शांतिपर्व
अध्यायः २१४
गुरुरुवाच।
प्रवृत्तिलक्षणो धर्मो यथा समुपलभ्यते।
तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते।।
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः।
प्रयोजनं महत्त्वात्तु मार्गमिच्छन्ति संस्तुतम्।।
`वेदस्य न विदुर्भावं ज्ञानमार्गप्रतिष्ठितम्।'
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्।
इयं सा बुद्धिरभ्येत्य यथा याति परां गतिम्।।
शरीरवानुपादत्ते मोहात्सर्वान्परिग्रहान्।
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः।।
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम्।
कर्मणां विवरं कुर्वन्न लोकानाप्नुयाच्छुभान्।।
लोहयुक्तं तथा हेम विपक्वं न विराजते।
तथाऽपक्वकषायाख्यं विज्ञानं न प्रकाशते।।
`केचिदात्मगुणं प्राप्तास्ते मुक्ताश्चक्रबन्धनात्।
इतरे दुःखसन्द्वन्द्वास्तथा दुःखपरायणाः।।
शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः।
क्रोधलोभमदाविष्टा मूढान्तः करणाः सदा।।
यथा--- संछाया नास्ति नित्यतया परा।
गुणानेव तथा चिन्त्या सन्त्येति च विदुर्बुधाः।।'
यश्चाधर्मं चरेल्लोभात्कामक्रोधावनुप्लुवन्।
धर्म्यं पन्थानमुत्क्रम्य सानुबन्धो विनश्यति।।
`अचलं ज्ञानमप्राप्य चलचित्तश्चलानियात्।'
शब्दादीन्विषयांस्तस्मान्न संरागादुपप्लवेत्।
क्रोधो हर्षो विषादश्च जायन्ते हि परस्परात्।।
`गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये।
द्वन्द्वान्यथैवमादीनि विजयेच्चैव सर्ववित्।।'
पञ्चभूतात्मके देहे सत्त्वराजसताभसे।
कमभिष्टुवते चायं कं वा क्रोशति किं वदन्।।
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः।
नावगच्छन्ति विज्ञानादात्मानं पार्थिवं गुणम्।।
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते।
पार्थिवोऽयं तथा देहो मृद्विकारान्न नश्यति।।
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः।
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा।।
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत्।
ग्राम्यमाहारमादद्यादस्वाद्वपि हि यापनम्।।
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः।
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा।।
`भक्षणे श्वापदैर्मार्गादिति चारं करोति चेत्।
एवं संसारमार्गेण यात्रार्थं विषयाणि च।।
न गच्छेद्भोगविज्ञानादुन्मार्गे पद्यते तदा।
तस्माददुःखतो मार्गमास्थितस्तमनुस्मरेत्।।
नानापर्णफला वृक्षा बहवः सन्ति तत्र हि।
भोक्तारो मुनयश्चैव तस्मात्परतरं वनम्।।
अनुमानैस्तथाशास्त्रैर्यशसा विक्रमेण च।'
सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च।
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च।।
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम्।
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च।।
सत्त्वेन रजसा चैव तमसा चैव मोहिताः।
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्।।
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान्।
अज्ञानप्रभवं नित्यमहंकारं परित्यजेत्।।
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः।
`देहमूलं विजानीहि नैतानि भगवानतः।।
उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम्।
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम्।।
यथेह नियतः कालो दर्शयत्यार्तवान्गुणान्।
तद्वद्भतेष्वहंकारं विद्याद्भूतप्रवर्तकम्।।
संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम्।
प्रकृतेर्गुणसंजातो महानहंक्रिया ततः।।
अहंकारात्पुनः पश्चाद्भूतग्राममुदाहृतम्।
अव्यक्तस्य गुणेभ्यस्तु तद्गुणांश्च निबोध तान्।।
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान्।
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान्।।
प्रसादो हर्षजा प्रीतिरसंदेहो धृतिः स्मृतिः।
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान्।।
`असन्तोषोऽक्षमाऽधैर्यमतृप्तिर्विषयादिषु।
राजसाश्च गुणा ह्येते तत्परं तामसाञ्शृणु।।
मोहस्तन्द्री तथा दुःखं निद्राऽऽलस्यं प्रमादता।
विषादी दीर्घसूत्रश्च तत्तामसमुदाहृतम्।।'
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः।
विषादशोकावरतिर्मानदर्पावनार्यता।।
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम्।
विमृशेदात्मसंस्थानमेकैकमनुसंततम्।।
`यस्मिन्प्रतिष्ठितं चेदं यस्मिन्सज्ज्ञाननिर्गतिः।
सर्वभूताधिकं नित्यमहंकारं विलोकयेत्।।
विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः।
तदेव भाति तद्रूपमात्मना यत्सुनिर्मलम्।।'
शिष्य उवाच।
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः
के पुनः पुनरायान्ति के मोहादचला इव।।
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः।
`एतन्मे सर्वमाचक्ष्व यथा विद्यामहं विभो।
मह्यं शुश्रूषवे विद्वन्वक्ष्येतद्बुद्धिनिश्चितम्।।
शान्तत्वादपरान्ताच्च आरम्भादपि चैकतः।
प्रोक्तो ह्यत्र यथा हेतुरेवमाहुर्मनीषिणः।।
गुरुरुवाच।'
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते।
विनाशयति संभूतमयस्मयमयो यथा।
तथा कृतात्मा सहजैर्दोषैर्नश्यति राजसैः।।
`सहजैरविशुद्धात्मा दोषैर्नश्यति तामसैः।'
राजसं तामसं चैव शुद्धात्मा कालसंभवम्।।
`शमयेत्सत्त्वमास्थाय बुद्ध्या केवलया द्विजः।
त्यजेच्च मनसा चेतः शुद्धात्मा बुद्धिमास्थितः'
तत्सर्वं देहिनां बीजं सत्त्वमात्मवतः समम्।
तस्मादात्मवता वर्ज्यं रजश्च तम एव च।।
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात्।
`आहारान्वर्जयेन्नित्यं राजसांस्तामसानपि।।
ते ब्रह्म पुनरायान्ति न मोहादचला इव।'
अथवा मन्त्रवद्ब्रूयुर्मांसादीनां यजुष्कृतम्।।
स वै हेतुरनादाने शुद्धधर्मानुपालने।
रजसा कामयुक्तानि कार्याण्यपि समाप्नुते।।
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते।
तमसा लोभयुक्तानि क्रोधजानि च सेवते।
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः।।
सत्वस्थः सात्विकान्भावाञ्शुद्धान्पश्यति संश्रितः।
स देही विमलः श्रीमाञ्श्रद्धाविद्यासमन्वितः।।
।। इति श्रीमन्महाभारते शान्तिप्रवणि
मोक्षधर्मपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः।। 214।।