शांतिपर्व

अध्यायः १९८

Santi Parva (Sanskrit) · Adhyaya 198
अक्षर का आकार

युधिष्ठिर उवाच।

किमुत्तरं तदा तौ स्म चक्रतुस्तस्य भाषिते।
ब्राह्मणो वाऽथवा राजा तन्मे ब्रूहि पितामह।।

अथवा तौ गतौ तत्र यदेतत्कीर्तितं त्वया।
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः।।

भीष्म उवाच।

तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य जापकः।
यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः।।

पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः।
सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्द्विजः।।

फलेनानेन संयुक्तो राजर्षे गच्छ मुख्यताम्।
भवता चाभ्यनुज्ञातो जपेयं भूय एव ह।।

वरश्च मम पूर्वं हि दत्तो देव्या महाबल।
श्रद्धा ते जपतो नित्यं भवत्विति विशांपते।।

राजोवाच।

यद्येवं सफला सिद्धिः श्रद्धा च जपितुं तव।
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि।।

ब्राह्मण उवाच।

कृतः प्रयत्नः सुमहान्सर्वेषां सन्निधाविह।
सह तुल्यफलावावां गच्छावो यत्र नौ गतिः।।

भीष्म उवाच।

व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः।
सह देवैरुपययौ लोकपालैस्तथैव च।।

साध्याश्च विश्वे मरुतो वाक्यानि सुमहान्ति च।
नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च।।

तपांसि संयोगविधिर्वेदास्तोभाः सरस्वती।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः।।

गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः।
नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः।।

`आजगाम च देवेशो ब्रह्मा वेदमयोऽव्ययः।'
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत्।
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि वा विभो।।

पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम्।
ननृतुश्चाप्सरः सङ्घास्तत्रतत्र समन्ततः।।

अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत्।
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप।।

भीष्म उवाच।

अथ तौ सहितौ राजन्नन्योन्यस्य विधानतः।
विषयप्रतिसंहारमुभावेव प्रचक्रतुः।।

प्राणापानौ तथोदानं समानं व्यानमेव च।
एवं तौ मनसि स्थाप्य दधतुः प्राणयोर्मनः।।

उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः।
भ्रुकुट्याक्ष्णोश्च मनसा शनैर्धारयतस्तदा।।

निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ।
जितासनौ समाधाय र्मूर्धन्यात्मानमेव च।।

तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः।
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा।।

हाहाकारस्तथा दिक्षु सर्वासु सुमहानभूत्।
तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा।।

ततः स्वागतमित्याह तत्तेजः प्रपितामहः।
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशांपते।।

भूयश्चैवापरं प्राह वचनं मधुरं स्मयन्।
जापकैस्तुल्यफलता योगानां नात्र संशयः।।

योगस्य तावदेतेभ्यः प्रत्यक्षं फलदर्शनम्।
जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम्।।

उष्यतां मयि चेत्युक्त्वा व्याददे स ततो मुखम्।
अथास्यं प्रविवेशास्य ब्राह्मणो विगतज्वरः।।

राजाऽप्येतेन विधिना भगवन्तं पितामहम्।
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा।।

स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन्।।

जापकार्थमयं यत्नो यदर्थं वयमागताः।
कृतपूजाविमौ तुल्यौ त्वया तुल्यफलान्वितौ।।

योगजापकयोस्तुल्यं फलं सुमहदद्य वै।
सर्वांल्लोकानतिक्रम्य गच्छेतां यत्र वाञ्छितम्।।

ब्रह्मोवाच।

महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम्।
तावप्येतेन विधिना गच्छेतां मत्सलोकताम्।।

यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः।
विधिनानेन देहान्ते मम लोकानवाप्नुयात्।
साधये गम्यतां चैव यथा स्थानानि सिद्धये।।

भीष्म उवाच।

इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत।
आमन्त्र्य च ततो देवा ययुः स्वंस्वं निवेशनम्।।

ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै।
पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतचेतसः।।

एतत्फलं जापकानां गतिश्चैषा प्रकीर्तिता।
यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः।। 198।।