शांतिपर्व
अध्यायः २१२
युधिष्ठिर उवाच।
योगं मे परमं तात मोक्षस्य वदभारत।
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतांवर।।
`भूयोपि ज्ञानसद्भावे स्थित्यर्थं त्वां ब्रवीम्यहम्।
अचिन्त्यं वासुदेवाख्यं तस्मात्प्रब्रूहि सत्तम।।'
भीष्म उवाच।
अत्राप्युदाह न्तीममितिहासं पुरातनम्।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह।।
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम्।
तेजोराशिं महात्मानं सत्यसन्धं जितेन्द्रियम्।।
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः।
चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत्।।
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम।
संशयो मे महान्कश्चित्तं मे व्याख्यातुमर्हसि।
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम्।।
कथं च सर्वभूतेषु समेषु द्विजसत्तम।
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः।।
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत्।
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि।।
गुरुरुवाच।
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम्।
अध्यात्मं सर्वभूतानामागमानां च यद्वसु।।
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो सुखम्।
सत्यं दानं तपो यज्ञस्तितिक्षा दम आर्जवम्।।
पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः।
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम्।।
तदिदं ब्रह्म वार्ष्णोयमितिहासं शृणुष्व मे।
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तता।।
[वैश्यो वैश्यैस्तथा श्राव्यः शूद्रः शूद्रैर्महामनाः।]
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः।।
अर्हस्त्वमसि कल्याणं वार्ष्णेयाध्यात्ममुत्तमम्।।
`यमच्युतं परं नित्यं लिङ्गहीनं च निर्मलम्।
निर्वाणममृतं श्रीमत्तद्विष्णोः परमं पदम्।।
भवे च भेदवद्भिन्नं प्रदानं गुणकारकम्।
तस्मिन्न सज्यते नित्यं स एष पुरुषोऽपरः।।
पुरुषाधिष्ठितं नित्यं प्रधानं ब्रह्म कारणम्।
कालस्वरूपं रूपेण विष्णुना प्रभविष्णुना।।
क्षोभ्यमाणं सृजत्येव नानाभूतानि भागशः।
तद्दृष्ट्वा पुरुषोतत्वं साक्षीभूत्वा प्रवर्तते।
तत्प्रविश्य यथायोगमभिन्नो भिन्नलक्षणः।।'
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम्।
त्रैलोक्ये सर्वभूतेषु चक्रवत्परिवर्तते।।
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम्।
वदन्ति पुरुषव्याघ्र केशवं पुरुषर्षभम्।।
`तदक्षरमचिन्त्यं वै भिन्नरूपेण दृश्यते।
पश्य कालाख्यमनिशं न चोष्णं नातिशीतलम्।।
न सन्त्येते गुणास्तस्मिंतथा तस्मात्प्रवर्तते।
शीतलोऽयमनुप्राप्तः कालो ग्रीष्मस्तथैव च।।
वक्ष्यन्ति सर्वभूतानि ह्येते सूर्योदयं प्रति।
आगच्छन्ति निवर्तन्ति स कालो गुणराशयः।।
न चैव प्रकृतिस्थेन कालयुक्तेन नित्यशः।
गुणैः संभोगमरतिस्तत्वविज्ञानकोविदम्।
पुरुषाधिष्ठिता नित्यं प्रकृतिः सूयते परा।।'
पितॄन्देवानृषींश्चैव तथा वै यक्षराक्षसान्।
नागासुरमनुष्यांश्च सृजते मनसाऽव्ययः।।
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान्।
प्रलये प्रकृतिं यातान्युगादौ सृजते पुनः।।
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।।
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु।
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम्।।
`श्रुतिरेषा समाख्याता तदर्थं कारणात्मना।
अनाम्नायविधानाद्वै वेदा ह्यन्तर्हिता यथा।।'
युगान्ते ह्यस्तभूतानि शास्त्राणि विविधानि च।
सर्वसत्वविना द्वै जीवात्मनित्यया स्मृताः।
अन्यस्मिन्नण्डसद्भावे वर्तमानानि नित्यशः।।
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा।।
`नियोगाद्ब्रह्मणो विप्रा लोकतन्त्रप्रवर्तकाः।'
वेदविद्भगवान्ब्रह्मा वेदाङ्गानि बृहस्पतिः।
भार्गवो नीतिशास्त्रं तु जगाद जगतो हितम्।।
गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम्।
देवर्षिचरितं गर्गो कृष्णात्रेयश्चिकित्सितम्।।
`न्यायतन्त्रं हि कार्त्स्न्येन गौतमो वेद तत्वतः।
वेदान्तकर्मायोगं च वेदविद्ब्रह्मविद्विभुः।
द्वैपायनो निजग्राह शिल्पशास्त्रं भृगुः पुनः।।
न्यायतन्त्राण्यनेकानि तस्तैरुक्तानि वादिभिः।
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते।।
अनाद्यं तत्परं ब्रह्म न देवा नर्षयो विदुः।
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः।।
नारायणादृषिगणास्तथा मुख्याः सुरासुराः।
राजर्षयः पुराणाश्च परमं दुःखभेषडम्।
`वक्ष्येऽहं तव यत्प्राप्तमृषेद्वैपोयनान्मया।।'
पुरुषाधिष्ठितान्भावान्प्रकृतिः सूयते यदा।
हेतुयुक्तमतः पूर्वं जगत्संपरिवर्तते।।
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः।
प्रकृतिः सूयते सद्वदानन्त्यान्नापचीयते।।
अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते।
आकाशं चाप्यहंकाराद्वायुराकाशसंभवः।।
वायोस्तेजस्ततश्चाप अद्भ्योऽथ वसुधोद्गता।
मूलप्रकृतयो ह्यष्टौ जगदेतास्ववस्थितम्।।
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि।
विषयाः पञ्च चैकं च विकाराः षोडशं मनः।।
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियाण्यश्च।
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणी अपि।।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च।
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः।।
`बुद्धीन्द्रियार्था इत्युक्ता दशसंसर्गयोनयः।
सदसद्भावयोगे च मन इत्यभिधीयते।।
व्यवसायगुणा बुद्धिरहंकारोऽभिमानकः।
न बीजं देहयोगे च कर्मबीजप्रवर्तनात्।।'
रसज्ञाने तु जिह्वेयं व्याहृते वाक्यथैव च।
इन्द्रियैर्विविधैर्युक्तं सर्वैर्व्यतं मनस्तथा।।
विद्यात्तु षोडशैतानि दैवतानि विभागशः।
देहेषु ज्ञानकर्तारमुपासीनमुपासते।।
तत्र सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः।
श्रोत्रे शब्दगुणे चैव चक्षुरग्नेर्गुणस्तथा।
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा।।
मनः सत्वगुणं प्राहु सत्वमव्यक्तजं तथा।
सर्वभूतात्मभूतस्थं तस्माद्बुद्ध्येत बुद्धिमान्।।
एते भावा जगत्सर्वं बहन्ति सचराचरम्।
श्रिता विरजसं देवं यमाहुः परमं पदम्।।
नवद्वारं पुरं पुण्यमेतैर्भावैः स्मन्वितम्।
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते।।
अजरश्चामरश्चैव व्यक्ताव्यक्तोपदेशवान्।
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः।।
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान्।
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु।।
श्रोत्रं वेदयते वेद्यं स शृणोति स पश्यति।
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम्।।
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते।
तथैवात्मा शरीरस्थ ऋते योगान्न दृश्यते।।
अग्निर्यथा ह्युपायेन मथित्वा दारु दृश्यते।
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते।।
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः।
संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम्।।
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमायुतः।
देहमुत्सृज्य वै याति तथैवात्मोपलभ्यते।।
कर्मणा व्याप्यते सर्वं कर्मणैवोपपद्यते।
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा।।
स तु देहाद्यथा देहं त्यक्त्वाऽन्यं प्रतिपद्यते।
तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि द्वादशाधिकद्विशततमोऽध्यायः।। 212।।