शांतिपर्व
अध्यायः २१०
`युधिष्ठिर उवाच।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः।।
किंनु स्मरन्कुरुश्रेष्ठ मरणे समुपस्थिते।
प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तत्वतः।।
भीष्म उवाच।
त्वद्युक्तश्च हितः सूक्ष्म उक्तः प्रश्नस्त्वयाऽनघ।
शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम्।।
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम्।
पुरा नारायणं देवं नारदः पर्यपृच्छत।।
अक्षरं परमं ब्रह्म निर्गुणं तमसः परम्।
आहुर्वैद्यं परं धाम ब्रह्मादिकमलोद्भवम्।।
भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः।
कथं भक्तैर्विचिन्त्योसि योगिभिर्मोक्षकाङ्क्षिभिः।।
किंनु जप्यं जपेन्नित्यं काल्यमुत्थाय मानवः।
स्मरेच्च म्रियमाणो वै विशेषेण महाद्युते।।
कथं युञ्जन्समाध्यायेद्ब्रूहि तत्वं सनातनम्।।
श्रुत्वा च नारदोक्तं तु देवानामीश्वरः स्वयम्।
प्रोवाच भगवान्विष्णुर्नारदं वरदः प्रभुः।।
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम्।
यामधीत्य प्रयाणे तु मद्भावयोपपद्यते।।
ओंकारमग्रतः कृत्वा मां नमस्कृत्य नारद।
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत्।।
ओं नमो भगवते वासुदेवायेति।।
इत्युक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः।
सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम्।।
नारद उवाच।
अव्ययं शाश्वतं देवं प्रभवं पुरुषोत्तमम्।
प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम्।।
पुराणं प्रभवं विष्णुमक्षयं लोकसाक्षिणम्।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम्।।
लोकनाथं सहस्राक्षमद्भुतं परदं पदम्।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम्।।
स्रष्टारं सर्वलोकानामनन्तं सर्वतोमुखम्।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम्।।
हिरण्यगर्भममृतं भूगर्भं परतः परम्।
प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम्।।
सहस्रशीर्षं पुरुषं महर्षि तत्वभावनम्।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम्।।
नारायणं पुराणर्षि योगात्मानं सनातनम्।
संस्थानं सर्वतत्वानां प्रपद्ये ध्रुवमीश्वरम्।।
यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम्।
परावरगुरुर्विष्णुः स मे देवः प्रसीदतु।।
यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः सनातनः।
ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु।।
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे।
ब्रह्मादिषु प्रलीनेषु नष्टे लोकपरावरे।।
आभूतसंप्लवे चैव प्रलीनेऽप्राकृतो महान्।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु।।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हुयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु।।
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु।।
अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम्।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु।।
योगावास नमस्तुभ्यं सर्वावास वरप्रद।
यज्ञगर्भ हिरण्याङ्गं पञ्चयज्ञ नमोस्तु ते।।
चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित।
सर्वावास नमस्तेऽस्तु वासुदेव प्रधानकृत्।।
अजस्त्वनामयः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत्।
विकर्तः पञ्चकाज्ञ नमस्ते ज्ञानसागर।।
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः।।
न प्रधानो न च महान्पुरुषश्चेतनो ह्यजः।
अनयोर्यः परतरस्तमस्मि शरणं गतः।।
चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम्।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः।।
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः।।
एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः।
अग्राह्यं निर्गुणं नित्यं तमस्मि शरणं गतः।।
सोमार्काग्निमयं तेजो या च तारमयी द्युतिः।
दिवि संजायते योऽयं स महात्मा प्रसीदतु।।
गुणादिर्निर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः।
सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु।।
साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु।।
अव्यक्तः समधिष्ठाता अचिन्त्यः सदसत्परः।
अस्थितिः प्रकृतिश्रेष्ठः स महात्मा प्रसीदतु।।
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः।
महान्गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु।।
सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता।
भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु।।
नमस्ते सर्वतः सर्वं सर्वतोक्षिशिरोमुख।
निर्विकार नमस्तेऽस्तु साक्षी क्षेत्रध्रुवस्थितिः।।
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे।
ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते।।
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः।
मान्यभक्ता विजानन्ति न पुनर्भवका द्विजाः।।
एकान्तिनो हि निर्द्वन्द्वा निराशीःकर्मकारिणः।
ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः।।
अशरीरं शरीरस्थं समं सर्वेषु देहिषु।
पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्राविशन्त्युत।।
अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च।
त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि।।
एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम्।
समोसि सर्वभूतेषु न ते द्वेष्योस्ति न प्रियः।।
समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा।
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम्।
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव।।
स्रष्टा भोक्तासि कूटस्थो ह्यतत्वं तत्वसंज्ञिकः।
अकर्ता हेतुरचलः पृथगात्मन्यवस्थितः।।
न ते भूतेषु संयोगो भूततत्वगुणाधिकः।
अहङ्कारेण बुद्ध्या वा न ते योगस्त्रिभिर्गुणैः।।
न मोक्षधर्मो वा न त्वं नारम्भो जन्म वा पुनः।
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वग।।
ईश्वरोसि जगन्नाथ ततः परम उच्यसे।
भक्तानां यद्धितं देव तद्ध्याहि त्रिदशेश्वर।।
विषयैरिन्द्रियैर्वाऽपि न मे भूयः समागमः।
पृथिवीं यातु गन्धो वै रसं यातु जलं तथा।।
तेजो हुताशनं यातु स्पर्शो यातु च मारुतम्।
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः।।
इन्द्रियाण्यपि संयान्तु स्वासुस्वासु च योनिषु।
पृथिवी यातु सलिलमापोग्निमनलोऽनिलम्।।
वायुराकाशमप्येतु मनश्चाकाश एव च।
अहंकारं मनो यातु मोहनं सर्वदेहिनाम्।।
अहंकारस्ततो बुद्धिं बुद्धिरव्यक्तमच्युत।।
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते।
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत्।।
निष्केवलं पदं तात काङ्क्षेऽहं परमं तव।
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः।।
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तिस्त्वत्परायणः।
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते।।
पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम्।
अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु।।
अनुध्यातोऽसि देवेश न मे जन्म भवेत्पुनः।
तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति।।
नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसंचिताः।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम्।।
श्रीभगवानुवाच।
अहं भगवतस्तस्य मम चासौ सनातनः।
तस्याहं न प्रणश्यासि स च मे न प्रणश्यति।।
कर्मेन्द्रियामि संयम्य पञ्च बुद्धीन्द्रियाणि च।
दशेन्द्रियाणि मनसि अहंकारे तथा मनः।।
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत्।
यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बुद्ध्येत्परात्पम्।।
ममायमिति यस्याहं येन सर्वमिदं तततम्।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम्।।
मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत्।
अपि पापसमाचारः स याति परमां गतिम्।।
ओं नमो भगवते तस्मै देहिनां परमात्मने।
नारायणाय भक्तानामेकनिष्ठाय शाश्वते।।
इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः।
स्वपन्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत्।।
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः।
श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः।।
यद्यहंकारमाश्रित्य यज्ञदानतपः क्रियाः।
कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं न तु।।
अभ्यर्चयन्पितॄन्देवान्पठञ्जुह्वन्यलिं ददत्।
ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम्।।
यज्ञो दानं तपश्चैव पावनानि शरीरिणाम्।
यज्ञं दानं तपस्तस्मात्कुर्यादाशीर्विवर्जितः।।
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद।।
किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम्।
श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः।।
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते।
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः।
अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्येव पदं मम।।
अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम्।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम्।।
तस्मात्प्रेदयं साधुभ्यो जन्मबन्धभयापहम्।
एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति।।
अश्वमेधसहस्राणां सहस्रं यः समाचरेत्।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते।।
भीष्म उवाच।
एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा।
यदुवाच तदाऽसौ भो तदुक्तं तव सुव्रत।।
त्वमप्येकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम्।
भजस्व सर्वभावेन परमात्मानमव्ययम्।।
श्रुत्वैतन्नारदो वाक्यं दिव्यं नारायणेरितम्।
अत्यन्तभक्तिमान्देव एकान्तत्वमुपेयिवान्।।
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक्।
इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम्।।
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः।।
इमां रहस्यां परमामनुस्मृति
मधीत्य बुद्धिं लभते च नैष्ठिकीम्।
विहाय दुःखान्यवमुच्य सङ्कटा
त्स वीतरागो विगतज्वरः सुखी।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः।। 210।।