शांतिपर्व

अध्यायः २१७

Santi Parva (Sanskrit) · Adhyaya 217
अक्षर का आकार

गुरुरुवाच।

दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः।
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम्।।

जन्ममृत्युजरादुःखैर्व्याधिभिर्मानसक्लमैः।
दृष्ट्वैव संततं लोकं घटेन्मोक्षाय बुद्धिमान्।।

वाङ्भनोभ्यां शरीरेण शुचिः स्यादनहंकृतः।
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम्।।

`वशा मोक्षवतां पाशास्तासां रूपं प्रदर्शकम्।
दुर्ग्रहं पश्यमानोऽपि मन्यते मोहितस्तदा।।

एवं पश्यन्तमात्मानमनुध्यातं हि बन्धुषु।
अयथात्वेन जानामि भेदरूपेण संस्थितम्।।'

अथवा मनसः सङ्गं पश्येद्भूतानुकम्पया।
तत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत्।।

यत्कृतं स्याच्छुभं कर्म पापं वा यदि वाऽश्नुते।
तस्माच्छुभानि कर्माणि कुर्याद्वा बुद्धिकर्मभिः।।

अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम्।
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत्।।

`अनक्षसाध्यं तद्ब्रह्म निर्मलं जगतः परम्।
स्वात्मप्रकाशमग्राह्यमहेतुकमचञ्चलम्।।

विवेकज्ञानवाचिस्थो ह्याशुरूपेण संस्थितः।
वैकारिकात्प्रदृश्येतै गैरिके मधुधारवत्।।'

यश्चैनं परमं धर्मं सर्वभूतसुखावहम्।
दुःखान्निः सरणं वेद तत्त्वज्ञः स सुखी भवेत्।।

तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत्।
नापथ्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत्।।

अथामोघप्रयत्नेन मनो ज्ञाने निवेशयेत्।
सुवाचोऽथ प्रयोगेण मनोज्ञं संप्रवर्तते।।

विवेकयित्वा तद्वाक्यं धर्मसूक्ष्ममवेक्ष्य च।
सत्यां वाचमहिंस्रां च वदेदनपवादिनीम्।।

कल्कापेतामपरुषामनृशंसामपैशुनीम्।
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा।।

वाक्यबन्धेन संरागविहाराद्व्याहरेद्यदि।
बुद्ध्याऽप्यनुगृहीतेन मनसा कर्म तामसम्।।

रजोभूतैर्हि करणैः कर्मणि प्रतिपद्यते।
स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते।
तस्मान्मनोवाक्शरीरैराचरेद्वैर्यमात्मनः।।

प्रकीर्ण एव भारो हि यद्वद्धार्येत दस्युभिः।
प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा।
`संसारमार्गमापन्नः प्रतिलोमं विवर्जयेत्।।'

तामेव च यथा दस्यून्हत्वा गच्छेच्छिवां दिशम्।
तथा रजस्तमः कर्माण्युत्सृज्य प्राप्नुयाच्छुभम्।।

निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः।
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः।।

ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान्।
निष्प्रचारेण मनसा परं तदधिगच्छति।।

धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम्।
मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसाऽऽत्मनः।
`योजयित्वा मनस्तत्र निश्चलं परमात्मनि।।

योगाभिसन्धियुक्तस्य ब्रह्म तत्संप्रकाशते।
ऐकान्त्यं तदिदं विद्धि सर्ववस्त्वन्तरस्थितिः।।

विशेषहीनं गृह्णन्ति विशेषां कारणात्मिकाम्।
अथवा न प्रभुस्तत्र परमात्मनि वर्तितुम्।
आगामित्तत्त्वं योगात्मा योगतन्त्रमुपक्रमेत्।।'

निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे।
देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम्।।

ताभिः संयुक्तमनसो ब्रह्म तत्संप्रकाशते।
शनैश्चापगते सत्वे ब्रह्मभूयाय कल्पते।।

अथवा न प्रवर्तेत योगतन्त्रैरुपक्रमेत्।
योगतन्त्रमयं तन्त्रं वृत्तिः स्यात्ततदाचरेत्।।

कणकुल्माषपिण्याकशाकयावकसक्तवः।
तथा मूलफलं भैक्ष्यं पर्यायेणोपयोजयेत्।।

आहारनियमं चैव देशे काले च सात्विकः।
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम्।।

प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत्।
ज्ञानैधितं तथा ज्ञानमर्कवत्संप्रकाशते।।

ज्ञानाधिष्ठानमज्ञानं त्रील्लोँकानधितिष्ठति।
विज्ञानानुगतं ज्ञानमज्ञानेनापकृष्यते।।

पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम्।
स तयोरपवर्गज्ञो वीतरागो विमुच्यते।।

वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम्।
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः।। 217।।