शांतिपर्व
अध्यायः १९९
युधिष्ठिर उवाच।
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च।
भूतात्मा च कथं ज्ञेयस्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः।।
प्रजापतिं श्रेष्ठतमं प्रजानां
देवर्षिसङप्रवरो महर्षिः।
बृहस्पतिः प्रश्नमिमं पुराणं
प्रपच्छ शिष्योऽथ गुरुं प्रणम्य।।
यत्कारणं मन्त्रविधिः प्रवृत्तो
ज्ञाने फलं यत्प्रवदन्ति विप्राः।
यन्मन्त्रशब्दैरकृतप्रकाशं
तदुच्यतां मे भगवन्यथावत्।।
यत्स्तोत्रशास्त्रागममन्त्रिविद्भि
र्यज्ञैरनेकैरथ गोप्रदानैः।
फलं महद्भिर्यदुपास्यते च
किं तत्कथं वा भविता क्व वा तत्।।
मही महीजाः पवनोऽन्तरिक्षं
जलौकसश्चैव जलं तथा द्यौः।
दिवौकसश्चापि यतः प्रसूता
स्तदुच्यतां मे भगवन्पुराणम्।।
ज्ञानं यतः प्रार्थयते नरो वै
ततस्तदर्था भवति प्रवृत्तिः।
न चाप्यहं वेद परं पुराणं
मिथ्याप्रवृत्तिं च कथं नु कुर्याम्।।
ऋक्सामसङ्घांश्च यजूंषि चाहं
छन्दांसि नक्षत्रगतिं निरुक्तम्।
अधीत्य च व्याकरणं सकल्पं
शिक्षां च भूतप्रकृतिं न वेद्मि।।
स मे भवाञ्शंसतु सर्वमेत
त्सामान्यशब्दैश्च विशेषणैश्च।
स मे भवाञ्शंसतु तावदेत
ज्ज्ञाने फलं कर्मणि वा यदस्ति।।
यथा च देहाच्च्यवते शरीरी
पुनः शरीरं च यथाऽभ्युपैति।
मनुरुवाच।
यद्यत्प्रियं यस्य सुखं तदाहु
स्तदेव दुःखं प्रवदन्त्यनिष्टम्।।
इष्टं च मे स्यादितरच्च न स्या
देतत्कृते कर्मविधिः प्रवृत्तः।
इष्टं त्वनिष्टं च न मां भजेते
त्येतत्कृते ज्ञानविधिः प्रवृत्तः।।
[कामात्मकाश्छन्दसि कर्मयोगा
एभिर्विमुक्तः परमश्नुवीत्।
नानाविधे कर्मपथे सुखार्थी
नरः प्रवृत्तो निरयं प्रयाति।]
बृहस्पतिरुवाच।
इष्टं त्वनिष्टं च सुखासुखे च
साशीस्तपश्छन्दति कर्मभिश्च।।
मनुरुवाच।
एभिर्विमुक्तः परमाविवेश
एतत्कृते कर्मविधिः प्रवृत्तः।
[कामात्मकांश्छन्दति कर्मयोग
एभिर्विमुक्तः परमाददीत।।]
आत्मादिभिः कर्मभिरिध्यमानो
धर्मे प्रवृत्तो द्युतिमान्सुखार्थी।
परं हि तत्कर्मफलादपेतं
निराशिषो यत्पदमाप्नुवन्ति।।
प्रजाः सृष्टा मनसा कर्मणा च
द्वावेवैतौ सत्पथौ लोकजुष्टौ।
दृष्टं कर्माशाश्वतं चान्तवच्च
मनस्त्यागे कारणं नान्यदस्ति।।
निराशिषो ब्रह्म परं ह्युपेतम्।।'
स्वेनात्मना चक्षुरिव प्रणेता
निशात्यये तमसा संवृतात्मा।
ज्ञानं तु विज्ञानगुणेन युक्तं
कर्माशुभं पश्यति वर्जनीयम्।।
सर्पान्कृशाग्राणि तथोदपानं
त्वा मनुष्याः परिवर्जयन्ति।
अज्ञामतस्तत्र पतन्ति मूढा
ज्ञाने फलं पश्य यथा विशिष्टम्।।
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो
यज्ञा यथोक्तास्त्विह दक्षिणाश्च।
अन्नप्रदानं मनसः समाधिः
पञ्चात्मकं कर्मफलं वदन्ति।।
गुणात्मकं कर्म वदन्ति वेदा
स्तस्मान्मन्त्रो मन्नपूर्वं हि कर्म।
विधिर्विधेयं मनसोपपत्तिः
फलस्य भोक्ता तु तथा शरीरी।।
शब्दाश्च रूपाणि रसाश्च पुण्याः।
स्पर्शाश्च गन्धाश्च शुभास्तथैव।
नरोऽत्र हि स्थानगतः प्रभुः स्या
देतत्फलं सिद्ध्यति कर्मणोऽस्य।।
यद्यच्छरीरेण करोति कर्म
शरीरयुक्तः समुपाश्नुते तत्।
शरीरमेवायतनं सुखस्य
दुःखस्य चाप्यायतनं शरीरम्।।
वाचा तु यत्कर्म करोति किंचि
द्वाचैव सर्वं समुपाश्नुते तत्।
मनस्तु यत्कर्म करोति किंचि
न्मनःस्थ एवायमुपाश्नुते तत्।।
यथायथा कर्मगुणां फलार्थी
करोत्ययं कर्मफले निविष्टः।
तथातथाऽयं गुणसंप्रयुक्तः
शुभाशुभं कर्मफलं भुनस्ति।।
मत्स्यो यथा स्रोत इवाभिपाती
तथा कृतं पूर्वमुपैति कर्म।
शुभे त्वसौ तुष्यति दुष्कृते तु
न तुष्यते वै परमः शरीरी।।
यतो जगत्सर्वमिदं प्रसूतं
ज्ञात्वाऽऽत्मवन्तो ह्युपयान्ति शान्तिम्।
यन्मन्त्रशब्देरकृतप्रकाशं
तदुच्यमानं शणु मे परं यत्।।
रसैर्विमुक्तं विविधैश्च गन्धै
रशब्दमस्पर्शमरूपवच्च।
अग्राह्यमव्यक्तमवर्णमेकं
पञ्चप्रकारान्ससृजे प्रजानाम्।।
न स्त्री पुमान्नापि नपुंसकं च
न सन्न चासत्सदसच्च तन्न।
पश्यन्ति तद्ब्रह्मविदो मनुष्या
स्तदक्षरं न क्षरतीति विद्धि।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकोनद्विशततमोऽध्यायः।। 199।।