शांतिपर्व

अध्यायः २०३

Santi Parva (Sanskrit) · Adhyaya 203
अक्षर का आकार

मनुरुवाच।

दुःखोपघाते शारीरे मानसे चाप्युपस्थिते।
यस्मिन्न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत्।।

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्।
चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते।।

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्।।

अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः।
आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः।।

न जानपदिकं दुःखमेकः शोचितुमर्हति।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्।।

सुखाद्बहुतरं दुःखं जीविते नास्ति संशयः।
स्रिग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम्।।

परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः।
अभ्येति ब्रह्म सोत्यन्तं न ते शोचन्ति पण्डिताः।।

दुःखमर्था हि युज्यन्ते पालने न च ते सुखम्।
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्।।

ज्ञानं ज्ञेयाभिर्निवृत्तं विद्धि ज्ञानगुणं मनः।
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते।।

यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते।
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना।।

सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते।
अपरादभिनिः स्रौति गिरेः शृङ्गादिवोदकम्।।

यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम्।
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा।।

मनस्त्वसंहृतं बुद्ध्या हीन्द्रियार्थनिदर्शकम्।
न समर्थं गुणापेक्षि निर्गुणस्य निदर्शने।।

सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः।
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते।।

यथा महान्ति भूतानि निवर्तन्ते गुणक्षये।
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते।।

यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी।
व्यवसायगुणोपेता तदा संपद्यते मनः।।

गुणवद्भिर्गुणोपेतं यदा ध्यानगतं मनः।
तदा सर्वान्गुणान्हित्वा निर्गुणं प्रतिपद्यते।।

अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्।।

तपसा चानुमानेन गुणैर्जात्या श्रुतेन च।
निनीषेत्परमं ब्रह्म विशुद्धेनान्तरात्मना।।

गुणहीनो हि तं मार्गं बहिः समनुवर्तते।
गुणाभावात्प्रकृत्या वा निस्तर्क्यं ज्ञेयसंमितम्।।

नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते।
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने।।

यदा पञ्च वियुक्तानि इन्द्रियाणि स्वकर्मभिः।
तदा तत्परमं ब्रह्म संमुक्तं प्रकृतेः परम्।।

एवं प्रकृतितः सर्वे संभवन्ति शरीरिणः।
निवर्तन्ते निवृत्तौ च स्वर्गे नैवोपयान्ति च।।

पुरुषप्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च।
अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः।।

एतस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते।
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति।।

धर्मादुत्कृष्यते श्रेयस्तथा धर्मोऽष्यधर्मतः।
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः।। 203।।