शांतिपर्व
अध्यायः १९७
युधिष्ठिर उवाच।
कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च।
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च।।
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे।
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत्।
`येनैव कारणेनात्र धर्मवादसमन्वितः।।'
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः।।
तस्यापरोक्षं विज्ञानं षडङ्गेषु वभूव ह।
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः।।
सोयं ब्राह्मं पस्तेपे संहितां संयतो जपन्।
तस्य वर्षसहस्रं तु नियमेन तथा गतम्।।
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल।
जप्यमावर्तयंस्तूष्णीं न स तां किंचिदब्रवीत्।।
तस्यानुकम्पया देवी प्रीता समभवत्तदा।
वेदमाता ततस्तस्य तज्जप्यं समपूजयत्।।
`चतुर्भिरक्षरैर्युक्ता सोमपानेऽक्षराष्टका।
जगद्बीजसमायुक्ता चनुर्विशाक्षरात्मिका।।'
समाप्य जप्यं तूत्थाय शिरसा पादयोस्तदा।
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्।।
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम।
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः।।
सावित्र्युवाच।
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते।
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति।।
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्।
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः।।
मनसश्च समाधिर्मे वर्धेताहरहः शुभे।
तत्तथेति ततो देवी मधुरं प्रत्यभाषत।।
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया।
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः।।
यास्यसि ब्रह्मणः स्थानमनिमित्तमतन्द्रितः।
साधु ते भविता चैतद्यत्त्वयाऽहमिहार्थिता।।
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति।
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्।
भविता च विवादोऽत्र तव तेषां च धर्मतः।।
भीष्म उवाच।
एवमुक्त्वा भगवती जगाम भवनं स्वकम्।।
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा।
सदा दान्तो जितक्रोधः सत्यसन्धोऽनसूयकः।।
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः।
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्।।
धर्म उवाच।
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः।
जप्यस्यास्य फलं यत्तत्प्रंप्राप्तं तच्च मे शृणु।।
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः।
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि।।
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान्।
त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि।।
ब्राह्मण उवाच।
कृतं लोकेन मे धर्म गच्छ त्वं च यथासुखम्।
बहुदुःखमहं देहं नोत्सृजेयमहं विभो।।
धर्म उवाच।
`अचलं ते मनः कृत्वा त्यज देहं महामते।
अनेन किं ते संयोगः कथं मोहं गमिष्यसि।।'
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव।
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ।।
ब्राह्मण उवाच।
किमुक्तं धर्म किं नेति कस्मान्मां प्रोक्तवानसि।
त्यज देहं द्विजेति त्वं ससंबुध्यात्र मे यदि।।
न रोचये स्वर्गवासं विना देहमहं विभो।
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना।।
धर्म उवाच।
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव।
गच्छ लोकानरजसो यत्र गत्वा न शोचसि।।
ब्राह्मण उवाच।
रमे जपन्महाभाग कृतं लोकैः सनातनैः।
सशरीरेण गन्तव्यं मया स्वर्गं न चान्यथा।।
धर्म उवाच।
`एवं ते कायसंप्रातिर्वर्तते मुनिसत्तम।'
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज।
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः।।
भीष्म उवाच।
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो।
ब्राह्मणं तं महाभागमुपगम्येदमब्रवन्।।
यम उवाच।
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च।
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे।।
काल उवाच।
यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम्।
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः।।
मृत्युरुवाच।
मृत्युं मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम्।
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै।।
ब्राह्मण उवाच।
स्वागतं सूर्यपुत्राय कालाय च महात्मने।
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः।।
भीष्म उवाच।
अर्ध्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागम।
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः।।
`स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः।
भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः।।
यम उवाच।
वयमप्येवमत्युग्रा धातुराज्ञापुरः सराः।
चोदिता धावमाना वै कर्मभावमनुव्रताः।।
भीष्म उवाच।'
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः।
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो।।
सर्वानेव तु राजर्षिः संपूज्याथ प्रणम्य च।
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः।।
तस्मै सोऽथासनं दत्त्वा पाद्यमर्ध्यं तथैव च।
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्।।
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि।
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु माम।।
राजोवाच।
राजाऽहं ब्राह्मणश्च त्वं यदा षट्कर्मसंस्थितः।
ददानि वसु किंचित्ते प्रार्थितं तद्वदस्व मे।।
ब्राह्मण उवाच।
द्विविधो ब्राह्मणो राजन्धर्मश्च द्विविधः स्मृतः।
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽह प्रतिग्रहात्।।
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप।
अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते।
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्।।
राजोवाच।
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्।
प्रयच्छ युद्धमित्येवंवादी चास्मि द्विजोत्तम।।
ब्राह्मण उवाच।
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप।
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर।।
राजोवाच।
स्वशक्त्याऽहं ददानीति त्वया पूर्वमुदाहृतम्।
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज।।
ब्राह्मण उवाच।
युद्धं मम सदा वाणी याचतीति विकत्थसे।
न च युद्धं मया सार्धं किमर्थं याचसे पुनः।।
राजोवाच।
वाग्वज्राब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः।
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह।।
ब्राह्मण उवाच।
सेयमद्य प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्।
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम्।।
राजोवाच।
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया।
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि।।
ब्राह्मण उवाच।
परमं गृह्यतां तस्य फलं यज्जपितं मया।
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि।।
अथवा सर्वमेवेह मामकं जापकं फलम्।
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि।।
राजोवाच।
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया।
स्वस्ति तेऽस्तु गमिष्यामि किंच तस्य फलं वद।।
ब्राह्मण उवाच।
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया।
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः।।
राजोवाच।
अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति।
फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम्।
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम्।।
ब्राह्मण उवाच।
नाददेऽपरदत्तं वै दत्तं वा चाफलं मया।
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि।।
सकृदंशो निपतति सकृत्कन्या प्रदीतये।
सकृदेव ददानीति त्रीण्येतानि सकृत्सकृत्।।
नाभिसंधिर्मया जप्ये कृतपूर्वः कदाचन।
जप्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम्।।
ददस्वेति त्वया चोक्तं दत्तं वाचा फलं मया।
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव।।
अथैवं वदतो मेऽद्य वचनं न करिष्यसि।
महानधर्मो भविता तव राजन्मृषा कृतः।।
न युक्ता तु मृषावाणी त्वया वक्तुमरिंदम।
तथा मयाऽप्यभिहितं मिथ्या कर्तुं न शक्यते।।
संश्रुतं च मया पूर्वं ददानीत्यविचारितम्।
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान्।।
इहागम्य हि मां राजञ्जाप्यं फलमयाचथाः।
तन्मे निसृष्टं गृह्णीष्व भव सत्येस्थितोपि च।।
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत्।
कुत एवापरान्राजन्मृषावादपरायणः।।
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि।
यथा सत्यं परे लोके तथेह पुरुषर्षभ।।
तपांसि यानि चीर्णानि चरिष्यन्ति च यत्तपः।
समाशतैः सहस्रैश्च तत्सत्यान्न विशिष्यते।।
सत्यमेकं परं ब्रह्म सत्यमेकं परं तपः।
सत्यमेकं परो यज्ञः सत्यमेकं परं श्रुतम्।।
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्।
तपो धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्।।
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञास्तथा विधिः।
व्रतचर्या तथा सत्यमोंकारः सत्यमेव च।।
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च।
सत्येन वायुरभ्येति सत्येन तपते रविः।।
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती।।
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम्।
समां कक्षां धारयतो यः सत्यं ततोऽधिकम्।।
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते।
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि।।
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः।
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्।।
यदि जप्यफलं दत्तं मया नेच्छसि वै नृप।
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि।।
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति।
उभावानृतिकावेतो न मृपा कर्तुमर्हसि।।
राजोवाच।
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज।
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्।।
ब्राह्मण उवाच।
न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम्।
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्।।
धर्म उवाच।
अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम्।
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च।।
स्वर्ग उवाच।
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्।
अविवादोऽस्तु युवयोरुमौ तुल्यफलौ युवाम्।।
राजोवाच।
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम्।
विप्रो यदीच्छते दातुं चीर्णं गृह्णातु मे फलम्।।
ब्राह्मण उवाच।
बाल्ये यदि स्मादज्ञानान्मया हस्तः प्रसारितः।
निवृत्तलक्षणं धर्ममुपासे संहितां जपन्।।
निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम्।
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप।
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात्।।
राजोवाच।
यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम्।
आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह।।
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः।
यदि धर्मः क्षुतो विप्र सहैव फलमस्तु नौ।।
मा वा भूत्सह भोज्यं नौ मदीयं फलमाप्नुहि।
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः।।
भीष्म उवाच।
ततो विकृतवैषौ द्वौ पुरुषौ समुपस्थितौ।
गृहीत्वाऽन्योन्यमावेष्ठ्य कुचेलावूचतुर्वचः।।
न मे धारयसीत्येको धारयामीति चापरः।
इहास्ति नौ विवादोऽयमयं राजाऽनुशासकः।।
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान्।
अनृतं वदसीह त्वमृणं ते धारयाम्यहम्।
तावुभौ सुभृशं तप्तौ राजानमिदमृचतुः।
परीक्ष्यौ तु यथा स्याव नावामिह विगर्हितौ।।
विरूप उवाच।
घारयामि नरव्याघ्र विकृतस्येह गोः फलम्।
ददतश्च न गृह्णाति विकृतो मे महीपते।।
विकृत उवाच।
न मे धारयते किंचिद्विरूपोऽयं नराधिप।
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप।।
राजोवाच।
विरूप किं धारयते भवानस्य ब्रवीतु मे।
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः।।
विरूप उवाच।
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम्।
विकृतस्यास्य राजर्षे निखिलेन नराधिप।।
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुराऽनघ।
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने।।
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः।
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना।।
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये।
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने।।
ते चोञ्छवृत्तये राजन्मया समुपवर्जिते।
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो।।
इहाद्यैव प्रयच्छामि गृहीत्वा द्विगुणां फलम्।
एवं स्यात्पुरुषव्याघ्र कःशुद्धः कोऽत्र दोषवान्।।
एवं विवदमानौ स्वस्त्यामिहाभ्यागतौ नृप।
कुरु धर्ममधर्मं वा विनये नौ समादध।।
यदि नेच्छति मे दानं यथा दत्तमनेन वै।
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताऽद्य नौ।।
राजोवाच।
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै।
यथैव तेऽभ्यनुज्ञातं यथा गृह्णीष्व माचिरम्।।
विकृत उवाच।
दीयतामित्यनेनोक्तं ददानीति तथा मया।
नायं मे धारयत्यत्र गच्छतां यत्र वाञ्छति।।
राजोवाच।
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे।
दणड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः।।
विकृत उवाच।
मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः।
को ममात्रापराधो मे दण्डमाज्ञापय प्रभो।।
विरूप उवाच।
दीयमानं यदि मया न गृह्णासि कथंचन।
नियच्छति त्वां नृपतिरयं धर्मानुशासकः।।
विकृत उवाच।
स्वयं मया याचितेन दत्तं कथमिहाद्य तत्।
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते।।
ब्राह्मण उवाच।
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः।
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम्।।
राजोवाच।
प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा।
जापकस्य दृढीकारः कथमेतद्भविष्यति।।
यदि तावन्न गृह्णामि जापकेनापवर्जितम्।
कथं न लिप्येयमहं पापेन महताऽद्य वै।।
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः।
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा।।
स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः।
विप्रधर्मश्च गहनो मामनात्मानमाविशत्।।
ब्राह्मण उवाच।
गृहाण धारयेऽहं च याचितं संश्रुतं मया।
न चेद्भहीष्यसे राजञ्शपिष्ये त्वां न संशयः।।
राजोवाच।
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः।
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति।।
एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः।
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम्।।
ब्राह्मण उवाच।
संहितां जपता यावान्गुणः कश्चित्कृतो मया।
तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे।।
राजोवाच।
जलमेतन्निपतितं मम पाणौ द्विजोत्तम।
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्।।
विरूप उवाच।
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान्।
`जिज्ञासमानौ युवयोर्मनोत्थं तु द्विजोत्तम।।'
सहेति च यदुक्तं ते समा लोकास्तवास्य च।
नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता।।
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम्।
सर्वमन्योन्यनिष्कर्षे निकृष्टं पश्यतस्तव।।
`सर्वेषामुपरिस्थानं ब्रह्मणो व्यक्तजन्मनः।
युवयोः स्थानमूलं निर्द्वन्द्वममलात्मकम्।।
सर्वे गच्छाम यत्र स्वान्स्वाँल्लोकांश्च तथा वयम्।'
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि।।
` ततो धर्मयमाद्यास्ते वाक्यमूचुर्नपर्द्विजौ।
अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकमिति स्मृतं।।
तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम्।
युवयोः काम आपन्नस्तत्काम्यमविशङ्कया।।'
भीष्म उवाच।
जापकानां फलावाप्तिर्मया ते संप्रदर्शिता।
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः।।
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्।
अथवाऽग्निं समायाति सूर्यमाविशतेऽपि वा।।
स तैजसेन भावेन यदि तत्र रमत्युत।
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः।।
एवं सोमे तथा वायौ भूम्याकाशशरीरगः।
सरागस्तत्र वसति गुणांस्तेषां समाचरन्।।
अथ तत्र विरागी स परं गच्छत्यसंशयम्।
परमव्ययमिच्छन्स तमेवाविशते पुनः।।
अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान्।
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः।।
ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम्।
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते।।
चतुर्भिर्लक्षणैर्हीनं तथा पड्भिः सषोडशैः।
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते।।
अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति।
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते।।
अथवा चेक्षते लोकान्सर्वान्निरयसंज्ञितान्।
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम्।।
एवमेषा महाराज जापकस्य गतिर्यथा।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमर्हसि।।
।। इति श्रीमन्महाभारते सान्तिपर्वणि
मोक्षधर्मपर्वणि सप्तनवत्यधिकशततमोऽध्यायः।। 197।।