शांतिपर्व
अध्यायः १९५
युधिष्ठिर उवाच।
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह।
एकैवैषा गतिस्तेषामुत यान्त्यपरामपि।।
भीष्म उवाच।
शृणु वहितो राजञ्जापकानां गतिं विभो।
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ।।
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः।।
एकदेशक्रियश्चात्र निरयं स निगच्छति।।
अवमानेन कुरुते न तुष्यति न शोचति।
ईदृशो जापको याति निरयं नात्र संशयः।।
अहंकारकृतश्चैव सर्वे निरयग्रामिनः।
परावमानी पुरुषो भविता निरयोपगः।।
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः।
यत्रास्य रागः पतति तत्रतत्रोपपद्यते।।
अथैश्वर्यप्रसक्तः सञ्जापको यत्र रज्यते।
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते।।
रागेण जापको जप्यं कुरुते यश्च मोहितः।
यत्रास्य रागः पतति तत्र तत्रोपजायते।।
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति।
फलस्यापचितिं याति निरयं चाधिगच्छति।।
अकृतव्रज्ञको बालो मोहं गच्छति जापकः।
स मोहान्निरयं याति यत्र गत्वाऽनुशोचति।।
दृढग्राही करोमीति जाप्यं जपति जापकः।
न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति।।
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम्।
तद्भूतो जापकः कस्मात्सशरीरमिहाविशेत्।।
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः।
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः।। 195।।