शांतिपर्व

अध्यायः २११

Santi Parva (Sanskrit) · Adhyaya 211
अक्षर का आकार

* युधिष्ठिर उवाच।

देवानुरमनुष्येषु ऋषिमुख्येषु वा पुनः।
विष्णोस्तत्वं यथाख्यातं को विद्वाननुवेत्ति तत्।।

एतन्मे सर्वमाचक्ष्व न मे तृप्तिर्हि तत्वतः।
वर्तते भरतश्रेष्ठ सर्वज्ञोऽसीति मे मतिः।।

भीष्म उवाच।

कारितोऽहं त्वया राजन्यदॄत्तं च पुरा मम।
गरुडेन पुरा मह्यं संवादोऽभूभृतोत्तम्।।

पुराहं तप आस्थाय वासुदेवपरायणः।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेवच।
गङ्गद्वीपे समासीनो दशवर्षाणि भारत।।

माता च मम ता देवी जननी लोकपावनी।
समासीना समीपे मे रक्षणार्थं ममाच्युत।।

तस्मिन्कालेऽद्भुतः श्रीमान्सर्ववेदमयः प्रभुः।
सुपर्णः पततांश्रेष्ठो मेरुमन्दरसन्निभः।
आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः।।

तमागतं महात्मानं प्रत्युद्गम्याहमर्थितः।
प्रणिपत्य यथान्यायं कृताज्जलिरवस्थितः।।

सोऽपि देवो महाभागामभिनन्द्य च जाह्नवीम्।
तथा च पूजितः श्रीमानुणेपाविशदासने।।

ततः कथान्तरे तं वै वचनं चेदमव्रवम्।
वेदवेद महावीर्य वैनतेग महाबल।।

नारायणं हृषीकेशं सहमानोऽनिशं हरिम्।
जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः।
ममापि तस्य सद्भातं वक्तुमर्हसि सत्तम।।

गरुड उवाच।

शृणु भीष्म यथान्यायं पुरा त्वमिह सत्तमाः।
अनेके पुनयः सिद्धा मानसोत्तरवासिनः।।
पगच्छुर्मा महाप्राज्ञा वासुदेवपरायणाः।।

पक्षीन्द्र वासुदेवस्य तत्वं वेत्सि परं पदम्।
स्वसा सयो न तस्यास्ति सन्निकृष्टप्रियोपि च।।

तेषामहं वचः श्रुत्वा प्रणिपत्य महाहरिम्।
अब्रवं च यथावृत्तं मम नारायणस्य च।।

शृणुध्वं मुनिशार्दूला हृत्वा सोममहं पुरा।
आकाशे पतमानस्तु वाक्यं तत्र शृणोमि वै।।

साधुसाधु महाबाहो प्रीतोस्मि तव दर्शनात्।
वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना।।

त्वामहं भक्तितत्वज्ञो ब्रवै वचनमुत्तमम्।
इत्याह स्म ध्रुवं तत्र मामाह भगवान्पुनः।।

ऋषिरस्मि महावीर्य न मां जानाति वा मयि।
असूयति च मां मूढ तच्छ्रुत्वा गर्वमास्थितः।।

अहं देवनिकायानां मध्ये वचनमब्रवम्।
ऋषे पूर्वं वरं मत्तस्त्वं वृणीष्व ततो ह्यहम्।
वृणे त्वत्तो वरं पश्चादित्येवं मुनिसत्तमाः।।

तस्मात्त्वां भगवान्देवः श्रीमाञ्श्रीवत्सलक्षणः।
अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा।
वृणेऽहं वरमेतद्धि त्वत्तोऽद्य पतगेश्वर।।

तथेति तं वीक्ष्य मातामनहंकारमास्थितम्।
जेतुकामो ह्यहं विष्णुं मायया मायिनं हरिम्।।

त्वत्तो ह्यहं वृणे त्वद्य वरं ऋषिवरोत्तम।
तवोपरिष्टात्स्थास्यामि वरमेतत्प्रयच्छ मे।।

तथेति च हसन्प्राह हरिर्नारायणः प्रभुः।
ध्वजं च मे भव सदा त्वमेव विहगेश्वर।
उपरिष्टात्स्थितिस्तेऽस्तु मम पक्षीन्द्र सर्वदा।।

इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः।
सहस्रचरणः श्रीमान्सहस्रादित्यसन्निभः।।

सहस्रशीर्षा पुरुषः सहस्रनयनो महान्।
सहस्रमकुटोऽचिन्त्यः सहस्रवदनो विभुः।।

विद्युन्मालानिभैर्दिव्यैर्नानाभरणराजिभिः।
क्वचित्संदृश्यमानस्तु चतुर्बाहुः क्वचिद्वरिः।।

क्वचिज्ज्योतिर्मयोचिन्त्यः क्वचित्स्कन्धे समाहितः।
एवं मम जयन्देवस्तत्रैवान्तरधीयत।।

ततोऽहं विस्मयापन्नः कृत्वा कार्यमनुत्तमम्।
अस्याविमुच्य जननीं मया सह मुनीश्वराः।।

अचिन्त्योऽयमहं भूयः कोऽसौ मामब्रवीत्पुरा।
कीदृग्विधः स भगवानिति मत्वा तमास्थितः।।

अनन्तरं देवदेवं स्कन्धे मम समाश्रितम्।
अद्राक्षं पुण्डरीकाक्षं वहमानोऽहमद्भुतम्।।

अवशस्तस्य भावेन यत्र यत्र स चेच्छति।
विस्मयापन्नहृदयो ह्यहं किमिति चिन्तयन्।
अन्तर्जलमहं सर्वं वहमानोऽगमं पुनः।।

सेन्द्रैर्देवैर्महाभागैर्ब्रह्माद्यैः कल्पजीविभिः।
स्तूयमानो ह्यहमपि तैस्तैरभ्यर्चितः पृथक्।।

क्षीरोदस्योत्तरे कूले दिव्ये मणिमये शुभे।
वैकर्णनाम सदनं हरेस्तस्य महात्मनः।।

दिव्यं तेजोमयं श्रीमदचिन्त्यममरैरपि।
तेजोनिलमयैः स्तम्भैर्नानासंस्थानसंस्थितैः।।

विभूषितं हिरण्येन भास्वरेण समन्ततः।
दिव्यं ज्योतिः समायुक्तं गीतवादित्रशोभितम्।।

शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम्।
न च स्थलं न चान्यच्च पादयोस्तं समन्ततः।
वेपमानो ह्यहं तत्र विष्ठितोऽहं कृताञ्जलिः।।

ततो ब्रह्मादयो देवा लोकपालास्तथैव च।
सनन्दनाद्या मुनयस्तथाऽन्ये परजीविनः।।

प्राप्तास्तत्र सभाद्वारि देवगन्धर्वसत्तमाः।
ब्रह्माणं परतः कृत्वा कृताञ्जलिपुटास्तदा।।

ततस्तदन्तरे तस्मिन्क्षीरोदार्णवशीकरैः।
बोध्यमानो महाविष्णुराविर्भूत इवाबभौ।।

फणासहस्रमालाढ्यं शेषमव्यक्तसंस्थितम्।
पश्याम्यहं मुदाऽऽकाशे यस्योपरि जनार्दनम्।।

दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः।
चर्तुभिर्बाहुभिर्युक्तं------------।।

पिताम्बरेण संवीतं कौस्तुभेन विराजितम्।
वक्षस्थलेन संयुक्तं पद्मयाऽधिष्ठितेन च।।

ईषदुन्मीलिताक्षं तं सर्वकारणकारणम्।
क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा।।

न कश्चिद्वदते कश्चिन्न व्याहरति कश्चन।
ब्रह्मादिस्तम्बपर्यन्तं माशब्दमिति रोषितम्।
भ्रुकुटीकुटिलाक्षास्ते नानाभूतगणाः स्थिताः।।

कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया।
गच्छध्वमिति मामुक्त्वा गरुडेत्याह मां ततः।।

ततोऽहं प्रणिपत्याग्रे कृताञ्जलिरवस्थितः।
आगच्छेति च मामुक्त्वा पूर्वोत्तरपथं गतः।।

अतीव मृदुभावेन गच्छन्निव स दृश्यते।
अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा।
पतमानोऽहमनिशं योजनानि ततस्ततः।।

ननु तत्वमहं भक्तो विष्ठितोस्मि प्रशास्तु नः।
आगच्छ गरुडेत्येवं पुनराह स माधवः।।

ततो भूयो ह्यहं पातं पतमानो विहायसम्।
आजगाम ततो घोरं शतकोटिसमावृतम्।।

तामसानीव भूतानि पर्वताभानि तत्र ह।
समानानीव पद्मानि ततोऽहं भीत आस्थितः।।

ततो मां किंकरो घोरः शतयोजनमायतम्।
निगृह्य पाणिना तस्माच्चिक्षेप च स लोष्टवत्।।

तत्तमोऽहमतिक्रम्य ह्यापं चैव विहायसम्।
हुङ्कारघोपं तत्राहमशनीपातसन्निभान्।
कर्णमूले ह्यशृण्वन्तस्ततो भूतैः समास्थितः।।

ततोऽहं देवदेवेश त्राहि मां पुष्करेक्षण।
इत्यब्रवमहं तत्र ततो विष्णुरुवाच माम्।।

सुषिरस्य मुखे कश्चिन्मां चिक्षेप भयङ्करः।
अतीतोऽहं क्षणादग्निमपश्यं वायुमण्डलम्।।

आकाशमिव संप्रेक्ष्य क्षेप्तुकाममुपागतः।
तत्राहं दुःखितो भूतः क्रोशमानो ह्यवस्थितः।।

क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना।
स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयङ्करः।।

-----गरुडकुलं सहस्रादित्यसन्निभम्।
मां दृष्ट्वाऽप्यथ संस्थेऽथ ह्यल्पकालोऽतिदुर्बलः।।

अहो विहङ्गमः प्राप्त इति विस्मयमानसाः।
मां दृष्ट्वोचुरहं तत्र पश्यामि गरुडध्वजम्।।

सहस्रयोजनायामं सहस्रादित्यवर्चसम्।
सहस्रगरुडारूढं गरुडास्ते महाबलाः।।

अत्याश्चर्यमिमं देव वपुषाऽस्मत्कुलोद्भवः।
स्वल्पप्राणः स्वल्पकायः कोसौ पक्षी इहागतः।।

तच्छ्रुत्वाऽहं नष्टगर्वो भीतो लज्जासमन्वितः।
स्वयं बुद्ध्श्च संविग्नस्ततो ह्यशृणवं पुनः।।

आगच्छ गरुडेत्येव ततोऽहं यानमास्थितः।
परार्ध्यं च ततो गत्वा योजनानां शतं पुनः।
तत्रापश्यमहं यो वै ब्रह्माणं परमेष्ठिनम्।।

तत्रापि चापरं तत्र शतकोटिपितामहान्।
पुनरेहीत्युवाचोच्चैर्भगवान्मधुसूदनः।।

महाकुलं ततोऽपश्यं प्रमाणानि तमव्ययम्।
कपित्थफलसंकाशमन्धकारैः समाश्रितम्।।

तत्र स्थितो हरिः श्रीमानण्डमेकं बिभेद ह।
महद्भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत्पुनः।।

तन्सध्ये सागरान्सप्त ब्रह्माणं च तथा सुरान्।
पश्याम्यहं यथायोगं मातरं स्वकुलं तथा।।

एवं मयाऽनुभूतं हि तत्वान्वेषणकाङ्क्षिणा।
शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः।।

इत्येवमब्रवं विप्रान्भीष्म यन्मे पुराऽभवत्।
तत्ते सर्वं यथान्यायमुक्तवानस्मि सत्तम।।

योगिनस्तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम्।
नान्यथा शक्यरूपोसौ ज्ञानगम्यः परः पुमान्।।

अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः।।

भीष्म उवाच।

इत्येवमुक्त्वा भगवान्सुपर्णः पक्षिराट् प्रभुः।
आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत।।

तस्माद्राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत्।
ज्ञानेन भक्त्या सुलभो नान्यथेति मतिर्मम।।'

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः।। 211।।