शांतिपर्व
अध्यायः २०९
`* युधिष्ठिर उवाच।
पितामह महाप्राज्ञ केशवस्य महात्मनः।
वक्तुमर्हसि तत्त्वेन माहात्म्यं पुनरेव तु।।
न तृप्याम्यहमप्येनं पश्यञ्शृण्वंश्च भारत।
एवं कृष्णं महाबाहो तस्मादेतद्ब्रवीहि मे।।
भीष्म उवाच।
शृणु राजन्कथामेतां वैष्णवीं पापनाशनीम्।
नारदो मां पुरा प्राह यामहं ते वदामि ताम्।।
देवर्षिर्नारदः पूर्वं तत्वं वेत्स्यामि वै हरेः।
इति संचिन्त्य मनसा दध्यौ ब्रह्म सनातनम्।।
हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल।
अनुच्छ्वसन्निराहारः संयतात्मा जितेन्द्रियः।।
ततोऽन्तरिक्षे वागासीत्तं मुनिप्रवरं प्रति।
मेघगम्भीरनिर्घोषा दिव्या वाह्याऽशरीरिणी।।
किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम।
अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम्।।
तच्छ्रुत्वा मुनिरालोच्य संभ्रमाविष्टमानसः।
किंनु स्यादिति संचिन्त्य वाक्यमाहापरं प्रति।।
कस्त्वं भवानण्डं बिभेद मध्ये
समास्थितो वाक्यमुदीरयन्माम्।
न रूपमन्यत्तव दृश्यते वै
ईदृग्विधस्त्वं समधिष्ठितोऽसि।।
पुनस्तमाह स मुनिमनन्तोऽहं बृहत्तरः।
न मां मूढा विजानन्ति ज्ञानिनो मां विदन्त्युत।।
तं प्रत्याह मुनिः श्रीमान्प्रणतो विनयान्वितः।
भवन्तं ज्ञातुमिच्छामि तव तत्वं ब्रवीहि मे।।
तस्य तद्वचनं श्रुत्वा नारदं प्राह लोकपः।
ज्ञानेन मां विजानीहि नान्यथा शक्तिरस्ति ते।।
नारद उवाच।
कीदृग्विधं तु तज्ज्ञानं येन जानामि ते तनुम्।
अनन्त तन्मे ब्रूहि त्वं यद्यनुग्रहवानहम्।।
लोकपाल उवाच।
विकल्पहीनं विपुलं तस्य चूरं शिवं परम्।
ज्ञानं तत्तेन जानासि साधनं प्रति ते मुने।।
अत्रावृत्य स्थितं ह्येतत्तच्छुद्धमितरन्मृषा।
एतत्ते सर्वमाख्यातं संक्षेपान्मुनिसत्तम।।
नारद उवाच।
त्वमेव तव यत्तत्वं ब्रूहि लोकगुरो मम।
भवन्तं ज्ञातुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
ततः प्रहस्य भगवान्मेघगम्भीरया गिरा।
प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर्न च।।
न घ्राणजिह्वे दृक्चैव त्वचा नास्ति तथा मुने।
कथं वक्ष्यामि चात्मानमशरीरस्तथाप्यहम्।।
तज्ज्ञात्वा विस्मयाविष्टो मुनिराह प्रणम्य तम्।
येन त्वं पूर्वमात्मानमनन्तोऽहं बृहत्तरः।
शतोऽहमिति मां प्रीतः प्रोक्तवानसि तत्कथम्।।
पुनस्तमाह भगवांस्तवाप्यक्षाणि सन्ति वै।
त्वमेनं ब्रूहि चात्मानं यदि शक्नोषि नारद।।
आत्मा यथा तव मुने विदितस्तु भविष्यति।
मां च जानासि तेन त्वमेकं साधनमावयोः।
इत्युक्त्वा भगवान्देवस्ततो नोवाच किंचन।।
नारदोऽप्युत्स्मयन्खिन्नः क्व गतोऽसाविति प्रभुः।
स्थित्वा स दीर्घकालं च मुनिर्व्यामूढमानसः।।
आह मां भगवान्देवस्त्वनन्तोऽहं बृहत्तरः।
तेनाहमिति सर्वस्य को वानन्तो बृहत्तरः।।
केयमुर्वी ह्यनन्ताख्या बृहती नूनमेव सा।
यस्यां जानन्ति भूतानि विलीनानि ततस्ततः।
एनां पृच्छामि तरुणीं सैषा नूनमुवाच माम्।।
इत्येवं स मुनिः श्रीमान्कृत्वा निश्चयमात्मनः।
स भूतलं समाविश्य प्रणिपत्येदमब्रवीत्।।
आश्चर्यासि च धन्यासि वृहती त्वं वसुन्धरे।
त्वामत्र वेत्तुमिच्छामि याग्दृभूताऽसि शोभने।।
तच्छ्रुत्वा धरणी देवी स्मयमानाऽब्रवीदिदम्।
नाहं हि बृहती विप्र न चानन्ता च सत्तम।।
कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम्।
ततो मुनिस्तद्धि तत्वं प्रणिपत्येदमब्रवीत्।।
कारणं मे जलं मत्तो बृहत्तरतमं हि तत्।।
स समुद्रं मुनिर्गत्वा प्रणिपत्येदमब्रवीत्।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्यमव्यय।
तच्छ्रुत्वा सरितानाथः समुद्रो मुनिमब्रवीत्।।
कारणं मेऽत्र संपृच्छ रसात्मानं बृहत्तरम्।
ततो बृहत्तरं विद्वंस्त्वं पृच्छ मुनिसत्तम।।
ततो मुनिर्यथायोगं जलं तत्वमवेक्ष्य तत्।
जलात्मानं प्रणम्याह जलतत्वस्थितो मुनिः।।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं श्रोतुमिच्छामिकीदृग्भूतस्त्वमव्यय।।
ततो रसात्म--मुनिमाह पुनः पुनः।
ममापि कारणं पृच्छ तेजोरूपं विभावसुम्।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम्।।
ततोऽग्निं प्रणिपत्याह मुनिर्विस्मितमानसः।
यज्ञात्मानं महावासं सर्वभूतनमस्कृतम्।।
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
ततः प्रहस्य भगवान्मुनिं स्विष्टकृदब्रवीत्।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम।
कारणं मम रूपं यत्तं पृच्छ मुनिसत्तम।।
ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः।
रूपात्मानं प्रणम्याह नारदो वदतांवरः।।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह।
वायुर्मे कारणं ब्रह्मंस्तं पृच्छ मुनिसत्तम।
मत्तो बहुतरः श्रीमाननन्तश्च महाविलम्।।
स मारुतं प्रणम्याह भगवान्मुनिसत्तमः।
योगसिद्धो महायोगी ज्ञानविज्ञानपारगः।।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
ततो वायुर्हि संप्राह नारदं मुनिसत्तमम्।
कारणं पृच्छ भगवन्स्पर्शात्मानं ममाद्य वै।।
मत्तो बृहत्तरः श्रीमाननन्तश्च तथैव सः।
ततोस्य वचनं श्रुत्वा स्पर्शात्मानमुवाच सः।।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
तस्य तद्वचनं श्रुत्वा स्पर्शात्मा मुनिमब्रवीत्।
नाहं वृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम।।
कारणं मम चैवेममाकाशं च बृहत्तरम्।
तं पृच्छ मुनिशार्दूल सर्वव्यापिनमव्ययम्।।
तच्छ्रुत्वा नारदः श्रीमान्वाक्यं वाक्यविशारदः।
आकाशं समुपागम्य प्रणम्याह कृताञ्जलिः।।
आश्चर्योसि न धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
आकाशस्तमुवाचेदं प्रहसन्मुनिसत्तमम्।
नाहं बृहत्तरो ब्रह्मञ्शब्दो वै कारणं मम।
तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः।।
ततो ह्याविश्य चाकाशं शब्दात्मानमुवाच ह।
स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम्।
वेदाख्यं परमं गुह्यं वेदकारणमच्युतम्।।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
वेदात्मा प्रत्युवाचेदं नारदं मुनिपुङ्गवम्।
मया कारणभूतेन सर्ववेत्ता पितामहः।।
ब्रह्मणो बुद्धिसंस्थानमास्थितोऽहं महामुने।
तस्माद्वृहत्तरो मत्तः पद्मयोनिर्महामतिः।
तं पृच्छ मुनिशार्दूल सर्वकारणकारणम्।।
ब्रह्मलोकं ततो गत्वा नारदो मुनिपुङ्गवैः।
सेव्यमानं महात्मानं लोकपालैर्मरुद्गणैः।।
समुद्रैश्च सरिद्भिश्च भूततत्वैः सभूधरैः।
गन्धर्वैरप्सरोभिश्च ज्योतिषां च गणैस्तथा।।
स्तुतिस्तोमग्रहस्तोभैस्तथा वेदैर्मुनीश्वरैः।
उपास्यमानं ब्रह्माणं लोकनाथं परात्परम्।।
हिरण्यगर्भं विश्वेशं चतुर्वक्रेण भूषितम्।
प्रणम्य प्राञ्जलिः प्रह्वस्तमाह मुनिपुङ्गवः।।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय।।
तच्छ्रुत्वा भगवान्ब्रह्मा सर्वलोकपितामहः।
उत्स्मयन्मुनिमाहेदं कर्ममूलस्य लोपकम्।।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम।
लोकानां मम सर्वेषां नाथभूतो बृहत्तरः।।
नन्दगोपकुले गोपकुमारैः परिवारितः।
समस्तजगतां गोप्ता गोपवेषेण संस्थितः।।
मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः।
ऐशानमास्थितः श्रीमान्हन्ति नित्यं हि पाति च।।
विष्णुः स्वरूपरूपोऽसौ कारणं स हरिर्मम।
तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः।।
ततोऽवतीर्य भगवान्ब्रह्मलोकान्महामुनिः।
नन्दगोपकुले विष्णुमेनं कृष्णं जगत्पतिम्।।
बालक्रीडनकासक्तं वत्सजालविभूषितम्।
पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम्।।
गाहमानैर्हसद्भिश्च नृत्यद्भिश्च समन्ततः।
पाणिवादनकैश्चैव संवृतं वेणुवादकैः।।
प्रणिपत्याब्रवीदेनं नारदो भगवान्मुनिः।
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः।
वेत्ताऽसि चाव्ययश्चासि वेत्तुमिच्छामि यादृशम्।।
ततः प्रहस्य भगवान्नारदं प्रत्युवाच ह।
मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम्।।
मतो बृहत्तरं नान्यदहमेव बृहत्तरः।
आकाशे च स्थितः पूर्वमुक्तवानहमेव ते।।
न मां वेत्ति जनः कश्चिन्माया मम दुरत्यया।
भक्त्या त्वनन्यया युक्ता मां विजानन्ति योगिनः।।
प्रियोसि मम भक्तोसि मम तत्वं विलोकय।
ददामि तव तज्ज्ञानं येन तत्वं प्रपश्यसि।।
अन्येषां चैव भक्तानां मम योगरतात्मनाम्।
ददामि दिव्यं ज्ञानं च येन तत्वं प्रपश्यसि।।
अन्येषां चैव भक्तानां मम योगरतात्मनाम्।
ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम्।।
एवमुक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः।।
भीष्म उवाच।
एतत्ते कथितं राजन्विष्णुतत्वमनुत्तमम्।
भजस्वैनं विशालाक्षं जपन्कृष्णेति सत्तम।।
मोहयन्मां तथा त्वां च शृणोत्येष मयेरितान्।
धर्मात्मा च महाबाहो भक्तान्रक्षति नान्यथा।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः।। 209।।