शांतिपर्व

अध्यायः २०२

Santi Parva (Sanskrit) · Adhyaya 202
अक्षर का आकार

मनुरुवाच।

यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्।
ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ।।

यथाऽम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा।
तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति।।

स एव लुलिते तस्मिन्यथा रूपं न पश्यति।
तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति।।

अबुद्धिरज्ञानकृता अबुद्ध्या दूष्यते मनः।
दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः।।

अज्ञानतृप्तो विषयेष्ववगाढो न पश्यति।
स दृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते।।

तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्।
निवर्तते तदा तर्षः पापमन्तर्गतं यदा।।

`अन्तर्गतेन पापेन दह्यमानेन चेतसा।
शुभाशुभविकारेण न स भूयोऽभिजायते।।'

विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात्।
मनसा चान्यथा काड्क्षन्परं न प्रतिपद्यते।।

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः।
अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि।।

प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी।
तस्मादिन्द्रियचोरेभ्यो यच्छेदात्मानमात्मना।।

इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः।
बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम्।।

अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः।
मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति।।

यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा।
`प्रसृतानीन्द्रियाण्येव प्रतिसंहरति कूर्मवत्।'
विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वाऽमृतमश्नुते।।

उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम्।
`दृश्यते मण्डलं तस्य न च दृश्येत मण्डली।
तद्वद्देहस्तु संदृश्य आत्माऽदृश्यः परः सदा।।

ग्रस्तं ह्युद्गिरते नित्यमुद्गीथं वेत्ति नित्यशः।
बाल्ये रथाभ्यां योगेन तत्वज्ञानं तु संमतम्।।'

स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति।
`आदत्ते सर्वभूतानां रसभूतं विकासवान्।।'

अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः।
प्राप्येन्द्रि गुणान्पञ्च सोऽस्तमावृत्त्य गच्छति।
`रश्मिमण्ड हीनस्तु न चासौ नास्ति तावता।।'

प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः।
प्राप्नोत्ययं कर्मफलं प्रवृत्तं धर्ममाप्तवान्।।

विषया विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।

बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते।
तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम्।।

अस्पर्शनमशृण्वानमनास्वादमदर्शनम्।
अघ्राणमवितर्कं च सत्वं प्रविशते परम्।।

`अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः।
आत्मनः प्रसृता बुद्धिरव्यक्तं ज्ञानमुच्यते।।

तस्माद्बुद्धिः स्मृता तज्ज्ञैर्मनस्तस्मात्ततः स्मृतम्।
तस्मादाकृतयः पञ्च मनः परममुच्यते।।

तस्मात्परतरा बुद्धिर्ज्ञानं तस्मात्परं स्मृतम्।
ततः सूक्ष्मस्ततो ह्यात्मा तस्मात्परतरं न च।
इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः।।'

मनस्याकृतयो मग्ना मनस्त्वभिगतं मतिम्।
मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं महत्।।

नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः।
न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः।। 202।।