शांतिपर्व

अध्यायः १९६

Santi Parva (Sanskrit) · Adhyaya 196
अक्षर का आकार

युधिष्ठिर उवाच।

कीदृशं निरयं याति जापको वर्णयस्व मे।
कौतूहलं हि राजन्मे तद्भवान्वक्तुमर्हति।।

भीष्म उवाच।

धर्मस्यांशप्रसूतोऽसि धर्मज्ञोऽसि स्वभावतः।
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ।।

अमूनि यानि स्थानानि देवानाममरात्मनाम्।
नानासंस्थानवर्णानि नानारूपफलानि च।।

दिव्यानि कामचारीणि विमानानि सभास्तथा।
आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः।।

चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः।
मरुतां विश्वदेवानां साध्यानामश्विनोरपि।।

रुद्रादित्यवसूनां च तथाऽन्येषां दिवौकसाम्।
एते वै निरयास्तात स्थानस्य परमात्मनः।।

अभयं चानिमित्तं च न च क्लेशभयावृतम्।
द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च।।

चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम्।
अप्रहर्षमनानन्दमशोकं विगतक्लमम्।।

कालः संपच्यते तत्र कालस्तत्र न वै प्रभुः।
स कालस्य प्रभू राजन्सर्वस्यापि तथेश्वरः।।

`एतद्वै ब्रह्मणः स्थाने जापकस्य महात्मनः।
तत्रस्थं परमात्मानं ध्यायन्वै सुसमाहितः।
हिरण्यगर्भः सायुज्यं प्राप्नुयाद्वा नृपोत्तम।।'

आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति।
ईदृशं परमं स्थानं निरयास्ते च तादृशाः।।

एते ते निरयाः प्रोक्ताः सर्व एव यथातथम्।
तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि षण्णवत्यधिकशततमोऽध्यायः।। 196।।