शांतिपर्व
अध्यायः १९२
युधिष्ठिर उवाच।
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते।
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि पितामह।।
कुतः सृष्टमिदं सर्वं ब्रह्मन्स्थावरजङ्गमम्।
प्रलये च कमभ्येति तन्मे वक्तुमिहार्हसि।।
भीष्म उवाच।
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि।
तद्व्याख्यास्यामि ते तात श्रेयस्करतमं शुभम्।।
[सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम्।]
यज्ज्ञात्वा पुरुषो लेके प्रीतिं सौख्यं च विन्दति।
फललाभश्च तस्य स्यात्सर्वभूतहितं च तत्।।
`आत्मानममलं राजन्नावृत्यैवं व्यवस्थितम्।
तस्मिन्प्रकाशते नित्यं तमः सोमो यथैव तत्।।
तद्विद्वान्नष्टयाप्मैष ब्रह्मभूयाय कल्पते।
अण्डावरणभूतानां पर्यन्तं हि यथा तमः।।'
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ।।
यतः सृष्टानि तत्रैव तानि यान्ति पुनःपुनः।
महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा।।
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः।
तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः।।
`स तेषां गुणसंघातः शरीरे भरतर्षभ।
सततं प्रविलीयन्ते गुणास्ते प्रभवन्ति च।।
यद्विना नैव शृणुते न पश्यति न दीप्यते।
यदधीनं यतस्तस्मादध्यात्ममिति कथ्यते।।
ज्ञानं तदेकरूपाख्यं नानाप्रज्ञान्वितं तदा।
न तेवाचाऽनुरूपं स्याद्यया रासविवर्जितम्।।
आकाशात्खलु याज्येषु भवन्ति सुमहागुणाः।
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्।
प्रलये च तमभ्येति तस्मादुत्सृज्यते पुनः।
महाभूतेषु भूतात्मा सृष्ट्वा संहरते पुनः।।'
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्।
अकरोत्तेषु वैषम्य तत्तु जीवो न पश्यति।।
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम्।
वायोः स्पर्शस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम्।।
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते।
रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः।।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः।
महाभूतानि पञ्चैव षष्ठं च मन उच्यते।।
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत।
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः।।
चक्षुरालोचनायैव संशयं कुरुते मनः।
बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः।।
`चिच्छक्त्याधिष्ठिता बुद्धिश्चेतनेत्यभिविश्रुता।
चेतनानन्तरो जीवस्तदा वेत्ति च लक्ष्यते।।
नोत्सृजन्विसृजंश्चैव शरीरं दृश्यते तमः।
तस्मिंश्चेतोपलब्धिः स्यात्तमो वा सारयन्त्युत।।
ऊर्ध्वं पादतलाभ्यां यदर्वाक्चोर्ध्वं च पश्यति।
एतेन सर्वमेवेदं बिद्ध्यभिव्याप्तमन्तरम्।।
पुरुषैरिन्द्रियाणीह विजेतव्यानि कृत्स्नशः।
तमो रजश्च सत्वं च तेऽपि भावास्तदाश्रिताः।।
एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम्।
समवेक्ष्य शनैश्चैव लभते शममुत्तमम्।।
गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि।
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः।।
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्।
प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा।।
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते।
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया।।
त्वचा स्पर्शयते स्पर्शं बुद्धिर्विक्रियतेऽसकृत्।
येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः।।
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा।
पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति।।
पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते।
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति।।
न सुखेन न दुःखेन कदाचिदपि वर्तते।
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता।।
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते।
सरितां सागरो भर्ता महावेलामिवोर्मिमान्।।
अविभागगता बुद्धिर्भावे मनसि वर्तते।
प्रवर्तमानं तु रजस्तद्भावमनुवर्तते।।
इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा तदा।
ततः सत्वं तमो भावः प्रातियोगात्प्रवर्तते।।
प्रीतिः सत्वं रजः शोकस्तमो मोहस्तु ते त्रयः।
येये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु वै त्रिषु।।
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत।
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता।।
सत्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा।
त्रिविधा वेदना चैव सर्वसत्वेषु दृश्यते।।
सात्विकी राजसी चैव तामसी चेति भारत।
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः।
तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ।।
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा।।
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः।
प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत्।।
अथ यन्मोहसंयुक्तमव्यक्तविषयं भवेत्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता।
कथंचिदभिवर्तन्त इत्येते सात्विका गुणा।।
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः।।
अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता।
कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः।।
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्।
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च।।
सत्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः।
सृजते तु गुणानेक एको न सृजते गुणान्।।
मशकोदुम्बरौ वाऽपि संप्रयुक्तौ यथा सदा।
अन्योन्यमेतौ स्यातां च संप्रयोगस्तथा तयोः।।
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा।
यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ।।
न गुणा विदुरात्मानं स गुणान्वेति सर्वशः।
परिद्रष्टा गुणानां स संसृष्टान्मन्यते तथा।।
इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः।
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत्।।
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति।
संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः।।
आश्रयो नास्ति सत्वस्य क्षेत्रज्ञस्य च कश्चन।
सत्वं मनः संसृजते न गुणान्वै कदाचन।।
रश्मीस्तेषां स मनसा यदा सम्यङ्गियच्छति।
तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव।।
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः।
सर्वभूतात्मभूस्तस्मात्स गच्छेदुत्तमां गतिम्।।
यथा वारिचरः पक्षी सलिलेन न लिप्यते।
एवमेव कृतप्रज्ञो भूतेषु परिवर्तते।।
एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः।
अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः।।
स्वभावसिद्ध्या युक्तस्तु स नित्यं सृजत गुणान्।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः।।
प्रध्वस्ता न निवर्न्तते निवृत्तिर्नोपलभ्यते।
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति।।
एवमेकेऽध्यवस्यन्ति निवृत्तिरिति चापरे।
उभयं संप्रधार्यैतद्व्यवस्येत यथामति।।
इतीमं हृदयग्रत्थिं बुद्धिभेदमयं दृढम्।
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः।।
मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः।
अवगाह्य सुविद्वांसो विद्धि ज्ञानमिदं तथा।।
महानद्या हि पारज्ञस्तप्यते न तदन्यथा।
न तु तप्यति तत्त्वज्ञः फले ज्ञाते तरत्युत।।
एवं ये विदुराध्यात्मं केवलं ज्ञानमुत्तमम्।।
एतां बुद्धा नरः सर्वां भूतानामागतिं गतिम्।
अवेक्ष्य च शनैर्बुद्ध्या लभते शममुत्तमम्।।
त्रिवर्गो यस्य विदितः प्रेक्ष्य तं स विमुच्यते।
अन्वीक्ष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः।।
न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः।
तत्रतत्र विसृष्टेषु दुर्वार्येष्वकृतात्मभिः।।
एतद्बुद्धा भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम्।
प्रतिगृह्य च निह्नोति ह्यन्यथा च प्रदृश्यते।।
न सर्पति च यं प्राहुः सर्वत्र प्रतिहन्यते।
धूमेन चाप्रसन्नोऽग्निर्यथाऽर्कं न प्रवर्तयेत्।।
धिष्ण्याधिपे प्रसन्ने तु स्थितिमेतां निरीक्षते।
अतिक्षूराच्च सूक्ष्मत्वात्प्रस्थानं न प्रकाशते।।
प्रपद्य तच्छ्रुताह्नानि चिन्मयं स्वीकृतं विना।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः।।
न भवति विदुषां ततो भयं
यदविदुषां सुमहद्भयं भवेत्।
न हि गतिरधिकास्ति कस्यचि
त्सति हि गुणे प्रवदन्त्यतुल्यताम्।।
यः करोत्यनभिसन्धिपूर्वकं
तच्च निर्णुदति यत्पुरा कृतम्।
नाप्रियं तदुभयं कुतः प्रियं
तस्य तज्जनयतीह सर्वतः।।
ये विदुस्तदुभयं पदं सताम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि द्विनवत्यधिकशततमोऽध्यायः।। 192।।