शांतिपर्व

अध्यायः २००

Santi Parva (Sanskrit) · Adhyaya 200
अक्षर का आकार

मनुरुवाच।

अक्षरात्खं ततो वायुस्ततो ज्योतिस्ततो जलम्।
जलात्प्रसूता जगती जगत्या जायते जगत्।।

इमे शरीरैर्जलमेव गत्वा
जलाच्च तेजः पवनान्तरिक्षम्।
खाद्वै निवर्तन्ति न भाविनस्ते
ये भाविनस्ते परमाप्नुवन्ति।।

नोष्णं न शीतं मृदु नापि तीक्ष्णं
नाम्लं कषायं मधुरं न तिक्तम्।
न शब्दवन्नापि च गन्धवत्त
न्न रूपवत्तत्परमस्वभावम्।।

स्पर्शं तनुर्वेद रसं च जिह्वा
घ्राणं च गन्धाञ्श्रवणे च शब्दान्।
रूपाणि चक्षुर्नच तत्परं य
द्गृह्णन्त्यनध्यात्मविदो मनुष्याः।।

निवर्तयित्वा रसनां रसेभ्यो
घ्राणं च गन्धाच्छ्रवणे च शब्दात्।
स्पर्शात्तनुं रूपगुणात्तु चक्षु
स्ततः परं पश्यति तत्स्वभावम्।।

यतो गृहीत्वा हि करोति यच्च
यस्मिंश्च यामारभते प्रवृत्तिम्।
यस्मै च यद्येन च यश्च कर्ता
यत्कारणं तं स्वमुपेयमाहुः।।

यद्वाऽप्यभूद्व्यापकं साधकं च
यन्मन्त्रवत्स्थास्यति चापि लोके।
यः सर्वहेतुः परमार्थकारी
तत्कारणं कार्यमतो यदन्यत्।।

यथा हि कश्चित्सुकृतैर्मनुष्यः
शुभाशुभं प्राप्नुते चाविरोधात्।
एवं शरीरेषु शुभाशुभेषु
स्वकर्मभिर्ज्ञानमिदं निवद्धम्।।

यथा प्रदीप्तः पुरतः प्रदीपः।
प्रकाशमन्यस्य करोति दीप्यन्।
तथेह पञ्चेन्द्रियदीपवृक्षा
ज्ञानप्रदीप्ताः परवन्त एव।।

यथा च राज्ञो बहवो ह्यमात्याः
पृथक् प्रमाणं प्रवदन्ति युक्ताः।
तद्वच्छरीरेषु भवन्ति पञ्च
ज्ञानैकदेशाः परमः स तेभ्यः।।

यथार्चिषोऽग्नेः पवनस्य वेगा
मरीचयोऽर्कस्य नदीषु चापः।
गच्छन्ति चायान्ति च संयताश्च
तद्वच्छरीराणि शरीरिणां तु।।

यथा च कश्चित्परशुं गृहीत्वा
धूमं न पश्येज्ज्वलनं च काष्ठे।
तद्वच्छरीरोदरपाणिपादं
छित्त्वा न पश्यन्ति ततो यदन्य।।

तान्येव काष्ठानि यथा विमथ्य
धूमं च पश्येज्ज्वलनं च योगात्।
तद्वत्सुबुद्धिः सममिन्द्रियार्थै
र्बुद्धः परं पश्यति तत्स्वभावम्।।

यथात्मनोऽङ्गं पतितं पृथिव्यां
स्वप्नान्तरे पश्यति चात्मनोऽन्यत्।
श्रोत्रादियुक्तः सुमनाः सुबुद्धि
र्लिङ्गात्तथा गच्छति लिङ्गमन्यत्।।

उत्पत्तिवृद्धिक्षयमसन्निपातै
र्न युज्यतेऽसौ परमः शरीरी।
अनेन लिङ्गेन तु लिङ्गमन्य
द्गच्छत्यदृष्टः प्रतिसन्धियोगात्।।

न चक्षुषा पश्यति रूपमात्मनो
न चापि संस्पर्शमुपैति किंचित्।
न चापि तैः साधयते स्वकार्यं
ते तं न पश्यन्ति स पश्यते तान्।।

यथा समीपे ज्वलतोऽनलस्य
संतापजं रूपमुपैति कश्चित्।
न चान्तरा रूपगुणं बिभर्ति
तथैव तद्दृश्यते रूपमस्य।।

तथा मनुष्यः परिमुच्य काय
मदृश्यमन्यद्विशते शरीरम्।
विसृज्य भूतेषु महत्सु देहं
तदाश्रयं चैव बिभर्ति रूपम्।।

खं वायुमग्निं सलिलं तथोर्वी
समन्ततोऽभ्याविशते शरीरी।
नान्याश्रयाः कर्मसु वर्तमानाः
श्रोत्रादयः पञ्चगुणाञ्श्रयन्ते।।

श्रोत्रं नभो घ्राणमथो पृथिव्या
स्तेजोमयं रूपमथो विपाकः।
जलाश्रयं तेज उक्तं रसं च
वाय्वात्मकः स्पर्शकृतो गुणश्च।।

महत्सु भूतेषु च सन्ति पञ्च
पञ्चेन्द्रियार्थेषु तथेन्द्रियाणि।
सर्वाणि चैतानि मनोनुगानि
बुद्धिं मनोऽन्वेति मतिः स्वभावम्।।

शुभाशुभं कर्म कृतं यदस्य
तदेव प्रेत्याददतेऽन्यदेहे।
मनोऽनुवर्तन्ति परावराणि
जलौकसः स्रोत इवानुकूलम्।।

चलं यथा दृष्टिपथं परैति
सूक्ष्मं महद्रूपमिवावभाति।
तातप्यमानो न पतेच्च धीरः
परं तथा बुद्धिपथं परैति।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि द्विशततमोऽध्यायः।। 200।।