपेदघमर्षणम्।।

पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम्।
ज्ञानयुक्तेन मनसा संततेन विचक्षणः।।

कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम्।
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम्।।

`अमेध्यपूर्णं यद्भाण्डं श्लेष्मान्तकलिलावृतम्।
नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते।।

देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम्।
बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम्।।

छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम्।
अन्तस्यं स्रंसते तद्वज्जलं देहेषु देहिनाम्।।

श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लमेव च।
कफजालविनिर्यासः सरसश्चित्त मुञ्चय।।'

वातपित्तकफान्रक्तं त्वङ्भांसं स्नायुमस्थि च।
मज्जां देहं सिराजालैस्तर्पयन्ति रसा नृणाम्।।

दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः।
याभिः सूक्ष्माः प्रजायन्ते धमन्योऽन्याः सहस्रशः।।

एवमेताः सिरा नद्यो रसोदा देहसागरम्।
तर्पयन्ति यथाकालमापगा इव सागरम्।।

मध्ये च हृदयस्यैका सिरा तत्र मनोवहा।
शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति।।

सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः।
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम्।।

पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः।
शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः।।

स्वप्नेऽप्येवं यथाऽभ्येति मनः संकल्पजं रजः।
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहाः।।

महर्षिर्भगवानत्रिर्वेद तच्छ्रुक्रसंभवम्।
नृबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते।।

ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम्।
विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम्।।

गुणानां साम्यमागम्य मनसैव मनोवहम्।
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते।।

भविता मनसो ज्ञानं मन एव प्रजायते।
ज्योतिष्मद्विरजो नित्यं मन्त्रसिद्धं महात्मनाम्।।

तस्मात्तदभिघाताय कर्म कुर्यादकल्मषम्।
देहबीजं समुत्पन्नमस्मित्कर्मणि विद्यते।।

न स्मरेन्न प्रयुञ्जीत ज्ञानी तत्कर्म बुद्धिमान्।
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात्।।

तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्।
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम्।।

`एव पुत्रकलत्रेषु ज्ञातिसंबन्धिबन्धुषु।
आदत्ते हृदये कामं व्याध्यादिभिरभिप्लुतः।।

यतस्ततः परिपतन्नविन्दन्सुखमण्वपि।
बहुदुःखसमापन्नः पश्चान्निर्वेदमास्थितः।
ज्ञानवृक्षं समाश्रित्य पश्चान्निर्वृतिमश्नुते।।'

सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम्।
यथा पश्येत्तथा दोषानतीत्यामृतमश्नुते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः।। 216।।