शांतिपर्व

अध्यायः २१३

Santi Parva (Sanskrit) · Adhyaya 213
अक्षर का आकार

गुरुरुवाच।

चतुर्विधानि भूतानि स्थावराणि चराणि च।
अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च।
अव्यक्तलक्षणं विद्यादव्यक्तात्मात्मकं मनः।।

यथाऽश्वत्थकणीकायामन्तर्भूतो महाद्रुमः।
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्संभवस्तथा।।

`आत्मानमनुसंयाति बुद्धिरव्यक्तजा तथा।
तामन्वेति मनो यद्वल्लोहवर्मणि सन्निधौ।।'

अभिद्रवत्ययस्कान्तमयोनिश्चेतनं यथा।
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम्।।

तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः।
अचेतनाश्चेतयितुः कारणादभिसंगताः।।

न भूर्न खं द्यौर्भूतानि नर्षयो न सुरासुराः।
नान्यदासीदृते जीवमासेदुर्न तु संहतिम्।।

सर्वं नित्यं सर्वगतं मनोहेतुत्वलक्षणम्।
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम्।।

तत्कारणेन संयुक्तं कार्यसंग्रहकारकम्।
येनैतद्वर्तते चक्रमनादिनिधनं महत्।।

`येन स्वभावसद्भावं हेतुभूता सकारणा।
एवं प्राकृतविस्तारो ह्याश्रित्य पुरुषं परम्।।'

अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम्।
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम्।।

स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत्।
तिलपीडैरिवाक्रम्य भोगैरज्ञानसंभवैः।।

`प्राणेनायं हि शान्ते तु विरोधात्प्रतिपालनम्।
देहस्येषून्य आस्ते यः शुद्धोऽचिन्त्यः सनातनः।।

भ्रामयन्नेषतो याति कालचक्रसमन्वितः।
भूतानि मोहयन्नित्यं चक्रस्य च रयं गतः।।

स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु।
तिलवत्पीडिते चक्रे ह्याधियन्त्रनिपीडिते।
बहिश्चाधिष्ठिते यद्वज्ज्ञानिनां कर्मसंभवम्'।।

कर्म तत्कुरुते तर्षादहंकारपरिग्रहम्।
कार्यकारणसंयोगे स हेतुरुपपादितः।।

`यथाऽऽकर्ण्य च तच्छिष्यस्तत्वज्ञानमनुत्तमम्।'
नात्येति कारणं कार्यं न कार्यं कारणं तथा।
कार्याण्यमूनि करणे कालो भवति हेतुमान्।।

हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम्।
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा।।

सत्वरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः।
क्षेत्रज्ञमेवानयाति पांसुर्वातेरितो यथा।।

न च तैः स्पृश्यते भावैर्न ते तेन महात्मना।
सरजस्कोऽरजस्कश्च स वै वायुर्भवेद्यथा।।

तथैतदन्तरं विद्यात्सत्वक्षेत्रज्ञयोर्बुधः।
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः।।

संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः।
तथा वार्तां समीक्षेत कृतलक्षणसंविदम्।।

बीजान्यग्न्युपदग्धानि नरो हन्ति यथा पुनः।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि त्रयोदशाधिकद्विशततमोऽध्यायः।। 213।।