शांतिपर्व

अध्यायः २१५

Santi Parva (Sanskrit) · Adhyaya 215
अक्षर का आकार

गुरुरुवाच।

रजसा साध्यते मोहस्तमश्च भरतर्षभ।
क्रोधलोभौ भयं दर्प एतेषां सादनाच्छुचिः।।

परमं परमात्मानं देवमक्षयमव्ययम्।
विष्णुमव्यक्तसंस्थानं विदुस्तं देवसत्तमम्।।

तस्य मायापिनद्धाङ्गा ज्ञान भ्रष्टा निराशिषः।
मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै।।

कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः।
मानदर्पावहंकारमहंकारात्ततः क्रियाः।।

क्रियाभिः स्नेहसंबन्धः स्नेहाच्छोकमनन्तरम्।
अथ दुःखसमारम्भा जराजन्मकृतक्षणाः।।

जन्मतो गर्भवासं तु शुक्रशोणितसंभवम्।
पुरीषमूत्रविक्लेदं शोणितप्रभवाविलम्।।

तृष्णाभिभूतस्तैर्वद्धस्तानेवाभिपरिप्लवन्।
` तथा नरकगर्तस्थस्तृष्णारज्जुभिराचितः।
पुण्यपापप्रणुन्नाङ्गो जायते स यथा कृमिः।।

मशकैर्मत्कुणैर्दष्टस्तथा चित्रवधार्दितः।
नानाव्याधिभिराकीर्णः कथंचिद्यौवनं गतः।।

कूर्मोत्सृजति भूयश्च रज्जुः स्वस्वमुखेप्सया।
योषितं नरकं गृह्य जन्मकर्मवशानुगः।।

पुरक्षेत्रनिमित्तं यद्दुःखं वक्तुं न शक्यते।
कस्तत्र निन्दकश्चैव नरके पच्यते भृशम्।।

वार्धक्यमनुलङ्घेत तत्र कर्मारभेत्पुनः।
भगवान्संस्तुतः पश्चात्किं प्रवक्ष्यामि ते भृशम्'।।

संसारतन्त्रवाहिन्यस्तत्र बुद्ध्येत योषितः।
प्रकृत्याः क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः।
तस्मादेवाविशेषेण नरोऽतीयाद्विशेषतः।।

कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान्।
रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी।।

तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः।
स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत्।
स्वसंज्ञानस्वकांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत्।।

शुक्रतो रसतश्चैव देहाज्जायन्ति जन्तवः।
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान्।।

रजस्तमसि पर्यस्तं सत्वं च रजसि स्थितम्।
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यंहंकारलक्षणम्।।

तद्बीजं देहिनामाद्दुस्तद्बीजं जीवसंज्ञितम्।
कर्मणा कालयुक्तेन संसारपरिवर्तनम्।।

रमत्ययं यथा स्वप्ने मनसा देहवानिव।
कर्मगर्भैर्गुणैर्देही गर्भे तदुपलभ्यते।।

कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम्।
जायते तदहंकाराद्रागयुक्तेन चेतसा।।

शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः।
रूपरागात्तथा चक्षुर्घ्राणं गन्धजिघृक्षया।।

संस्पर्शेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः।
व्यानोदानौ समानश्च पञ्चधा देहयापनम्।।

संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः।
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः।।

दुःखं विद्यादुपादानादभिमानाच्च वर्धते।
त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते।।

इन्द्रियाणां रजस्येव प्रलयप्रभवावुभौ।
परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा।।

ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम्।
ज्ञानैश्च करणैर्देही न देहं पुननर्हति।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः।। 215।।