शांतिपर्व

अध्यायः २०१

Santi Parva (Sanskrit) · Adhyaya 201
अक्षर का आकार

मनुरुवाच।

यदिन्द्रियैस्तूपगतैः पुरस्ता
त्प्राप्तान्गुणान्संस्मरते चिराय।
तेष्विन्द्रियेषूपहतेषु पश्चा
त्स बुद्धिरूपः परमः स्वभावः।।

य इन्द्रियार्थान्युगपत्समन्ता
न्नावेक्षते कृत्स्नशस्तुल्यकालम्।
यथाक्रमं संचरते स विद्वां
स्तस्मात्स एकः परमः शरीरी।।

हुताशनं वायुरिवेन्धनस्थम्।।

न चक्षुषा पश्यति रूपमात्मनो
न पश्यति स्पर्शनमिन्द्रियेन्द्रियम्।
न श्रोत्रलिङ्गं श्रवणेन दर्शनं
तथा कृतं पश्यति तद्विनश्यति।।

श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना।
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति।।

यथा हिमवतः पार्श्वे पृष्ठं चन्द्रमसो यथा।
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता।।

तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ।
अदृष्टपूर्वश्चक्षुर्म्यां न चासौ नास्ति तावता।।

पश्यन्नपि यथा लक्ष्म जनः सोमेन विन्दति।
एवमस्ति न चोत्पन्नं न च तन्न परायणम्।।

रूपवन्तमरूपत्वादुदयास्तमने बुधाः।
धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम्।।

तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः।
प्रत्यासन्नं निषीदन्ति ज्ञेयं ज्ञानाभिसंहितम्।।

न हि स्वल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति।
सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः।।

मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा।
गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते।।

अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम्।
तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति।।

नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि।
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति।।

यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते।
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम्।।

क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते।
तद्वन्मूर्तिविमुक्तोऽसौ शरीरी नोपलभ्यते।।

यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः।
तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः।।

जन्म बुद्धिः क्षयश्चास्य प्रत्यक्षेणोपलभ्यते।
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः।।

उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते।
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान्।।

नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः।
विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम्।।

यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते।
तद्वच्छरीरसंयुक्तं ज्ञानं तदुपलभ्यते।।

यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते।
तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते।।

यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः।
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकाधिकद्विशततमोऽध्यायः।। 201।।